SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ इंदिय 585 अमिधानराजेन्द्रः भाग 2 इंदिय पाठे युक्त इति चेदुच्यते। विचित्रत्वात्सूत्रगतेरित्थं निर्देशोऽर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम्। अपरस्त्वाह। यद्वद्धतत्स्पृष्टं भवत्येव विशेषबन्धे सामान्यबन्धस्यान्तर्भावात् ततः किं स्पृष्टग्रहणेनेति तदयुक्तं सकल श्रोतृसाधारणत्वाच्छास्त्रारम्भस्य प्रपञ्चितज्ञानग्रहार्थमापत्तिगम्यार्थाभिधानेऽप्यदोषादिति चतुरिन्द्रियं त्वप्राप्त-मेव विषय गृह्णातीत्याह "रूवं पुण पासइ अपुढे त्विति' रूपं कर्मतापन्नं च चक्षुरस्पृष्टमप्राप्तमेव पश्यति पुनः शब्दस्य विशेषणार्थत्वाद स्पृष्टमपि योग्यदेशस्थमेव पश्यतिनायोग्य-देशस्थसौधर्मादिकटकुड्यादिव्यवहितं वा घटादीति नियुक्तिगाथार्थः / / अर्थे तद्व्याख्यानाय भाष्यम्॥ पुढे रेणुंव तणुम्मि, बद्धमप्पीकयं पएसेहिं। छिक्काई चिय गिण्हइ, सहदव्वाइजुत्ताइं॥ बहुसुहुमभावुगाई,जं पड़यरयं व सोत्तंविण्णाणं। गंधाई दवाई, विवरीयाई जओ ताई। फरिसाणत्तरमत्तर, मत्तप्पए समीसीकयाई। घेप्पंति पटुयरविणाइं जंच न घाणाइकरणाई। स्पृष्टमित्यस्य व्याख्यानम्। (पुट्ठरेणुंवतणुम्मित्ति) यथा रेणोस्तनौ संबन्धः इत्येतावन्मात्रेण यद्वस्तु संबद्धं तदिह स्पृष्टमुच्यत इति भावः / / (बद्धमित्यादि) यदात्मीकृतमात्मना गाढतरमागृहीतमात्मप्रदेशस्तनुलग्नतोयवन्मिश्रीभूतं तद्वद्धमुच्यते इत्यर्थः। तत्र (छिक्काई चि) अतिस्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोतं यतस्तानि बहूनि सूक्ष्माणि भावुकानि च वासकानिचेत्यर्थः। पटुतरंच श्रोत्रविज्ञानं गन्धादिद्रव्याणितु विषरीतानि स्तोकबादराभावुकानि यतोऽतस्तानि स्पर्शानन्तरमात्मप्रदेशर्मिश्रीकृतानि स्पृष्टबद्धानि गृह्णान्ते / घ्राणादिभिः पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकारणानीति गाथात्रयार्थः / अथ रूवं पुण पासइ अप्पुटुंत्वित्यत्रोपपत्तिमाह। "अप्पत्तकारिनयणं, णेयं नयणस्स विसयपरिमाणं। आयंगुलेण लक्खं, अइरित्तं जो अणाणतु" प्रागुक्तयुक्त्या अप्राप्तकारि अप्राप्तस्यैव वस्तुनः परिच्छेदकारियतो नयनमनश्च ततोऽस्पृष्टमेव रूपंपश्यति नयनेन्द्रियम्। विशे(अधिकं तु विस्तरभयान्न प्रपञ्च्यतेतत्तुतत्रैव दृष्टव्यम्) (8) सम्प्रतीन्द्रियाणाम्प्रविष्टाप्रविष्टविषयचिन्तां कुर्वन्नाह॥ पविट्ठाई भंते ! सद्दाइं सुणेइ अपविट्ठाई सद्दाई सुणेइ ? गोयमा ! पविट्ठाई सद्दाई सुणेइ नो अपविट्ठाइं सुणेइ एवं जहा पुट्ठाणि तहा पविठ्ठाणि॥ (सद्दाइं इत्यादि) पाठसिद्ध नवरं स्पर्शस्तनौ रेणोरिवाऽपि भवति। प्रवेशो मुखे कवलस्येवेति शब्दार्थस्य भिन्नत्वात् भिन्नविषयता स्पृष्टप्रविष्टसूत्राणामिति-प्रज्ञा०१५ पद०। (9) श्रोत्रलक्षणादिचतुरिन्द्रियाणां प्राप्यकारित्वं नयन मनसोस्त्वप्राप्यकारित्वम्। प्राप्तकारीणिन्द्रियाण्यप्राप्कारीणिवेति तत्र प्राप्तकारीण्ये वेति कणभक्षाक्षपादमीमांसकसाङ्ख्याः समाख्यान्ति / चक्षुः श्रोत्रेतराणि तानि तथेति ताथागताः। चक्षुर्वर्जानीति तुतथा स्याद्वादावदातहृदयाः। तत्र प्रथमे प्रमाणयन्ति। चक्षुःप्राप्त मर्ति करोति विषये बाटेन्द्रियत्वादितो। यदाोन्द्रियतादिना परिगतं तत्प्राप्तकारीक्षितं / / जिहावत् प्रकृतं तथा च विदितं तस्मात्तथा स्थीयतां। नाऽत्रासिद्धिमुखश्चदूषणकणस्तल्लक्षणानीक्षणात्।। अद्रिचन्द्रकलनेषु या पुनर्त्यांगपद्यधिषणा मनीषिणाम्। पद्मपत्रपटलीविलोपव-त्सत्वरोदयनिबन्धनैव सा / / 2 / / प्रथमतः परिसृत्य शिलोचयं निकटतः क्षणमीक्षणमीक्षते / तदनु दूरतराम्बरमण्डली तिलककान्तमुपेत्य सितत्विषम्।। कुर्महेऽत्र वयमुत्तरकेली कीदृशी दृगिह धर्मिमतयोक्ता। किन्तु मांसमयगोलकरूपा सूक्ष्मताभृदपरा किमु काऽपि / 4 / आदिमा यदि तदापि किमर्थों लोचनानुसरणव्यसनी स्यात्। लोचनं किमुत वस्तुनि गत्वा संसृजोत्प्रिय इव प्रणयिन्याम् / / प्रत्यक्षबाधः प्रथमप्रकारे प्राकारपृथ्वीधरसिन्धुरादिः / संलक्ष्यते पक्ष्मपुटोपटंकी प्रत्यक्षकाले कलयाऽपि नो यत् / पक्षेऽपरत्राऽपि स एव दोषः सर्पन्न वस्तु प्रतिवीक्ष्यतेऽक्षि। संसर्पणे वाऽस्य सकोटरत्वप्राप्त्यापुमान् किंन जरहमास्यात्।।९।। चक्षुषः सूक्ष्मतापके सूक्ष्मता स्यादमूर्तता। यद्वाल्पपरिणात्व-मित्येषा कल्पनोभयी / / 6 / / स्याङ्ख्योमवद्व्यापकता प्रसक्त्या सर्वोपलम्भः प्रथमप्रकारे / प्राकारकान्तारविहारहार मुख्योपलम्भो न भवेद् द्वितीये / / न खलु न खलु शास्वं स्वप्रमाणात्प्रथिष्ठे षटकटशकटादौ भेदकारि प्रसिद्धम् / अथ निगदसि तस्मिन् रस्मिचक्रं, क्रमेण, प्रसरति तत एतत्स्यादनल्पप्रकाशम् / / 10 / / तथाहि-प्रोद्दाममाणिक्य-कणानुकारी दीपाकुरस्त्विट्पटली प्रभावात् / किं नैव कश्मीरजकज्जलादीन् प्रथीयसोऽपि प्रथयत्यशेषान् ॥१शा नन्वेवमध्यक्षनिराक्रिया स्यात्पक्षे पुरस्तादुपलक्षितेऽस्मिन् / प्रौढप्रभामण्डलमण्डितोऽर्थो नाभासते यत्प्रतिभा समानः / / 12 / / अथाप्यनुभूततया प्रभायाः पदार्थसंपर्क जुषोप्यनीक्षा सि-द्धिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत्तैजसताख्य हेतोः // 10 // रूपादिमध्ये नियमेन रूपप्रकाशकत्वेन च तेजसत्वम् / प्रभाषसे चक्षुसि संप्रसिद्धं यथा प्रदीपाकुरविधुदादौ // 14 // तदिदंघुसणविमिश्रणमंध्रपुरन्ध्रीकपोलपालीनाम् / अनुहरते व्यभिचाराद्रूपक्षणसंनिकर्षण ||15|| द्रव्यत्वरूपेऽपि विशेषणे स्याद्धेतोरनैकान्तिकताञ्जनेन / तस्यापि चैत्तेजसतां तनोषि, तन्वादिना किन्तु तदाऽपराद्धम्॥१६|| सौवीरसौर्चलसैंधवादि निश्चिन्वते पार्थिवमेव धीराः कृशानुभावोपगमोऽस्य तस्मा दयुक्त एव प्रतिभात्यमीषाम्।।१७।। तथाच-सौवीरसौवर्चलसैन्धवादिकं स्यादाक रोद्भतिवशेन पार्थिवम् / मृदादिवन्न व्यभिचारचेतनं चामीकरणानुगुणं निरीक्ष्यते // 18 // चामीकरादेरपि पार्थिवत्वं लिंगेन तेनैव निवेदनीयम् / शाब्दप्रमाणेन न चाऽत्रवाधापक्षस्य यन्नास्तितदत्र सिद्धम्।।१९|| अञ्जनमरिचरोचनादिकं पार्थिवं ननु तवापि सम्मतम् / अञ्जनेऽपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी |20|| हनूमल्लोललांगूललम्बात्ते साधनादतः। न सिद्धिस्तैजसत्वस्य दृष्ट सुस्पष्ट दूषणात् ||21|| चक्षुर्न तैजसमभास्वरतिग्मभावादम्भोवदित्यनुमितिप्रतिषेधनाच / सिद्धि दधाति नयनस्य न तैजसत्वं तस्मादमुष्य घटते किमु रश्मिवत्ता ||22|| अपिच / प्रत्यक्षबाधःसमलक्षि पक्षे न रश्मयो यदृशि दृष्टपूर्वाः / तथा च शास्त्रेण तवैव कालातीतत्वदोषोऽप्युदपादि हेतोः / / 23 / / अनुगवद्रूपजुषो भवेयुश्चेद्रश्मयस्तत्र ततो न दोषः / नन्वेवमेत स्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत् स्यात् // 24 // आलोक साचिव्यवशादथास्य प्रकाशक त्वं घटनामियति / नन्वेवमेतत्सचिवस्य किं स्यात्प्रकाशकत्वं न कुटीकुटादेः / / 25||
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy