SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ इंदिय 584 अभिधानराजेन्द्रः भाग 2 इंदिय इन्द्रिय पुनश्चक्षुरादिकं विनियोग व्यापार लभते प्रत्युत्पन्ने वर्तमानार्थविषयं नातीतानागतार्थविषयमिति भावः // वृ०१ उ.। इन्द्रियं हि वार्त्तमानिक एवार्थे व्याप्रियते तत स्तत्सामर्थ्या-दुपजायमानं मानसमपि ज्ञानमिन्द्रियज्ञानमिव वर्तमानार्थग्रहण-पर्यवसितसत्ताकमेव भवेत्। अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयतिन शेष कालं ततस्तद्रूपविज्ञानं वर्तमानार्थविषयं वर्तमान एवार्थे चक्षुषो व्यापारात् स्वरूप-विषयव्यावृत्त्यभावे च मनोज्ञानं ततो न तत् प्रतिनियतकालविषय-मेवं शेषेष्वपीन्द्रियेषु वाच्यमानं०।। (7) श्रोत्रेद्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपादयिषुरादौ विषयांस्तद्ग्रहणप्रकारचाह // *दोहिं ठाणेहिं आया सहाइंसुणेइतं देसेण वि आया सहाई सुणेइ सव्वेण वि आया सहाई सुणेइ एवं रूवाइं पासइ गंधाई आघायइ रसाइं आसाएइ फासाई पडि संवेएइ।।* (देशेणवित्ति) देशेन शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति सर्वेण वा ऽनुपहतश्रोत्रेन्द्रियो यो वा संभिन्नश्रोत्राभिधानलब्धियुक्तः स सर्वरिन्द्रियैः शृणोतीति सर्वेणेति व्यपदिश्यते एवमिति यथा शब्दान् देशसर्वाभ्यां एवं रूपादी नपि नवरं जिह्लादेशस्य प्रसुप्त्या-दिनोपघाताद्देशेनास्वाद यतीत्यवसेयमिति। देशसर्वाभ्यां सामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वात् देवानां तानाश्रित्य तदाह। दोहिं ठाणेहि देवे सदाइं सुणेइ तंजहा देसेण वि देवे। सहाई सुणेइ सवेण विसद्दाई सुणेइ जाव णिचरेइ॥ (दोहीत्यादि) एतदपि विवक्षितशब्दादिविशेषापेक्षया सूत्रचतुर्दशकं नेयमिति देशतः सर्वतो वेति अनन्तरोक्ता भावाः शरीर एव सति सम्भवन्तीति देवानां च प्रधानत्वात्तेषा मेव। स्था०२ ठा०। पुट्ठाई भंते ! सहाई सुणेह अपुटाई सद्दाई सुणेइ ? गोयमा ! पुट्ठाई सद्दाइं सुणेइ नो अपुट्ठाई सहाई सुणेइ पुट्ठाई भंते ! रूवाई पासंति अपुट्ठाई रूवाइं पासंति ? गोयमा ! नो पुट्ठाई रूवाई पासंति अपुट्ठाई रूवाई पासंति पुट्ठाई भंते ! गंधाई अग्धाति अपुट्ठाइं गंधाइं अग्घाति ? गोयमा ! पुट्ठाइं अग्याइनो अपुट्ठाई अग्घाइ। एवं रसाण विफासाण विनवरं रसाइं आस्साइ फासाइं पडिसंवेदेति अभिलाओ कायवो।। (सद्दाइंसुणेइ इत्यादि) प्राकृतत्वात्सूत्रशब्दशब्दस्य नपुंसकत्वमन्यथा पुंस्त्वं प्रतिपत्तव्यं / स्पृष्टान् भदन्त ! श्रोत्रेन्द्रि-यमिति कर्तृपदं सामर्थ्याल्लभ्यते।शब्दान् शृणोति तत्र स्पृश्यन्ते इति स्पृष्टास्तान्तनौ रेणुमिवालिङ्गितमात्रानि त्यर्थः "पुढे रेणुं व तणुंमि'' इति वचनात् शब्द्यन्ते प्रतिपाद्यन्ते अर्था एभिरिति शब्दाः तान् शृणोति गृण्हाति उपलभ्यते इति यावत्। विमुक्तं भवति। स्पृष्टमात्राण्यत्र च शब्द द्रव्याणि श्रोत्रेन्द्रियमुपलभन्ते। न तुघ्राणेन्द्रियादिवत् बद्धस्पृष्टानीति कस्मादिति चेदुच्यते इह शब्दद्रव्याणि घाणेन्द्रियादिविषयभूतेभ्योद्रव्येभ्यः सूक्ष्माणि / तथा नि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च ततः सूक्ष्मत्वादतिप्रभूतत्वात् तदाऽन्यद्रव्यवासक त्वाचात्मप्रदेशः स्पृष्ट मात्राण्यपि निवृत्तेन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति / श्रोत्रेन्द्रियं च घाणेन्द्रियाधपेक्षया | स्वविषयपरिच्छेदे पढ़तरंततःस्पृष्टमात्राण्यपितानि श्रोत्रे-न्द्रियमुपलभंते नास्पृष्टान् सर्वथात्मप्रदेशैः संबन्धमप्राप्तान् श्रोत्रेन्द्रियस्य प्राप्तविषयपरिच्छेदस्वभावात् यथा च श्रोत्रेन्द्रियस्य प्राप्तकारितातथा नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधार्यम् (पुट्ठाई भंते ! रूवाई इत्यादि)।। सुगमं निर्वचनमाह / गौतम ! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि चक्षुषोऽ-प्राप्तिकारित्वाच्च तचाप्राप्तिकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोवधारणार्थ गन्धादि विषयाणि सूत्राणि सुप्रसिद्धानि नवरं स्पृष्टान् गन्धानाजिघूतीत्यादियद्यप्युक्तं तथापि बद्धस्पृष्टानीति द्रष्टव्यम् यत उक्तमावश्यकनियुक्ती (पुढे सुणेईत्यादि) तत्र स्पृष्टानीतिपूर्ववत् बद्धानितिआत्मप्रदेश रात्मीकृतान् “बद्धमप्पीकथं पएसेहिं" इति वचनात्-विशेषणसमासश्च बद्धाश्च ते स्पृष्टाश्च बद्धस्पृष्टास्तान् इहस्पष्टास्पर्शमात्रेणापि भवन्ति / यथा शब्दस्ततः स्पर्शमात्रव्यवच्छेदेन स्पर्शविशेषप्रतिपत्तिरव्याहता स्यादिति बद्धग्रहणं बद्धरूपा ये स्पृष्टास्तान् परिच्छिनत्ति नान्यानि कस्मादेवमितिचेदुच्यते गन्धादि द्रव्याणां बादरत्वादल्पत्वादभावकत्वाचघाणादीन्द्रियाणामपि श्रोत्रेन्द्रियापेक्षया मन्दशक्तिकत्वादिति। प्रज्ञा पद०१५। इन्द्रियाणां प्राप्याऽप्राप्यकारित्वम् / चत्तारि इंदियत्था पुट्ठा वेति। तंजहा। सोइंदियत्थे। घाणिंदियस्थे२ जिभिदियत्थे३फासिंदियत्थे। (पुट्ठत्ति) स्पष्टा इन्द्रियसंबद्धा (वेएतित्ति) वेद्यन्ते आत्मना ज्ञायन्ते नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति / / स्था४ ठा आह च॥ पुढे सुणेइ सह, रूवं पुण पासई अपुढे तु // गंध रसं च फासंच, बद्धपुट वियागरे ||1| श्रोत्रेन्द्रियां कर्तृशब्दं कर्मतापन्नं शृणोति। कथंभूतमित्याह / / स्पृशत इति स्पृष्टस्तं स्पृष्ट तनौ रेणुवदालिङ्गितमात्रमित्यर्थः / इदमुक्तं भवति स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभन्ते यतो घ्राणादीन्द्रियविषयभूतद्रव्येभ्यस्तानि सूक्ष्माणि बहूनि भावुकानि च पटुतरं च श्रोत्रेन्द्रियंविषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति श्रोत्रेन्द्रियस्य च कर्तृव्यं शब्दश्रवणा न्यथानुपपत्तेर्लभ्यते / एवं घ्राणेन्द्रियादिष्वपि वाच्यम् तानि पुनः कथं गन्धादिकं गृ-ण्हन्तीत्याह / गन्ध्यत इति गन्धस्तमुपलभते व्राणेन्द्रियम्। रस्यत इति रसस्तं च गृण्हाति रसनेन्द्रियम् स्पृशतं इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् / कथंभूतं गन्धादिकमित्याह / बद्धस्पष्टं तत्र स्पृष्टमितिपूर्ववदेव बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतमित्यर्थः / ततश्च गंधादिद्रव्यसमूह स्पृष्टमा-लिङ्गितं ततश्च स्पर्शनानन्तरं बद्धमात्मप्रदेशैर्गाढतर-भागृहीतमेवोपलभते घ्राणेन्द्रियादिकमित्येवं व्यागृणीयात् प्ररूपयेत् प्रज्ञापकः / यतो घ्राणेन्द्रियादिविषयभूतानिंगन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि बादराण्यभावुकानि च विषयपरिच्छेदे श्रोत्रापेक्षया पटूनिच घ्राणादीन्यतो बद्धस्पृष्ट मेव गन्धादिद्रव्यसमूहं गृह्णन्ति न पुनः स्पृष्टमात्रमितिभावः ननु यदि स्पर्शनान्तरं बद्धं गण्हन्ति तर्हि 'पुट्ठबद्ध' मिति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy