________________ इंदिय 576 अभिधानराजेन्द्रः भाग 2 इंदिय तल्लिङ्गादिभावादिति। तच्च श्रोत्रादिभेदं श्रोत्रनयनघ्राणरसनस्पर्शनभेदात्पञ्चविधमित्यर्थः / विशे०॥ स्था० / प्रव० / सूत्र० / पञ्च स्पर्शादीनि बुद्धीन्द्रियाणि वाक् पाणिपादपायूपस्थरूपाणि पञ्चकर्मेन्द्रियाणि एकादशं मन इति सांख्याः। सूत्र०१श्रु०१०। तस्य च नोइन्द्रियत्वं स्थानाङ्गे उक्तम्। तद्यथाछहिं इन्द्रियत्था पण्णत्ता तंजहा सोइंदियत्थे जाव फासिंदियत्थे नो इंदियत्थे। तत्र श्रोत्रेन्द्रियादीनामा विषयाः शब्दादयः मनस आन्तर करणत्वेन करणत्वात्करणस्य चेन्द्रियत्वात्तत्रान्तररूळ्या वा मनस इन्द्रियत्वात्तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तम् / औदारिकादित्वार्यपरिच्छेदकत्वलक्षणधर्म द्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधा-नोइन्द्रियमनः सादृश्यार्यत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वे नेन्द्रियाणां सदृशमिति तत्सहचरमिति वा नोइन्द्रियं मनस्तस्यार्थो विषयो जीवादि नो इन्द्रियार्थ इति। स्था०६ठा०।। 1. इन्द्रियाणां पञ्चत्वेऽपि नामादितश्चातुर्विध्यं द्रव्यादितो द्वैविध्यं तत्संस्यानञ्च। 2. इन्द्रियाणां बाहुल्यपृथ्क्त्वप्रदेशावगाहनास्तद्घात वेदना च। 3. इन्द्रियाणां पृथुत्वं तदवगाहना च। 4. इन्द्रियाणामल्पबहुत्वं तद्गुणाश्च / 5. नैरयिकादिषु संस्थानाद्यल्पबहुत्वचिन्तनम्। 6. इन्द्रियाणां वर्तमानार्थग्राहकत्वम् / 7. इन्द्रियाणां स्पृष्टास्पृष्टविषयता तद्ग्रहणप्रकारश्च / इन्द्रियाणां प्रविष्टाप्रविष्टविषयचिन्तनम्। 6. श्रोत्रलक्षणादीन्द्रियाणां प्राप्यकारित्वं नयनमनसोरप्राप्यकारित्वम्। 10. इन्द्रियाणां विषयनिरूपणम्। 11. इन्द्रियासंभृतत्वस्वरूपस्येन्द्रियासम्बरदोषस्य चाभिधानम्। 12. इन्द्रियाणां गुप्तागुप्तदोषाभिधानम्। 13. अनामितानि चेन्द्रियाणि दुःखाय भवन्ति इत्यत्रोदाहरणानि / 14. इन्द्रियाश्रितत्वे जीवानां भेदाः। (1) इन्द्रियाणां पञ्चत्वेऽपि नामादितश्चातुर्विध्यं द्रव्या-दितोद्धैविध्यं तत्संस्थानञ्च। कइणं भंते ! इंदिया पण्णत्ता ? गोयमा ! पंचिंदिया पण्णत्ता तंजहा सोइंदिए चक्खिदिए घाणिदिए जिभिदिए फासिं-दिए। कति कियत्संख्याकानि णमिति वाक्यालङ्कारे भदन्त ! इन्द्रियाणि प्रागनिपतितशब्दार्थानि वक्तव्यानि भगवानाह / गौतम ! पञ्चेन्द्रियाणि प्रज्ञप्तानि तान्येव नामत आह "सोई दियए' इत्यादि। प्रज्ञा०१५ पद। एतानि च पञ्चापि इन्द्रियाणि नामादिभेदाचतुर्विधानि तं नामाइ चउद्धा, दव्वं निवित्ति उवगरणं च / आगासे निवित्ति, चिंतावज्झायमाउन्नो। तन्नामेन्द्रियस्थापनेन्द्रियमित्यादि भेदाचतुर्दा तत्र ज्ञभव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्येन्द्रियं निर्वृत्तिरुपकरणं चेति द्विभेदम्। विशे०। भावतो लब्ध्युपयोगात्मकानि आह च तत्त्वार्थसूत्रकृत् निर्वृत्युपकरणे द्रव्येन्द्रियलब्ध्युपयोगो भावेन्द्रियमिमि / तत्र निर्वृत्तिनम प्रतिविशिष्टः संस्थानविशेषः साऽपि द्विविधाः वाह्याभ्यन्तरा च तत्र वाह्या पर्पटिकादिरूपा सा च विचित्रा न प्रतिरूप नियतरूपतयोपदेष्टु, शक्यते / / तथाहि मनुष्यश्रोत्रे नेत्रयोरुभयपार्श्वतो भाविनी भुवौ चोपरितनश्रवणबन्धापेक्षया समे वाजिनीनेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि जातिभेदान्नानाविधा आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समानता मेववाधिकृत्य वक्ष्यमाणानि संस्थानादिविषयाणि सूत्राणि केवलं स्पर्श-नेन्द्रि यस्य निर्वृत्तेर्वाह्याभ्यन्तरभेदा न प्रतिपत्तव्याः पूर्वसूरिभि-निषेधात् / प्रज्ञा० 15 पद / आ०म०वि० / तत्वार्थमू लटीकायामनभ्युपगमात् / जी०१प्र०। इन्द्रियाणां संस्थानान्याह। पुप्फ कलंबुयार, धन-मसूरादिमुत्तचंदो य / होई खुरुप्पनाणा, किई य सोइंदियाईणं // श्रोत्रस्यान्तर्निवृत्तिः कदम्बपुष्पाकारमांसगोलकरूपादृष्टव्या। चक्षुषस्तु धान्यमसूराकारा, घ्राणस्य अतिमुक्तककुसुमचन्द्रका-कारा, रसनस्यक्षुरप्राकारा, स्पर्शनं तु नानाकृतिर्द्रष्टव्यमित्येष श्रोत्रादीनां तन्निवृत्तेराकार इति। विशे०। तथाच प्रज्ञापनाया पञ्चदशे पदे। सोइंदिए णं भन्ते ! किं संठिए पण्णत्ते ? गोयमा ! कलंबुयापुप्फसंठाणसंठिए पण्णत्ते चक्खिदिएणं पुच्छा गोयमा ! मसूरा चंदसंठाणसंठिये पण्णत्ते, घाणिदिएणं पुच्छा गोयमा! अइमुत्तगचंदसंठाणसंठिए पण्णत्ते, जिभिदिएणं पुच्छा गोयमा ! खुरुप्पसंठाणसंठिए पण्णते फासिंदिएणं पुच्छा गोयमा ! नाणासंठाणसंठिएपण्णते, तत्रान्तः श्रोत्रेन्द्रियस्यान्तर्मध्ये नेत्रगोचरोऽतीता के वलिदृष्टा अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति शब्दग्रहणोपकारे वर्तते चक्षुरिन्द्रियस्यान्तर्मध्ये केवलिगम्या धान्यमसूराकारा काचिन्निर्वृत्तिरस्ति या रूपग्रहणोपकारे वर्तते / घ्राणेंद्रियस्यान्तर्मध्ये केवलिदृष्टा अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्तिया गन्धग्रहणापेकारे वर्तते। रसेन्द्रियस्यान्तर्मध्ये जिनगम्या क्षुरप्रहरणाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति या रसग्रहणोपकारे वर्तते / स्पर्शनेन्द्रियस्यान्तः केवलिदृष्टा देहाकार काचिन्निर्वृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्त्तते॥ तंदु०॥ उपकरणं खङ्ग स्थानीया बाह्या निर्वृतिर्या खगधारासमाना - स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वत्तिस्तस्याः शक्तिविशेषः इदचोपकरणरूं द्रव्येन्द्रियमन्तरेनिवृत्तेः कथं चिदर्थान्तरं शक्तिशक्तिमतोः कथंचिदं भेदात्कथशिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वत्तौ द्रव्यादिनापकरणस्य विघातसम्भवात् तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्ता वतिकठोरतरघनगर्जितादिना शक्तयुपघाते सति नपरिच्छे तुमीशते जन्तवः शब्दादिकमिति / प्रज्ञा० 15 पद। विसयग्गहणसमत्थं, उवगरणिंदियं तरं तं पि। जंते ह तदुवघाए गिण्हए निव्वत्तिभावे वि॥ तस्य एव कदम्बपुष्पकृतिमांसगोलकरूपायाः श्रीवाद्यन्तर्नि