________________ आउजीव 34 अभिधानराजेन्द्रः भाग 2 आउजियकरण संतई पप्पऽणाईया, अपज्जवसिया विय। ठिई पडुच साऽऽईया, सपज्जवसिया वि य / / 7 / / सन्तति- प्रवाहमार्गमाश्रित्य अप्कायजीवा अनादिका: पुनरपर्यवसिता अपि स्थिति- भवस्थिति, कायस्थितिं चाश्रित्य सादिकास्तथा सपर्यवसिता: अवसानसहिता अपिवर्तन्त / / 87 / / सत्तेव सहस्साइं, वासाणुक्कोसिया भवे। आउठिई आऊणं, अंतोमुहूत्तं जहन्नियं / / 8 / / अपाम्- अप्कायजीवानां सप्तैव सहस्राणि वर्षाण्युत्कृष्टा आयुष: स्थितिर्भवेत्, जघन्यत: अन्तर्मुहूर्तं भवेत्॥१८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहणिया। कायठिई आऊणं,तं कायं तु अमुचओ // 89 / / अपाम्-अप्कायजीवानां तं स्वकायमर्थात्-अप्कायममुञ्चता- मुत्कृष्टा कायस्थिति: असंख्यकालं भवति जघन्या कार्यस्थितिरन्तर्मुहूर्त भवति। अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं / विजढम्मि सएकाए, आउजीवाण अंतरं / / 9 / / अब्जीवानां स्वकीये काये त्यक्ते सति अपरस्मिन् काये उत्पद्य पुनः स्वकीये काये उत्पत्ति: स्यात्तदा उत्कृष्टमन्तरमनन्तकालं भवति / जघन्यकमन्तरम्- अन्तर्मुहूर्त भवति / वनस्पतिकाये जीवोऽनन्तकालं तिष्ठति तदा अनन्तकालमन्तरं भवति, इति भावः / एएसिं वन्नओचेव, गंधओ रसफासओ। संठाणाऽऽदेसओ वा वि, विहाणाइ सहस्ससो।।९।। एतषाम् - अप्कायजीवानां वर्णतो गन्धत: रसत: स्पर्शतः संस्थानाऽऽदेशतश्चापि- संस्थाननामतश्चापि सहस्रशो-बहवो भेदा भवन्ति / / 11 / / उत्त०३६ अ। अब्जीवानां च प्रत्येकशरीरिता।"पुढोसत्ता आउजीवा'' प्रत्येकशरीरत्वा त्पृथक्- प्रत्येकं सत्त्वा:- प्रत्येकशरीरिणोऽवगन्तव्याः / सूत्र०।१ श्रु.११ अ। आउज्ज- न० (आतोद्य) आ-समन्तात् तुद्यते। आतुदण्यत् / वीणादौ वाद्ये, आचा०१ श्रु०१ अ५ उ०। स्था.। अनु। आवाजी। तच द्विविधम्ततविततभेदात्। ततविते अपि द्विविधे-घन-शुषिरभेदात्। स्था०२ ठा. ३ऊ। चतुर्विधम्- ततविततघनशुर्षिरभेदात्। बृ.१ऊ। "ततं वीणादिकं ज्ञेयं !, विततं पटहादिकम् / घनं तु कांस्यता लादि, वंशादि शुषिर मतम् ||1|| इति विवक्षाप्राधान्याच न विरोधो मन्तव्य: / स्था०२ ठा० ३ऊा आचा। आतोद्यस्य 49 भेदा:तते णं से सूरियाभे देवे अट्ठसयं संखाणं विउव्वति। अट्ठ सयं संगाणं विउव्वइ / अट्ठसयं संखियाणं विउव्वइ / अट्ठसयं खरमुहीणं विउव्वइ / अट्ठसयं पेयाणं विउव्वइ / अट्ठसयं पिरिपिरियाणं विउव्वति / एवमाइयाणं एगोणवणं आउज्जविहाणाई विउव्वति। 'एवमाझ्याणं' ति-आदिशब्देन-* पणव 6 पटह७ भम्भा८होरम्भा९ भेरी 10 जल्लरी १९दुन्दुभी 12 मुरुज१३मृदङ्ग 14 नंदीमृदङ्ग१५आलिङ्ग 16 कुस्तुम्ब 17 गोमुखी 18 मईल 19 विपञ्ची 20 वल्लकी 21 भ्रमरी 22 भ्रामरी 23 परिवादिनी२४ चर्चसा 25 सुघोषा 26 नंदीधोषा 27 महती 28 कच्छपी 29 चित्रवीणा 30 आमोद 31 डण्डा 32 नकुल 33 तूणा 34 तुम्बवीणा 35 मुकुंद 36 हुडुक्क 37 विचिकी 38 करटी 39 डिण्डिम 40 किणित 41 कण्ड्या 42 दर्दरक 43 दर्दरिका 44 कुसुम्बर 45 कलशिका 46 तल 47 ताल 48 कांस्यताल 49 रिंगिसिका 50 मङ्गरिका 51 शुशुमारिका 52 वंश 53 चाली 54 वेणु 55 पिरिली 16 बद्धका: 57 प्रदर्शिता:*) अव्याख्यातास्तु भेदा: लोकत: प्रत्येतव्या: एवमादीनि बहून्यातोद्यानि विकुर्वन्ति सर्वसंख्यया तु मूलभेदापेक्षया अतोद्यभेदा एकोनपञ्चाशत्। शेषास्तुभेदास्तेष्वेवान्तर्भवन्ति यथा वंशातोद्यविधाने चालीवेणुपिरिलीबद्धकाः / रा०। *'जट्ट' शब्दे 4 भागे विशेषः / *आवर्ज-पुं.(आवर्जनमावर्ज:)अभिमुखीकरणे, आवय॑तेऽभिमुखीक्रियते मोक्षोऽनेनेति- शुभमनोवाक्कायव्या पारविशेषे च / उक्तञ्च"आवज्जणमुवओगो वावारो वा' (३०५१विशे.) इति, आवय॑तेअभिमुखीक्रियत, इति घञ्। अभिमुखीकर्तव्ये, त्रिका प्रज्ञा० 36 पद। *आवयं-त्रि आवद्युत इतिघ्यण। अभिमुखीकर्तव्ये, आ.म.१ अ / आउज्जण-न. (आवर्जन) अभिमुखीकरणे, शुभमनोवाक्काय- व्यापार च। प्रज्ञा० 36 पद। विशे। आउज्जसद्द-पुं. (आतोद्यशब्द) नोभाषाशब्दविशेषे, स्था०२ठा०३ऊ। सच वेणुवीणामृदङ्गादीनां यो शब्द: / जी०३ प्रति०४ अधिक। तद्भेदादिआउज्जसद्दे दुविहे पण्णत्ते,तं जहा- तते चेव, वितते चेव। तते दुविहे पण्णत्ते, तं जहा-घणे चेव, सुसिरे चेव / एवं वितते वि। (सूत्र-८१) (ततविततादिकमातोद्यभेद: 'आउज्ज' शब्देऽस्मिन्नेव भागे प्रदर्शित:) तज्जनित: शब्दस्ततो घन: शुषिरश्चेति व्यपदिश्यते। स्था०२ ठा०३ उड़ा (अस्य चतुर्विधत्वम् चतुर्विधातोद्यजनि-तत्वात्। आतोद्यस्य बहवो भेदा: 'आउज्ज' शब्देऽस्मिन्नेव भागे अनुपदमेव दर्शिता.)। आउज्जिय-पुं० (आयोगिक)। उपयोगवति ज्ञानिनि, भा२श५ उ०। *आवर्जित- त्रि. (आ.वृज् णिच् क्त)। अभिमुखीकृते तथा च लोके वक्तार:- आवजितोऽयं मया:, सम्मुखीकृत इत्यर्थः / प्रज्ञा० 36 पद। पं.सं.। दत्ते, त्यक्ते, निम्नीकृते च। वाच।। आउज्जियकरण- न. (आवर्जितकरण) / आवर्जितस्य करणमिति केवलिसमुद्घातात्पूर्वं क्रियमाणे शुभयोगव्यापारणे, तब भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य शुभयोव्यापारणम् / प्रज्ञा० 36 पद। पं० सं०। (अत्रत्या वक्तव्यता आउज्जीकरण' शब्देऽग्रे वक्ष्यते)