________________ इंदभूइ 171 अभिधानराजेन्द्रः भाग 2 इंदमूह भावेन भवतीति चेन्नप्राणापानयोर्ज्ञानहेतुत्वायोगात् ज्ञानादेव चतरोयपि प्रवत्तिस्थताहि यदि मन्दौ प्राणापानौ विस्रष्टुमिष्यते ततो मन्दौ भवतः दीघौं चेत्तर्हि दीर्धाविति यदि पुनर्देह मात्रनिमित्तौ प्राणापानौ प्राणापाननिमित्तं च विज्ञानं तर्हि नेत्थमिच्छावशात् प्राणापानप्रवर्त्तमाना दृष्टप्राणापाननिमित्तं च यदि विज्ञानं ततः प्राणापाननिहासातिशयसंभविज्ञानस्यापि निहासातिशयौ स्याताम् अवश्यं हि कारणे परिहीयमाने अभिवर्द्धमाने च कार्यस्यापि हानिरुपचयश्च भवति यथामहति मृत्पिण्डे महान् घटोऽल्पे चाल्पीयान् अन्यथा कारणमेव तत्र स्यात् भवतः प्राणापाननिहासातिशयसंभवे विज्ञानस्यापि विनिहासाविशयौ, विपर्ययस्यापि भावात् मरणावस्थायां प्राणापानातिशयसंभवेऽपि विज्ञानस्य ह्रासदर्शनात्। स्यादेतत्तत्तदानीं वातपित्तादिभिर्दोषैर्देहस्यविगुणीकृतत्वात् प्राणापानातिशयसंभवेऽपि चैतन्य स्यातिशयसंभवोडत एव मृतावस्थायामपि चैतन्यदेहस्य विगुणीकृत्वात् तदसमीचीनतरमेवंसति मृतस्यापि पुनरुज्जीवनप्रसक्तेः / तथाहि मृतस्य दोषाः समीभवन्ति समीभ वंन च दोषाणमवसीयते ज्वरादिविकारादर्शनात् समत्वं चा रोग्यं तथाचाहुवृद्धाः "तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय" इति / आरोग्यलाभत्वाद्देहस्य पुनरुज्जीवनं भवेत् अन्यथा चेह कारणमेव चेतसो न स्यात् तद्विकाराभावनाभावान्तु विधानात् एवं हि देहकारणता विकारस्याश्रद्धया स्यात् यदि पुनरुज्जीवनं भवेत स्यादेतदयुक्तमिदं पुनरुज्जीवनप्र संगोपादानं यतो यद्यपि दोषा देहस्यावैगुण्यमाधाय निवृत्तास्तथापि नतत्कृतस्य वैगुण्यस्य निवृत्तिः न हि दहनकृतो विकारः काष्ठे दहनविवृत्तो निवर्तमानो दृष्टः तदयुक्तमिह हि क्वचित्किंचिदनिवर्त्य विकाराम्भकम्। यथा वह्निः काष्ठे श्यामतामात्रमपि वह्निना कृतं काष्ठे वह्निनिवृत्तौ निवर्तते किंत्पुिनः क्वचिन्निवर्त्यविकारारम्भकं यथा स एवाग्रिः सुवर्णे तथाहि अग्निना क्रमात्सुवर्ण भवति अग्निनिवृत्तौ निवर्तते तत्र वाता दयो दोषा निवृर्त्य विकारारम्भ-काश्चिकित्साप्रयोगदर्शनात् / यदि पुननिवर्त्य विकारारम्भका भवेयुस्तर्हिनतद्वि कारनिवर्त्तनाय चिकित्सा विधीयेत वैफल्यप्रसंगता न च वाच्यं मरणात् प्राग्दोषा अनिव य॑विकारारम्भका मरणकाले च निवर्त्यविकारा इति एकस्य एकत्रैव निवानिवर्त्य विकारा रम्भकत्वायोगात् / न ह्येकमेव तत्रैव निवर्त्यविकारारम्भकं चानुभवितुमर्हति तथा दर्शनात्। ननु द्विविधो हि व्याधिः साध्योऽसाध्यश्च। तत्र साध्यो निवर्त्यस्वभावस्तमेव चाधि कृत्य चिकित्सा फलवती असाध्योऽनिवर्त्तनीयः नच साध्या साध्यभेदोन वा व्य धिद्वैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् व्याधिश्च / तत्र साध्यो निवर्त्य-स्वभावस्तमेव चाधि कृत्य चिकित्सा फलवती असाध्योद्धनिवर्तनीयः नच साध्या साध्यभेदो न वाव्याधि-द्वैविध्यमप्रतीतं सकललोकप्रसिद्धत्वात् व्याधिश्च दोषेण कृतस्ततः कथं दोषाणां निवत्यानिवत्याविकारा रम्भकत्वमनुपपन्नामिति तदप्यसत् भवन्मते साध्यासाध्यव्याध्य नुपपत्तस्तथाह्यसाध्यता व्याधेः क्वचिदायुःक्षया च तथाहि तस्मिन्नवव्याधौ समानेडप्यौपधवैद्यसंपर्क कश्चिचन्मियते कश्चिन्नक्वचि त् पुनः प्रतिकूलकर्मो दयात् प्रतकिलकर्मोदयजनितो हि श्वित्रादि व्याधिरौषधसहस्रैरपि कश्चिदसाध्यो भवति एतच्च द्विविधमपि व्याधेरसाध्यत्वमर्हतामेव मते संगच्छते न भवतो भूतमात्र तत्त्ववादिनः क्वचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्त्तन समर्थोनिषेधस्याभावात् वैद्यस्य वा वैद्यौषधसंपक्काभावे हि व्याधिः प्रसप्पन् सकलमप्यायुरुपक्रमते न तु वैद्यौपधसंपर्का-भावादे वास्माकमपि पुनरुज्जीवनं भविष्यति न हि तदस्ति किञ्चिदौषधं वैद्यो वा यत्पुनरुज्जीवयति तदप्ययुक्तं वैद्यौषधौ हि दोषविकारनिवर्त्ततार्थमिष्येते नपुनरत्यन्तासतश्चैतन्य-स्येतित्पादनार्थ तथाभ्युपगमात् दोषकृता श्व विकारा मृतावस्थाया स्वयमेव निवृत्ता ज्वरादेरदर्शनात्ततः किं वैद्यौषधान्वेषणेनेति तदवस्थ एव पुनरूज्जीवनप्रसंगः अपि कश्चिद्दोषामामुपशमेप्यकस्मान्मियते कश्चिचातिदोषदुष्टत्वेऽपि जीवति तदेतद्भवन्मते कथमुपपत्तिमर्हति तथा च केचि ब्रुवते "दोष स्योपशमेप्यस्ति मरणं कस्यचित्पु-नर्जीवनं दोषदुष्टत्वेप्येतन्नस्याद्भवन्मते" अर्हतांतुशासने यावदायुः कर्मविजृम्भते तावदोषैरतिपीडितोऽपि जीविति आयुःकर्मक्षये च दोषा णामधिकृता वपि म्रियते तन्नदेहमात्रकारणं संवेदनम्। अन्यच देहः कारणं संवेदनस्य सहकारिभूतं वा भवेदुपादानभूतं वा यदि सहकारिभूतं तदिष्यत एव देहस्यापि क्षयोपशमहेतु तथा कथंचिद्विज्ञानहेतुत्वाब्युपगमात्। अथोपादानभूतं तद युक्तमुपादानं हि तत्तस्य यद्विकारेणैव यस्य विकारो यथा मृद्घटस्य नच देहविकारेणैव विकारः संवेदस्य देहविकाराभावेऽपि भयशोकादिना तद्विकारदर्शनात् तत्र देहउपादानं संवेदनस्य तथा च पठन्त्युपादानलक्षणपरे अधिकृत हि यद्वस्तुना यः पदार्थो विकार्यते उपादानं तत्तस्य युक्तं गोगवयादिवत् एतेन यदुच्यते मातापितृचैतन्यमेतच्चेतनस्योपादानमिति तदपि प्रतिक्षिप्त तत्रापि तद्विकारे विकारित्वं तदविकारे वा विकारित्वमिति नियमादर्शनात् / अन्यच्च यत् यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं यथा मृदो घटः मातापितृचैतन्यं सुत चैतन्यस्योपादानं ततःसुतचैतन्यं मातापितृचैतन्यादभेदेन व्यवतिष्ठेत नव्यवतिष्ठते तस्माद्यत्किञ्चिदेतत् तत्र भूतधर्मो भूतकार्य वा चैतन्यं किंचा त्मनो गुण इति तद्गुणस्य प्रत्यक्षसिद्ध आत्मा अनुमानसिद्धश्च तच्चानुमानमिदं रूपादीन्द्रियाणि विद्यमानप्रयोजकानि कर्मकरणत्वे सति ग्राह्यग्राह करूपत्वात् यः कर्मकरणे सति ग्राह्यग्राह करूपस्सद्विद्यमानप्रयोजको यथा शंदंशोयः पिण्डेकर्मकरणरूपाणि च सन्ति ग्राह्यग्राहकरूपाणि रूपादीन्द्रियाणि ततो विद्यमानप्रयोजकानीति नचेन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् तथा चात्र प्रयोगः यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि न चायमसिद्धो हेतुः यतः खलु द्रव्येन्द्रियाणि निर्वृत्त्युपकरणरूपाणि निर्वृत्त्युपकरणेच पुद्गलमयं पुद्रलमयं च सर्वमचेतनं पुद्गलानां काठिन्यावबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् धर्मानुरूपो हि सर्वत्रापि धर्मी यथा काठिन्यं प्रति पृथिवी यदिपुनरनुरूपत्वाभावेपि धर्माधर्मिभावो भवेत् ततः काठिन्यजलयोरपि संभवेत् तन्न भवति तस्मादचेतनाः पुद्रलाः तथाचोक्तं "वाहसनावममुत्तं, विसयपरिच्छेयगं च चेयन्नं / विवरीयसहावाणि य, वूयणि जगप्पसिद्धाणि ||1|| ता धम्मधम्मिभावो, कहमेएसिं अणुब्भवगामेय / अणुरूपत्ताभावे, काठिन्नजलाण किं न भवे // 2 / ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्तिम् / अथ चेदमनुमानं स भोक्तृ कमिदं शरीरं भोग्यत्वात् स्थालस्थितौदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात्दयोरपि च प्रयो-गयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टान्ते प्रत्यक्षप्रमाणसिद्धेति नोक्तलिङ्गलिङ्गी संबन्धानहरूपदोषावकाशः / आगमगम्योप्येष जीवः तथा चागमः "अणिंदियगुणं जीवं, दुग्नेयं मंसचक्खुणा। सिद्धं पस्संति