________________ इंदभूइ 172 अभिधानराजेन्द्रः भाग२ इंदभूइ सव्वन्नू, नाणसिद्धा य साहुणो" अत्र ज्ञानसिद्धाः साधवो भवस्थकेवलिनः शेषं सुगमम् नचागमानां परस्परविरुद्धार्थ तथा सर्वेषामप्यप्रामाण्यमभ्युपेयं सर्वज्ञमूलस्यावश्यं प्रमाणत्वेनाभ्युपगमार्हत्यादथाप्यसम्यक् प्रमाणाप्रमाणविभागा परिणतेः प्रेक्षावतां क्षितिप्रसंगात् / अथ कथमेतत् प्रत्येतं यथायमागमः सर्वज्ञमूल इति उच्यते यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वान बाध्यतेनापि पूर्वापरव्याहतः सोवसीय सर्वज्ञ प्रणीतोऽन्यस्य तथारूपत्वासम्भवात्ततस्तस्माद्यन्सिद्ध तत्सर्वं सुसिद्धम्। उक्तञ्च "दिटेणं इटेण य, जंमि विरोहो न हुजइ कहिं वि। सो० आगमतत्तो जं, नाणं तं सम्भनाणं ति / / ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठित त्वाच सौम्य ! अस्ति जीव इति प्रतिपत्तव्यम् // आ०म० द्वि० // (इह वेद पदोपन्यासस्तेन वेदानां प्रमाणत्वेनाङ्गीकृतत्वात्) आहचछिन्नंमि समयंमि, जाइजरामरण विप्पमुक्केणं / सो समणो पव्वइओ पंचहिं सह खंडियसएहिं / / उक्त प्रमाणेन जिनेन भगवता वर्द्धमानस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः तेन छिन्ने निराकृते शंशयेस इन्द्रभूतिः पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संवृत्त इत्यर्थः / आ० म० द्वि० / आव० // आ० चू० / कल्पसुबोधिन्यामिन्द्रभूतेः कया विस्तरेण एवं प्रतिपादिता यदा भगवान् महावीरो विहरन् अपापापूर्यां महसेनवने जगाम तत्र च यज्ञं कारयतः सोमिलविप्रस्य गृहे बहवो ब्राह्मणाः मिलिताः (कल्प०) अन्येऽपि उपाध्याय शङ्कर ईश्वर शिवजी जानी गङ्गाधर महीधर भूधर लक्ष्मीधर श्रीधर पिंड्या विष्णु मुकुन्द गोविन्द पुरुषोत्तम नारायण दुवे श्रीपति उमापति विद्यापति गणपति जयदेव व्यास महादेव शिवदेव गङ्गापति गौरीपति त्रिवाडी श्रीकण्ठ नीलकण्ठ हरिहर रामजी रावल मधुसूदन नरसिंह कमलाकर जोसी पूनो रामजी शिवराम इत्यादयो मिलिताः सन्ति अत्रान्तेर च भगवन्नमस्यार्थ मागच्छतः सुरासुरान् विलोक्य ते अचिन्तयन् अहो यज्ञस्य महिमा यदेते सुराः साक्षात्समागताः अथतान् यज्ञमण्डपं विहाय प्रभुपाक् गच्छतो विज्ञाय द्विजाः विषे दुस्ततोऽमी सर्वज्ञ वन्दितुं यान्ति इति जनश्रुत्या श्रुत्वा इन्द्र भूतिः सामर्षश्चिन्तयामास / अहो मयि सर्वज्ञे सत्यपि अपरोऽपि स्वं सर्व ख्यापयति दुःश्रवमेतत् कर्णकटु कथं नाम श्रूयते। किं च कदाचित्कोऽपि मूर्खः केनचिधूर्तेन वच्यते अनेन सुरा अपि वञ्चिताः यदेवं यज्ञमण्डपं विहाय तत्समीपं गच्छन्ति। अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते सुरा अनुरूप एवं संयोगः यतः"पश्यानुरूपमिन्दि-न्दिरेण माकन्दशेखरो मुखरः / अपि च पिचुमन्दमुकुल-मौकुलिकुलमाकुलं मिलति" ||1|| (तथापि नाहमेतस्य सर्वज्ञाटोपं सहे) . यतः / व्योम्नि सूर्यद्वयं किं स्या-गुहायां केसरिद्वयम् / प्रत्याकारे च खगौ द्वौ, किं सर्वज्ञावहं स च / / 2 / / ततो भगवन्तं वन्दित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ भो भो दृष्टः स सर्वज्ञः कीदृशः किंस्वरूप इति जनैस्तु "यदि त्रिलोकी गणनापरः स्या-त्तस्यासमार्सियदि नायुषः स्यात् / / पारपराध्यं गणितं यदि स्यात्, गुणेयनिश्शेषगुणोपि स स्यात् / / 1 / / इत्याधुक्ते सति स दध्यौ / / नूनमेष महाधूर्तो मायायाः कुलमंदिरम् // कथं लोकसमस्तोऽपि, विभ्रमे पातितोऽमुना' / / 2 / / न क्षमे क्षणमात्रं तु तं सर्वज्ञ कदाचन।। तमस्तोममपाकर्तु, सूर्यो नैव प्रतीक्षते // 3 // वैश्वानरः करस्पर्श केशरोल्लुचने हरिः / / क्षत्रियश्च रिपुक्षेत्रं न सहन्ते कदाचन // 4 // गता गौडदेशोद्भवा दूरदेशं भयाजर्जरा गौर्जरास्त्रासमीयुः / मृता मालवीयास्तिलाङ्गास्तिलंगो-द्रवा जज्ञिरे पण्डिता मद्भयेन,, // 5 // अरे लाटजाताः क याताः प्रणष्टाः प्रदिष्टा अपि द्राविडा द्रीडवार्ता ॥अहो वादिलिप्सातुरे मय्यमुस्मिन्, जगत्युत्कटेवादिदुर्भिक्षमेतत्॥६॥"तस्य ममागे कोऽसौ, वादी सर्वज्ञमानमुद्वहति // इति तत्र गन्तुमुक्तं, तमग्रिभूतिर्ज गादेवम्,, // 7 // "किं तत्र वादिकीटे, तव प्रयासेन यामि बन्धोऽहम् // कमलोन्मूलनहेतो-नेंतव्यः किं सुरेन्द्रगजः,, ||8|| अकथयदथेन्द्रभूतिर्यद्यपि मद्भातृजय्य एवासौ। तदपि प्रवादिनाम श्रुत्वा स्थातुं न शक्रोमि।। चित्रं चैव त्रिजगति सहस्रशो निर्जिते मया वादैः / / क्षिप्रचटस्थाल्या मिव ककुंदु कोऽसौ स्थितो वादी // 10 // अस्मिन्नजिते सर्वं जगज्जयोद्भूतमपि यशो नश्यते / अल्पमपि शरीरस्थं शल्यं प्राणान् वियोजयति / / 11 / / छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ न निमञ्जति। एकस्मिन्निष्टके कृष्ट, दुर्गः सर्वोऽपि पात्यते // 12 // इत्यादि विचिन्त्य विरचितद्वादशतिलकः स्वर्णयज्ञोप वीत-भूषितः स्फारपीताम्बराडम्बरः कैश्चित्पुस्तकपाणिभिः कैश्चित् कमण्डलुपाणिभिः कैश्चिद्दर्भपाणिभिः सरस्वतीकण्ठाभरण वादिविजयलक्ष्मीशरणवादिमदगजनवादिमुख भजन-वादिगजसिंह-वादीश्वरलिहवादिसिंहाष्टापद-वादिविजयविशद-वादिवृन्दभूमिपालवादिशिरिकालवादिक दलीकृपाणवादितमभाण-वादिगोधूमघरदृमर्दित-वादिमरट्टवादिघटमुद्र-वादिघूकभास्कर-वादिसमुद्रागस्तिवादितरून्मुलनहस्ति-वादिसुरेन्द्र-वादिगरुडगोविन्द-वादिजनराजवादिकंसकृष्ण-वादिहरिणहरि-वादियूथमल्ल-वादि हृदयशल्यवादिगणजीक-वादिशलभप्रदीपक-वादिचक्र चूडामणि-पंण्डितशिरोमणि-विजितानेकवादिसरस्वती लब्धप्रसाद इत्यादिविरुदवृन्दमुखरितदिक चक्रैः पंचभिश्छात्र शतैः परिवृत इन्द्रभूतिवीरसमीपं गच्छंश्चिन्तयामास। अहो धृष्टनानेन किमेतत् कृतम्। यदहं सर्वज्ञाटोपेन प्रकोपितः। यतः "समीराभिमुखस्थेन, दवाग्निज्वा॑लितोऽमुना // कपिकच्छूलता देह-सौख्यायालिङ्गिता ननु // 1 // " (कि मेतेन अधुना नित्तरीकरोमि यतः) तावगर्जति खद्योतस्तावद्गर्जति चन्द्रमाः। उदिते तु सहस्रांशौ न, खद्योतो न चन्द्रमाः // 2 // सारङ्गमातङ्ग तुरङ्गपूगाः पलाय्यतामाशु वनादमुष्मात् // साटोपकोपस्फुट केशरश्रीमृगाधिराजोऽयमुपेतवान् यत् // 3 // मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः // अद्य तां रशनाकण्डू-मपनेष्ये विनिश्चितम् // 4 // लक्षणे मम दक्षत्वं साहित्ये संहिता मतिः / / तर्के कर्कशतात्यर्थं व शास्त्रे नास्ति मे श्रमः / / 5 / / अभेद्यं किमु वज्रस्य, किमसाध्यं महात्मनां // क्षधितस्य न किं खाद्यं किं न वाच्यं खलस्य च // 6 //