________________ इंदभूइ 570 अभिधानराजेन्द्रः भाग 2 इंदभूइ दिविशेषस्तत्प्राणिमयं न शेषमिति तदप्यसत् व्यभिचारदर्शना तथाह्यविशिष्टे ऽपि कठिनत्वादिविशेष कृचिद्भवन्ति क्वचिच कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च मूञ्छिता जाय किंच समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो दृश्यन्त / तथाहिगोमयाद्येकयोनिसंभविनोऽपि केचिन्नीलजन्तवोऽपरे पीतकायाः अन्ये विचित्रवर्णा : संस्थानमप्येतेषां परस्परं विभिन्नंतद्यदि भूतमात्रनिमित्तं चैतन्यं ततएकयोनिकाः सर्वेप्येक-वर्णसंस्थाना भवेयुर्नभवन्ति तस्मादात्मन एव तत्तत्कर्मवशात्तथा तथोत्पद्यन्ते इति / स्यादेतत् आगच्छन् गच्छन् वा आत्मा नोपलभ्यते के वलं देहे सति संवेदनमुपलभामहे देहाभावे च तस्यामेवावस्थायांन, तस्मान्नात्मा किंतु संवेदनमा त्रमेवैकं तच देहकार्य देहे एव च समाश्रितं कुड्यचित्रवत् नहि चित्रं कुड्यविरहितमवतिष्ठते नापि कुड्यांतरं संक्रामति आगमनं वा कुड्यांतरात् किंतु कुड्य एवोत्पन्नं कुड्य एव च विलीयते एवं संवेदनमपि तदप्यसत् आत्मा हि स्वरूपेणामूर्त आन्तरमपि शरीरमतिसुक्ष्मत्वान्न चक्षुर्विषयस्तदुक्तमन्यैरपि "अन्तरा नवदेहे पि सूक्ष्मत्वान्नोपलभ्यते। निष्क्रामन् प्रविशन्वात्मानाभावो नीक्षणादपि" ततआन्तरशरीरयुक्तोप्यात्मा आगच्छन् गच्छन्वा नोपलभ्यते लिंगतस्तूपलभ्यते। तथाहि कृमेरपिजन्तोस्त-त्कालोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः उपघातमुप-लभ्य पलायनदर्शनात् यश्च यद्विषयप्रतिबन्धः स तद्विषयपरिशीलनाभ्यासपूर्वकस्तथादर्शनात् न खल्वत्यन्तापरिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते ततो जन्मादौ शरीराग्रहः शरीरपरिशीलनाभ्यासजनितसंस्कारनिबन्धन इति। सिद्धमात्मनो जन्मान्तरादागमनं तथा च केचित्पठन्ति "शरीराग्रहरूपस्य नभसः संभवो यदा। जन्मादौ देहिनो दृष्टः किंन जन्मान्तरा गतिः, // अथागतिः / प्रत्यक्षतो नोपलभ्यते ततः / कथमनुमानादवसीयते नैष दोषः अनुमेयविषये प्रत्यक्षवृत्त-रेनभ्युपगमात् परस्परविषयपिरहारेण हि प्रत्यक्षानुमानयोः प्रवृत्तिरिष्यते ततः कथं स एव दोषः / आह च "अनुमेयेऽस्तिनाध्यक्षमिति कैवात्र दुष्टता। अध्यक्षस्यानुमानस्य विषयो विषयो न हि" अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते न खलु यस्याग्निविषया प्रत्यक्षवृत्ति-महानसेऽपि नासीत्तस्यायत्र क्षितिधरादौधूमाझूमध्यवजानुमानं भवति तदन्यसम्यक् अत्रापि तज्जातीये प्रत्यक्षवृत्तिभावात् तथा याग्रहोन्यत्र परिशीलनाभ्यासप्रवृत्तः प्रत्यक्षत एवोपलब्धस्तत-स्तदुपष्टम्भेनेहान्यनुमानं प्रवर्तते उक्तंच "आग्रहस्तावदभ्यासात् प्रवृत्त मुपलभ्यते / अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमान किम्"यो पिच दृष्टान्तः। प्रागुपन्यस्तः सोप्ययुक्तो वैषम्यात् तथाहि चित्रमचेतनं गमनस्वभावरहितञ्च आत्मा च चेतनः कर्मवशागत्यागती च कुरुते ततः कथं दृष्टान्तदान्तिकयोः साभ्यं ततो यथा कश्चिद्देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहारंभं कृत्वा ग्रामान्तरे गृहान्तरमास्थायावतिष्ठतेतद्वदात्मापि विवक्षिते भवेदेहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते / यचो क्तम् तच संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचित् भवतु चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसंभवात् यत्तु मानसं तत्कथं न हि तद्देहकार्यमुपपत्ति मत् युक्तययोगात् / तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमान मिन्द्रियरूपान्दा समुद्धातानीन्द्रियरूपाद्धा केशनखादिलक्षणा त्तत्र न तावदाद्यः पक्ष इन्द्रियरूपादुत्पत्ताविन्द्रियबुद्धि वद्वर्तमानार्थ-ग्रहणमसक्तेः इन्द्रियं हि वार्तमानिक एवार्थे व्याप्रियतेतत्सामर्थ्या-दुपजायमानं मानसमपिज्ञानं इन्द्रिय ज्ञानमिव वर्तमानार्थ-ग्रहणपर्यवसितसत्ताकमेव भवेत् अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति न शेषकालं ततस्तदपिविज्ञानं वर्तमानार्थाविषयं वर्तमाने एवार्थे चक्षुषो व्यापारात्। रूप विषयव्याप्रीयभावे, च मनोज्ञानं ततो न तत्प्रतिनियतकालविषयम् एवं शेषेष्वपि इन्द्रियेषु वाच्यम् ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहण प्रसक्तिस्तदसाधीयो यत इन्द्रियाश्रितं तदुच्यते यदीन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एव वार्तमानिके स्वस्वविषये मनोज्ञानमपि यदान्द्रिय व्यापराश्रितं तत इन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेत् अन्यथा इन्द्रियाश्रितमेव तत्रस्यात्तथा च केचित्पठन्ति "अक्षव्यापारमाश्रित्य भवदक्षजमिप्यते। तव्यापारो न तत्रेति कथ मक्षभवं भवेत् / " अथानीन्द्रिय रूपादिति पक्षस्तदप्ययुक्तस्तस्याचेतनत्वात् नन्वचेतनत्यादिति कोर्थः यदीन्द्रिय-विज्ञान रहितत्वादिति तदिप्यते एव यदि नामोन्द्रिय विज्ञानं ततो न भवति मनोविज्ञानंतु कस्मान्न भवति। अथ मनोविज्ञानंनोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रति-ज्ञार्थकदेशासिद्धो हेतुः तदप्यसत् अचेतनत्वादिति किमुक्तं भवति स्वनिमित्तविज्ञानैः स्फुरचिद्रूपतयानुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तविज्ञानैः स्फुरचिद्रूपानुपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति युक्तं केशनखादयस्तु न मनोज्ञानेन तथा स्फुरचिद्रूपा उपलभ्यन्ते कथं तेभ्यो मनोज्ञानं भवतीति प्रतिध्यायन्तु सुधियः आह च "चेतयन्तोन दृश्यन्ते केशस्मश्रुनखादयः। ततस्तेभ्यो मनोज्ञानं भवतीत्थतिसाहसम्" अपि च यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् तदुपधाते चोपहतं भवेन्न च भवति तस्मान्नायं पक्षः क्षोदक्षमः / किंच मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यां व्यत्यासपूर्वका दृष्टाः तथाहि तदेव शास्त्रमीहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोधे उल्लसति स्मृतिपाटवं चापूर्वमुखम्भते एवं चैकशास्त्रे अभ्यासतः सुक्ष्मार्थनेतृत्वशक्तौ पाटवशक्ती चोपजातायामन्येष्वपि शास्त्रांतरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोल्लसति तदेवमभ्यासहेतुकाः सूक्ष्मार्थनेतृत्वादयो मनोज्ञानस्य विशेषदृष्टाः। अथच कस्यचिदिह जन्माभ्यासव्यतिरेकेणापि दृश्यन्ते ततोऽवश्यं पारलौकिकाभ्यास हेतुका इति प्रतिपत्तव्यं कारणेन सह कार्यस्यान्यथानुप-पन्नत्वप्रतिबन्धेन दृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितेः / ततः सिद्धः परलोकयाथी जीवः / सिद्धे च तस्मिन् परलोकयायिनि यदि कथांचिदुपकारी चाक्षुषादेर्विज्ञानस्य दे हो भवेत् न कश्चिद्दोषः क्षयोपशमहे तुतया देहस्यापि कथंचिदुपकारित्वाभ्युपगमात्, नचैतावता तन्निवृत्तौ सर्वथा तन्निवृत्तिः नहि वह्निरासादित-विशेषो घटो वहिनिवृत्तौ समूलोच्छेदं निवर्त्तते केवलं विशेष एव कश्चनापि यथा सुवर्णस्य द्रवता एवमिपाहि देहनिवृत्तौ ज्ञानविशेष एव कोऽपि तत्प्रतिबद्धो निवर्तते न पुनः समूलं ज्ञानमपि यदि पुनर्देहमात्रनिमित्तकमेव विज्ञानमिष्यते देहनिवृत्तौ च निवृत्तिमत् तर्हि देहस्य तस्य भस्मावस्थायां मा भूत्तदेहे तु तथाभूते एवावति-ठमाने मृतावस्थायां कस्मान्नभवतिप्राणापानयोरपि हेतुत्वात्तद