________________ इंदभूइ 569 अभिधानराजेन्द्रः भाग२ इंदभूइ किंमन्ने अत्थि जीवो, उयाहू नत्थित्ति संसओ तुजा। वेयपयाण य अत्थं,नयाणसी तेसिमो अत्थो। हे गौतम ! किं मन्यसे अस्ति जीव उत नास्तीति नन्य यमनुचित एव संशयो यतोऽयं संशयस्तव विरुद्धवेदपद श्रुतिनिबंधन इति। तान्यमूनि वेदपदानि "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतिन प्रेत्यसंज्ञास्तीत्यादि"तथा स वै अयमात्मा ज्ञानमय इत्यादीनि च एतेषां च वेदपदानामयमों भवतश्चेतसि विपरिवर्त्तते / विज्ञानमेव धनानन्दादिरूपत्वात् विज्ञानघनः स एव एतेभ्योऽध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय उत्पद्य पुनस्ता-न्येवानुविनश्य ति तान्येव भूतानि अनुसृत्य विनश्यति तत्रैवाव्यक्तरूपतया संलीनां भवतीति भावः न प्रेत्यसंज्ञास्ति मृत्वा पुनर्जन्मप्रेत्येत्युच्यतेतत्संज्ञास्तिन परलोकसंज्ञाऽस्तीति भावः / ततः कुतो जीवः युक्त्योपपन्नश्चायमर्थ इति ते मतिः यतो नासौ प्रत्यक्षेण परिगृहाते अतीन्द्रियत्वात् नाप्यनुमानेन यतस्तल्लिङ्ग लिङ्गिसम्बन्धपूर्वकञ्च / न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गिनोऽतीन्द्रियत्वात् / नाप्यनुमानगम्यो ऽनवस्थाप्रसक्तेस्तदपि हि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः। नाप्यागमगम्यः परस्पर-विरुद्धार्थतया तथागमानां प्रमाणत्वाभावात्। तथाहि केचिदेव-माहुः "एतावानेव लोकोऽयं, यावदिन्द्रियगोचरः / भद्रेवृकपदं पश्य यद्वदन्त्य बहुश्रुताः" इत्यादि। अपरे प्राहुर्नरूप मीक्षवः पुद्रला इत्यादि पुद्गले रूपं निषेधयन्ति अन्तर्भूत आत्मे त्यर्थः अन्ये पुनरेवम् "अकर्ता निर्गुणो भोक्ता" इत्यादि। अपरेएवम् "सवै अयमात्मा ज्ञानमय इत्यादि, नचैते सर्व एव प्रमाणम् परस्परविरोधात् व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषवातवत् आत्मानं विद्यः किमस्ति नास्तीत्ययं तवाभिप्रायः। तत्र वेदपदानां चार्थ न जानासि च शब्दात् युक्ति द्वयं च / तथाहि वेदपदानामयमर्थः विज्ञानघन एवेति ज्ञानोपयोगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्तयत्वात् आत्मा विज्ञानघनः प्रतिप्रदेशमनन्त विज्ञानपर्यायः संपातात्मकत्वात् वा विज्ञानघन एव शब्दोऽवधारणे विज्ञानधनादनन्यधनत्वात् विज्ञानघन एव एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येतिघटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम्। तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनु विनश्यति ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानघनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते यदिवासामान्यचैतन्यरूपतयाऽवतिष्ठत इति न प्रेत्यसंज्ञास्ति न प्राकृति-कघटा दिविज्ञानसंज्ञाऽवतिष्ठते / सांप्रतविज्ञानोपयोगनिधितत्वात् अथवा एवं व्याख्या विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन्न यतः प्रेत्यसंज्ञास्ति परलोक संज्ञास्ति / यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनमात्मनः प्रत्यक्षसिद्धात्तद्गुणस्य ज्ञानस्य स्वसंवेदन प्रमाणसिद्धत्वात्तथाहि स्वसंविहिताएवावग्रहहापायादय उदयन्तेलीयन्ते वा ततस्तद्गुणस्य स्वसंविदितत्वात् सिद्धमात्मनः प्रत्यक्षत्वम् / अथ व्रवीष्व भूतगुणाश्चैतन्यं तथा वेदेप्युक्तम् "एतेभ्यो भूतेभ्यस्समुत्थायेत्यादि" ततः कथं ज्ञानस्य स्वसंविदितत्वे ते आत्मनः प्रत्यक्षत्वं ज्ञानस्यात्मत्राणत्वा भावात्-तदयुक्तम् भूतगुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र सर्वदा चोपलंभप्रसंगात्।नच सर्वत्र सर्वदा चोपलभ्यते चैत्यन्य लोष्ठादौ मृतावस्थायां चानुपलम्भात्। अथ तत्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग्विकल्पद्वयानतिक्रमात् सा-हि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्तिन हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुंशक्यं तथाचाहान्योऽपि "रूपान्तरेण यदि तत्तदेवास्तीतिमारटीः। चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् / अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलभ्यः आवृतत्वादनुपलम्भ इतिचेत्तत्त्वावृत्तिरावरणं तच्चावरणं किं भूतानां विवक्षितपरिणामाना-मुत परिणामान्तर-माहोस्विदन्यदेव भूतातिरिक्त किश्चित् / तत्र न तावद्विवक्षितपरिणामाभावः एकान्ततु च्छरूपतया तस्यावारकत्यायोगात् अन्यथा तस्याप्य-तुच्छरूप तया भावरूपतापत्तिर्भावत्वे पृथिव्यादीनामन्यतमो भावो भवेत् 'पृथिव्यादीन्येव भूतानि तत्त्वमिति वचनात्' पृथिव्यादीनि च भूतानि चैतन्यस्य व्यञ्जकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत्-अथपरिणामान्तरं तदयुक्तं परिणामान्तरस्यापि भूतस्वभावतया भूतवद्व्यञ्जकत्वस्योपपत्ते - वारकत्वस्य, अथान्यदेव भूतातिरिक्तं किञ्चित् तदतीवासमीचीनम् / भूतातिरिक्ताऽभ्युपगमे चत्वार्येव पृथिव्यादीनि भूतानि तत्त्वमिति तत्त्वसंख्याव्याघातप्रसंगात् अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा न तावत्प्रत्येक मनुपलम्भात् नहि प्रतिपरमाणुसंवेदनमुपलभ्यते। अपिच यदि प्रतिपरमाणुसंवेदनं भवेत्तर्हि पुरुष सहस्रचैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं भवेत्। अथ चैकरूपमुपलभ्यते अहं पश्यामि अहं करोमीत्येवं सकलशरीराधिष्ठितानेकस्वरूपतयानुभवात् अथ समुदायस्य धर्मस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति यथा रेणुषु तैलं स्यादेतन्मद्याङ्गेषु प्रत्येक मदशक्तिरदृष्टापि समुदा येऽपि भवन्ती दृश्यते तद्वचैतन्यमपि भविष्यति को दोषः तद् सम्यक् प्रत्येकमपि मद्याङ्गेषु मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात् तथाहि दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पे च मनाक् विकलतोत्पादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते ततः कथं समुदाये तद्भवितुमर्हति मा प्रापत्सर्वस्य सर्वत्राभावप्रसक्तातिप्रसङ्गात् / किं च यदि चैतन्यं भूतधर्मत्वेन प्रतिपन्नं ततोऽवंश्यमस्यानुरूपो धर्मः प्रतिपत्तव्यः आनुरूप्याभावे जलकाठिन्ययोरिव परस्परधर्मधर्मभावोऽनुपात्तः नच भूतानामनुरूपो धर्मी वैलक्षण्यात् तथाहि चैतन्यं बोधस्वरूप-ममूर्त च भूतानि तद्विलक्षणानि ततः कथमेषां परस्परं धर्मधर्मिभावः / नापि चैतन्यमिदं भूतानां कार्यमत्यंत विलक्षणतया कारणभावस्याप्ययोगात् तथा चोक्तम् "काठिन्या-बोधरूपाणि, भूतान्यध्यक्षसिद्धितः / चेतनाभगतद्रूपासा कथं तत्फलं भवेत् " अपिच यदिभूतकार्य चैतन्यं तर्हि किं न सकलमपि जगत् प्राणिमयं भवति परिणतिविशेषसद्भावा भावादिति चेन्ननु सोऽपि परिणतिविशेषसद्भावः सर्वत्रापि कस्मान्न भवति सोऽपि हि भूतमात्रनिमित्तक एव ततः कथं तस्यापि क्वचित् कदाचिद्भावः / अन्यच्च स किंरूपः परिणतिविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथाहि काष्ठादिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कठिनत्वा