________________ इंदपुरग 568 अभिधानराजेन्द्रः भाग 2 इंदभूइ इंदपुरग-न०(इन्द्रपुरक) (वेसवाडिय) गणस्य चतुर्ष कुलेषु चतुर्ये कुले,। तह होइ इंदपुरगंच। कल्प०इंदपुरोहित-पुं०(इंद्रपुरोहित) 6 तासुराचार्य्यबृहस्पतौ-वाच०। इंदभूइ-पु०(इन्द्रभूति) स्वनामख्याते महावीरस्य प्रथमगणधरे प्रथमगणनायके प्रथमशिष्ये, प्रव० 8 द्वा०। सम०। सूत्र०। "समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई अणगारे गोयमसगोत्तेणं इति / कल्प० / अन्त०। विपा०। “जिणवीरस्सेक्कारस पढमो से इंदभूइयत्ति णामेण इंदभूइत्ति गोयमो वंदिऊण विविहेण' / चं० प्र०१ पा० // तत्कथाच-"इंदभूईणामो पंचखंडियसयपरिवारो सव्वप्पहाणो मगहा विसए सो य जन्नदीक्खितो मक्खितोय मज्झिमा य अच्छति इय अजाणो देवुज्जाव पासित्ता हरि सियमणो चिंतेऊणं भासति तेसिं पुरओ अहो मया मंतेहिं सुरा आहूया जे जन्ने समुवट्ठिया एवं वोत्तूणं खंडिगेहिसह निग्गतो उजाणे अपासमाणो उत्तरपुरच्छिमे दिसि भाए देवसन्निवायं पासति भासति किमेतंति / अन्नेहिं से कहितं जहा एस सिद्धत्थरायपुत्तो महावीरवद्धमाणो तवं काउं केवली जाओ किल सवण्णू सव्वभावदरिसी तं वयणं सो ओ भासति अमरसिओ को अन्नो ममाहितो अब्भहितो जस्स देवा एति ताहे वचामो जण्णं पराजिणंमि किं सो जाणति एति ण पणिहाणेण पहावितो पंचखंडियसतपरिवारो वेदप दाणय अत्थो भगवता से कहिंतो एत्थ समंतो संबुद्धो य भणइपंचखंडियसते एस सव्वण्णु अहं पव्वयामि तुम्भे जहि च्छितं करेहि ते भणंति जदि तुन्भे एरिसगा होता पव्वयह तो अहं का अन्ना गमित्ति एवं सो पंचसयपरिवारो पव्वत्ति तो। आ० चू०१ अ०॥ ते हि देवाः स्वं यज्ञवाट परिहृत्य समवसरणभुवि निपति तवन्तः तांश्च तथा दृष्ट्वा लोकोऽपि तत्रैव जगाम भगवन्तं त्रिद शलोकेने पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे प्रवादश्च सञ्जातः / सर्वज्ञोऽत्र समवसृतस्तं देवाः पूजयन्तीति / अत्रान्तरे खल्याक र्णितसर्वज्ञप्रवादो ऽमर्षाध्नातइन्द्र भूतिर्भगवन्तं प्रतिप्रस्थितः "सोउण कीरमाणिं, महिमं देवेहिं जिणवरिंदस्स।। अह अहं माणीय, अमरिसिओ इंदभूइत्ति" ||1|| श्रुत्वा जनपरंपरात् आकर्ण्य पाठान्तरतो दृष्ट्वा वा महिमां पूजां देवैः क्रियमाणां जिनवीरेन्द्रस्य भगवतो वर्द्धमानस्वामिनः अथास्मिन् प्रस्तावे एति आगच्छति भगवत्समीपं अहमेव विद्वानिति मानोऽस्येति अहं मानी अमर्षो मत्सरविशेषः स संजातोस्य सोऽमर्षितः मयि सति कोऽन्यः सर्वज्ञ इत्यपनयाम्यद्य सर्वज्ञवादमित्यादिसंकल्पकलुषितान्तरात्मा कोऽसावित्याह / इंद्रभूतिरितिनाम्ना प्रथितः स च भगवत्समीपं प्राप्य भगवन्तञ्च चतुस्विंशदतिशयसमन्वितं देवासुरनरेश्वरपरिवृतं दृष्ट्वा माशङ्कत्तदग्रतस्तस्थौ। एतदेव सविस्तरं भाष्यकार आहमोत्तूण ममं लोगा, किं वच्चइ तस्स पायमूलंमि। अन्नो वि जाणइ मए, ठियंमि कत्तो चियं एयं / / मां सकलशास्त्रपारगं मुक्त्वा किर्मष लोकस्तस्य पादमूलं व्रजति नचासौ मदपेक्षया किमपि जानाति तथाहि मयि प्रतिवादिनि स्थिते अन्योऽपि किमपि जानातीति कौतस्त्यमे-तत् / नैवतै त संभवतीति भावः॥ पुनरप्याहववेज च मुक्खजणो, देवा उ कहमणेण विम्हयं नीया। वंदंति संथुणंति य, जेण सव्वण्णुबुद्धीए / वृजेद्वा तत्पादमूलं मूर्खजनो मूर्खतया युक्तायुक्तविवेक विकल-त्वात् देवास्तु कथमनेन विस्मयं नीता येन विस्मय नयनेन सर्वज्ञबुद्ध्या तं वन्दन्ते संस्तुवन्ति च। अहवा जारिसतोचिय, सो नाणी तारिसा सुराते वि। अणुसरिसो संजोगो, गामनडाणं च मुक्खाणं / / अथवा यादृश एव स ज्ञानी तेऽपि सुरास्तादृशा एव मूर्खा इत्य-र्थः / ततोऽनुसदृशोऽनुरूपः संयोगस्तस्य ज्ञानिनः एतेषां च देवानाम् / कयोरिवेत्याह-ग्रामनटयोरिव मूर्खयोर्यथा ग्रामे मूर्खा नटोऽपि तथाविधविद्याविकलत्वात् मूर्ख इति परस्परं तयोः संयोगोऽनुरूपमेवमेषोऽपीति // काउंहयप्पयावं, पुरतो देवाण दाणवाणंच। नासे हं नीसेसं,खणेण सव्वन्नुवायं से। देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्नजालैर्हतप्रताप कृत्वा क्षणमात्रेण (से) तस्य सर्वज्ञवादं निःशेषमहं नाशयामि।। इय वोत्तूणं पत्तो, दठूणतिलोकपरिखुडं वीरं। चोत्तिसातिसएहि, ससंकितो वहितो पुरतो।। इति पुर्वोक्तमुक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशयनिधिं सशङ्कितः पुरतोऽवस्थितः॥ अत्रान्तरेआभट्ठोय जिणेणं, जाइजरामरणविप्पमुक्केणं / नामेण य गुत्तेण य, सव्वन्न सव्वदरिसीणं / / आभाषितः संलपितो जिनेन भगवता महावीरेण जातिः प्रसूतिर्जरावयोहानिलक्षणा मरणञ्च दशविधप्राणविप्रयोग रूपमेभिर्विप्रमुक्तस्तेन कंथमाभाषित इत्याह नाम्ना हेइन्द्रभूते ! न इत्येवंरूपेण तथा गोत्रेण च यथा हेगौतमगोत्र ! किं विशिष्टेन जिनेनेत्याह / सर्वज्ञेन सर्वदर्शिना, आह-योजरामरणविप्रमुक्तः स सर्वज्ञ एवेतिगतार्थमिदं विशेषणमितिचेन्न नयवाद-परिकल्पितजात्यादिविप्रमुक्तनिरासार्थत्वात्। तथाहि-कैश्चित् गुणविप्रमुक्तमोक्षवादिभिरचेतना मुक्त इष्यते ततस्तन्निरासार्थमूचे / सर्वज्ञेन सर्वदर्शिनेति इत्थं नामगोत्राभ्यां संलपितस्य तस्य चिन्ताऽभवत् तथा चाहहे इंदभूइ गोयमा! सागयमुत्ते जिणेण चिंतेइ। सो मं पि मे वियाणइ अहवा को मंन याणाई। हे इंद्र भूते! गोतम! स्वागतमिति जिनेनोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वत्र प्रसिद्धोऽहं को मां न जानाति / जइ वा हिययगय मे, संसय मन्नेज अहव च्छिदेजा। ततो होज विम्हतो मे, इय चिंतंतो पुणो भणिओ। यदि मे हृद्गतं संशयं मन्येत जानीयात् अथवा छिन्द्यादप नयेत् ततो मे विस्मयो भवेत् भविष्यति इति चिन्तयन् पुनरपि भगवता भणितः। किं भणित इत्याह