________________ इंददत्त 167 अभिधानराजेन्द्रः भाग२ इंदपुर अग्निकः पर्वतश्चाथ, बहुलीसागरस्तथा / / 6 / / सुरेन्द्रदत्त इत्येषा, राजसूनोः कृताभिधा / / कलासूरेरसौ पार्वे, कलाः काले गृहीतवान्॥१०॥ गृह्णतश्च कलास्तस्य, चक्रिरे तानुपद्रवान्। न चासौ भाविभद्रत्वान्नृपस्तत्तु व्यजीगणत्।।११।। ते च द्वाविंशतिः पुत्रा ग्राह्यमाणाः कलाः किल॥ निघ्नन्तिस्म कलाचार्य , गालीस्तस्य तथा ददुः // 12 // सूरिणा ताडितास्ते तु. स्वमातृभ्यो न्यवेदयन्॥ तंच ताः कुपिताः शापै-श्चक्रुरुद्वेगभाजनम्॥१३॥ एवं ते ययुरज्ञाना, सूरिणा समुपेक्षिताः। इतश्च मथुरानाथ, आसीत्पर्वतको नृपः / / 14|| तत्सुता निवृतिर्नाम, यौवनोद्भेद सुन्दरा॥ वरार्थं तेन सावाचि, भरि वृणु वाञ्छितम्॥१५|| सा पुनस्तमनुज्ञाप्या चलदिन्द्रपुरं प्रति!। राजपुत्र यतस्तत्र भूयांसः सन्तिसद्गुणाः॥१६॥ ततः सेन्द्रपुरं प्राप-दाप्रलोकसमन्विता। तुष्टेन चेन्द्रदत्तेन राज्ञाऽकारि पुरे महः ||17|| निर्वृत्या भणितं राज्ञो, राधावेधं करिष्यति / / यः कुमारः स मे भर्ता भविष्यत्यपरो न तु // 18 // तदाकर्ण्य नृपो रंगं कारयमास तत्र च / / एकत्राक्षेऽष्ट चक्राणि तत्पुरः पुत्रिका तथा॥१६॥ सा च चक्षुषि वाणेन, भेत्तव्याधो विवर्तिना। ततः सैन्ययुतो राजा, रंगे तस्थौ सपुत्रकः।।२०।। निर्वृतिश्चैकदेशेऽस्य, स्थितालड्कृतविग्रहा।। यथास्वं च निविष्ठेषु, सामंतनागरादिषु / / 21 / / आदिष्टो ज्येष्ठपुत्रोऽथ, राज्ञा श्रीमालिनामकः / / भित्वा राधां गृहाणेमां, कन्यां राज्यं च पुत्रक / / 22 / / ततः सोऽशिक्षितत्वेन, साध्यसोत्कंपिविग्रहः।। शशाक नैव तां भेत्तु-मेवं ते शेषका अपि॥२३॥ ततो राजा स्वपुत्राणां, मूर्खतां वीक्ष्य तत्क्षणात्। शुशोच हस्तविन्यस्तगंडो भून्यस्तदृष्टिकः॥२४॥ ततोऽमात्यस्तमापृच्छत्, देवः किं दैन्यवान् भवान्॥ सोऽवोचत्दुःसुतैरेतैरह भोधर्षितो जने॥२५॥ ततोऽमात्योऽवदद्भूपं यथान्योपिच ते सुतः॥ विद्यते सोऽपि देवेन राधावेघे नियुज्यतां // 26 // राजाऽवोचत्कुतो मेऽन्यः, सुतोऽमात्योऽप्युवाच तम्॥ मद्दौहित्रस्ततः पत्रं दर्शयामास तस्य तत्॥२७|| संजातप्रत्ययो राजा संतुष्टस्तं बभाण च। आनयाऽमात्य तत्पुत्रं, तस्य तं सोऽप्यदर्शयत्॥२८॥ आलिङ्ग्य मूर्ध्नि चाघ्राय, तंबभाषे सुतोत्तमम्॥ कन्यां गृहाण राज्यञ्च भित्वा राधां त्वमद्भुतां / / 26 / / यदादिशति तातस्तत्करोमीत्यभिधाय सः // धनुर्वेदोपदेशेन राधां भेत्तुमुपस्थितः॥३०॥ तान्यस्य चेटरूपाणि तेच द्वाविंशतिः सुताः।। उद्धृतासीनरौ द्वौ च नाना चक्रुरुपद्रवान् // 31 // कलाचार्योऽप्यऽवोचत्तं न चेद्राधां विभेत्स्यति / तदेतौ च शिरो वत्स छेत्सयेते दारुणौ नरौ॥३२॥ ततोसाववगण्यैतान् लब्धलक्षोऽप्रमादवान् // चक्राणामंतरं ज्ञात्वा राधां द्रागिति विद्धवान् // 33 // ततश्चास्फालितं तूर्य साधुकारः कृतो जनैः।। राजादिस्तोषितो लोक ऊढाकन्या च तेन सा // 34 // पंचा०। श्रावस्तीवास्तव्ये कपिलपितुः काश्यपस्य मित्रे, कपिलस्योपाध्याये स्वनामख्याते ब्राह्मणे, उत्त०७ अ० / तथा च कपिलकथायाम् "सावत्थीए णयरीए पिइमित्तो इन्ददत्तो नाम माहणो इति" उत्त० / तत्कथा कपिलशब्दे। मथुरानगरस्थेस्वनामख्यातेपुरोहितेचे।तत्कथा यथा-मथुरायां इन्द्रदत्तः पुरोहितोऽस्ति स जिनशासनप्रत्यनीकः स्वगवाक्षस्थःसन् अधोनिर्गच्छतोजैनयतेर्मस्तकोपरि निजचरणं विततं करोति / एवं निरन्तरं कुवाणं तं दृष्ट्वा साधुन कोपि कुप्यति परमेकः श्रावकः कुपितः तत्पादच्छेदप्रतिज्ञामकरोत् अन्यानि तच्छिद्राणि अलभमानेन, तेन श्रावकेण तत्स्वरूपं गुरोः पुरः कथितम् / गुरुणोक्तं सह्यते सत्कारपुरस्कारपरीषहः साधुनेति / तेन स्वप्रतिज्ञा कथिता। गुरुभिरुक्तम्। अस्य गृहे किं जायमानमस्ति तेनोक्तं नवीनप्रासादे राजा निमन्त्र्यमाणोऽस्ति पुरोहितेन / गुरुभिरुक्तं तर्हि त्वंतत्प्रासादेप्रविशन्तं राजानं करे धृत्वा प्रासादोऽयं पतिष्यतीति कथय। अहंच प्रासादं विद्यया पातयिष्यामि / ततस्तेन तथाकृते / प्रासादः पतितो राज्ञोक्तं किमिदजातं / श्रेष्ठिनोक्तं महाराज ! अनेन तव मारणाय कपट मणिडतमभूत् ततो रुष्टेन राज्ञा स पुरोहितस्तस्य श्रेष्ठिनोऽर्पितः सच श्रेष्ठी इन्द्रकीलके तस्य पादं क्षिप्त्वा प्रतिज्ञापूरणार्थं च पिष्टमयं पादं कृत्वा च्छिन्नवान् उक्तवांश्च सर्व तत्स्वरूपं पुरोहितेनोक्तमतः परं नैवेदृशं करिष्यामीति / जानुकंपेन श्रावकेण स मुक्तः। उत्त०२ अ०॥ इत्थमिदद्त्तो पुरोहिओगवक्खट्ठिओ मिच्छदिट्ठी अहोवचंतस्ससाहुस्स मत्थए उवरि पायं कुणंतो सेट्टेण गुरुभत्तिए पायहीणो कओ" ती०।। इंददार-पुं०(इन्द्रदारु) इन्द्रस्य तद्ध्वजस्य साधनं दारु देवदारु वृक्षे इन्द्रदुमादयोप्यत्र ! वाच०॥ इंददिण्ण-पुं०(इन्द्रदिन्न) कौटिकगच्छस्थे सुस्थितसुप्रसिबुद्धा परनामधेययोः कौटिककाकन्दकयोः शिष्ये स्वनामख्याते आचार्ये, "सुवियसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्घावच सगुत्ताणं अंन्तेवासी थेरे अजइंददिण्णे कोसियगुत्ते / / इति"- कल्प०1"तदनु च सुहस्तिशिष्यौ, कौटिककाकंद कावजायेताम् / सुस्थितसुप्रतिबुद्धौ, कौटिकगच्छस्ततः समभूत्। तत्रेन्द्रदिन्नसूरि-भगवान् श्रीदिण्णसंज्ञसूरीन्द्रः॥ इति गच्छा०॥ अयं च खरतरगच्छपट्टावल्ल्यनुसारेण वीरजिनात्त्रयोदशः / / तपोगच्छपट्टावलीप्रमाणतो दशमः। इंदपव्वय-पुं०(इन्द्रपर्वत) इन्द्रनामकपर्वतः / महेन्द्रपर्वते, इन्द्रवर्णः पर्वतः। नीलवर्णे गिरिभेदे, वाच०॥ इंदपाडिवया-स्त्री०(इन्द्रप्रतिपत्) अश्वयुक्पूर्णिमायां अनन्तरभावि न्याम्महाप्रतिपदितस्यां चास्वाध्याय इति- | स्था०४ ठा०। इंदपुर-न०(इन्द्रपुर) इन्द्रदत्तनृपस्य भारतवर्षस्ये स्वनामख्याते नगरे, आव०४ अ०६ ठा० / / आ० चू०। आ०म० / स्था०। इहेव जंबूदीवे भारहेवासे इंदपुरणामणयरे, // इति विपा०१० अ०व्य०।"पुरमिन्द्रपुर नाम साक्षादिन्द्रपुरं किल'' || आ० क०। माणीपुरस्थे स्वनामख्याते नगरेच॥"माणी पुरंणयरंणागदते गाहावई इंदपुरे अणगारे पडिलाभिए जाव सिद्धे इति'' विपा०७ अ०॥