________________ इंदचंदण 565 अभिधानराजेन्द्रः भाग 2 इंदट्ठाण देवे, अनु० / "दो इंदग्गी" अष्टाशीतिमहाग्रहान्तर्गत सप्तत्रिंशत्तमे महाग्रहे च। स्था०२ ठा० / विसाहा इंदग्गिदेवयाए इति। ज्यो०। तदधिष्ठातृके विशाखानक्षत्रे च / अधिष्ठातर्याधिष्ठे यस्योपचारादिति। जं०७ वक्ष०ा कल्प। इंदचंदण-न०(इन्द्रचन्दन) इन्द्रप्रियं चंदनम् शा० त० हरिचन्दने, वाच०। इंदचिब्भिडी-स्त्री०(इन्द्रचिर्भिटी) इन्द्रस्यात्मनः प्रिया चिर्भिटी शा० त०लताभेदे, साच इन्द्रतुल्यवर्णकुसुमा पुष्पान्वितमञ्जरीका दीर्घवृन्ता युग्मफलान्विता कट्वी शीतवीर्या पित्त श्लेष्मकासव्रणदोषकृमिनाशिनी चक्षुप्या च / राजनिघं। वाच०। इंदजव-न०--पु०(इन्द्रयव) इन्द्रस्य कुटजवृक्षस्य यवा-कृतिबीजत्वात् यव इव बीजम् / कुटजवृक्षस्य यवाकारे तिक्तरसे स्वनामख्याते बीजे, "ऐन्द्रो यवस्त्रिदोषघ्रः, संग्राही कटुशीतलः / ज्वरातिसाररक्तार्शःक्रमिवीसर्पकुष्टनुत्॥ दीपनो गुदकी लास्रवातास्रश्लेष्मशूलजित्। भाव० प्र०। वाच०॥ इंदजसा-स्त्री०(इन्द्रयशस्) पांचालदेशस्थकांपिल्यनगरस्य ब्रह्मनामकराज्ञोभार्यायाम, तस्यच चतस्रो भार्याः। "इंदवसु १इंदजसा 2 इंदसिरी 3 चुल्लणीदेवी 4 य" / उत्त०१३ अ०॥ इंदजाल-न०(इन्द्रजाल) द्वासप्ततिकलान्तर्गत कलाविशेषे, कल्प० / इन्द्रेण कौशल्याद्यैश्वर्येण जालंद्रष्टुर्नेत्रावरणं यथास्थितवस्तुदर्शनाक्षमत्वासाधनात् / इन्द्रस्य परमेश्वरस्य जालं मायेव वा मन्त्रौषधादिना अन्यथास्थितस्य वस्तुनोऽन्यथात्वेन दर्शनसाधने (कुहक) (वाजी) 1 पदार्थे, 2 मायारूपे जाले च / इन्द्रेण इन्द्रकृतेन योगविशेषेण जालं क्षुद्रोपायभेदेच। इन्द्रजालं च द्रव्यविशेषसंयोगेन अद्भुतवस्तुदर्शकव्यापारः (क्यामेष्टरि) इति आंगलभाषाप्रसिद्धः / मन्त्रद्रध्य विशेषेण वस्तुनोऽन्यथाकरणञ्च वाच०। इंदजालि(न)-त्रि०(इन्द्रजालिन्) वेषरधनादिस्वपरहा सोत्पादके विस्मापके, स्था० 4 ठा०॥ इंदजालिय-त्रि०(इन्द्रजालिक) इन्द्रजालं शिल्पतयास्त्यस्य ठन्। इन्द्रजालकारके, इन्द्रजालिकीत्यप्यत्र स्त्रियां डीपवाच० आ०म०। विशे०। इंदज्झय-पु०(इन्द्रध्वज) इन्द्रत्वसूचको वा ध्वज इन्द्रध्वज इति / अतिमहति ध्वजे, / प्रव० 40 द्वा०॥ "आगासगओ कुडिभी सहस्स परिमंडियाभिरामो इंदज्झओ पुरओ गच्छइ“॥ (आगासग ओत्ति) आकाशगतोऽत्यर्थं तुङ्गमित्यर्थः (कुडि-भित्ति) लघुपताकः संभाव्यते / तत्सहस्रैः परिमण्डितश्चासावभिरामश्वातिरमणीय इति विग्रहः / (इंदज्झओत्ति) शेषध्वजापेक्षयाऽतिमहत्वात् इन्द्रश्वासौध्वजश्च इन्द्रध्वज इति। (पुरओत्ति) जिनस्याग्रतो गच्छतीति दशमोऽतिशयः। सम०३४ स०॥ इंदज्झया-स्वी०(इन्द्रध्वजा) इन्द्रसम्बन्धिन्यां तत्संतोषाय स्थापितायां ध्वजायाम, वाच० / तदुत्पत्तिरावश्यकचूर्णी भरतकथामधिकृत्योक्ता यथाताहे सो सक्कं भणति तुज्झेहिं के रिसेण रूवेण तत्थ अत्थ हति ताहे सक्को भणति ण सक्का तं माणुसेणं दटुं / ताहे सो भणति / तस्स आकिति पेच्छामि। ताहे सक्को भणति जेण तुम उत्तमपुरिसो तेण ते अहं दामि एग पदेसं ताहे एगं अंगुलिं सव्वालंकारविभूसितं काऊण दाएति सो तंदठूणं अतीव हरिसं गतो। ताहे तस्स अट्ठाहियं महिमं करेति ताए अंगुलीए आकिर्ति काऊण पच्छास इंदज्झया एवं वरिसे वरिसे इंदमहो पव्वत्तो। पढम उस्सवो भरहो भणति तुमं सि देविंदो अहं मणुस्सिंदो मित्तामो एवं होउत्ति। आ० चू०२० अ०॥ इंदट्ठाण-न०(इन्द्रस्थान) भवननगरविमानरूपेचमरादि-सम्बन्ध्याश्रये, स्था०६ ठा०॥ तत्रेन्द्रोपपातविरहितकालो यथा इंदट्ठाणे णं भंते ! केवतियं कालं विरहिते उववाते णं पण्णते? गो०! जहण्णेणं एक समयं उक्कोसेणं छम्मासा (इंदट्ठाणेणमित्यादि) इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन विरहितं प्रज्ञप्तम्। भगवानाहगौतम! जघन्येनैकं समयं यावत् उत्कर्षतः षण्मासान्। जी०३ प्र० / / भ०॥ . स्थानाङ्गेपि। एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासे विरहिए उववाएणं (एगेत्यादि) एकैकमिन्द्रस्थानं चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपाते नेन्द्रापेक्षयेति। स्था०६ ठा०॥ इन्द्रोपपातविरहिते इन्द्रस्थाने किं भवतीति जीवाभिगमे प्रतिपादितम् / तद्यथा तेसिंणं मंते ! जया देवाणं इंदे चयति से कहमिदाणी पकरेंति? गो०! चत्तारि पंच सामाणिया तट्ठाणं उवसंपञ्जित्ताणं विहरंति जाव तत्थ अण्णे इंदे उववण्णे भवति।। पुनः प्रश्नयति (तेसिणं भंते इत्यादि) तेषां भदन्त! ज्योतिष्कदेवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीं इन्द्रविरह काले कथं प्रकृर्वति। भगवानाहा गौतम! यावच्चत्वारः पंच वा सामानिका देवाः समुदितीभूय तत्स्थानमुपसंपद्य विहरंति तदिन्द्रस्थानं परिपालयन्तीति चेदतआह यावदन्यस्तत्र इन्द्र उपपन्नो भवति। जी०३ प्र०॥ एवं बाह्यज्योतिष्कदेवेन्द्रस्थानेऽपितथाच सूर्यप्रज्ञप्तौ। तातेसिणं देवाणं जाव इंदे चयति से कथमिदाणिं पकरेंति ता चत्तारि पंच सामाणियदेवा तहाणं उवसंपज्जित्ताणं विहरंति जाविंदा तत्थोववण्णगा इत्थं इंदे उववण्णे भवति ता इंदट्ठाणे केवतियं कालं विरहिते उववाते पण्णत्ते ताजहण्णेणं एवं समयं उक्कोसेणं छम्मासे // (ता तेसिणत्ति) ता इतिपूर्ववत् तेषां ज्योतिष्काणां देवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीं इन्द्रविरहकाले कथं प्रकुर्वन्ति भगवानाह ता इत्यादि पूर्ववत् चत्वारि पंच वा सामानिका देवाः समुदितीभूय तच्छुन्यमिन्द्रमुपसम्पद्य विहरंति तदिन्द्रस्थानं परिपालयन्तीति चेदत आह। यावदिन्द्रः तत्रेन्द्र उपपन्नो भवति (ता इंद ट्ठाणेणेत्ति) ता इति पूर्ववत् इन्द्रस्थानं कियत्कालमुपपातेन विरहितं प्रज्ञप्तं ? भगवानाह (ता इत्यादि) जघन्येन एकं समयं यावत् उत्कर्षण षण्मासान्। सूर्य०१६ पा०॥ इन्द्राणांप्रत्येकंस्थानानितत्तद्देवस्थाननिरूप