________________ इंद 561 अभिधानराजेन्द्रः भाग 2 भवति / यत्र स्थापनादीनामेकमपि नास्ति किन्तु केवला एका संज्ञा तदर्थनिरपेक्षा स नामेन्द्रः। उक्तं नामेन्द्रलक्षणम् / वृ०१ उ० / / स्थापनेन्द्रमाह॥ तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना लेष्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः / इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षा-दिन्यासस्त्वितर इति / स्थापनालक्षणमिदम् / यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणम् / लेष्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालञ्चेति // 1 // तथा "लेपगहत्थीहत्थित्ति एस, सब्भाविआभवेठवणा। होइ असब्भावो पुण, हस्थिति निरागिई अक्खोत्ति" || स्था०३ ठा०। अधुना स्थापनेन्द्रलक्षणमाहसन्मावमसन्मावे, ठवणा पुण इंदकेउ माईया। इत्तरमणित्तरा वा, ठवणा नामं तु आवकहं।। स्थापना स्थापनेन्द्रः पुनस्सदावेऽसद्भावे च इन्द्रके त्वादि का इन्द्रकेतुप्रभृतिको द्रष्टव्यः / अत्रादिशब्दादिन्द्रप्रतिमा क्षवराटकादिपरिग्रहः / इयमत्र भावना / या इन्द्र इति स्थापना अक्षवराटकादिष्वसद्भावेन या चेन्द्रके त्विन्द्रप्रति मादिषु सद्भावतः स स्थापनेन्द्रः / इह नामस्थापनयोः कः प्रति विशेष उच्यते (इतर इत्यादि) स्थापना इत्वरा च भवति यावद्रव्यभाविनी अथावद्रव्यभाविनी चेत्यर्थः / नाम पुन नियमात् यावत्कथिकं यावद्रव्य भावी एष प्रतिविशेषः / वृ० 1 उ०॥ संप्रति नामेन्द्रस्थापनेन्द्रयोः प्रकारान्तरेण प्रतिविशेष-मभिधित्सुराह। जह ठवणिंदो वुचइ, अणुग्गहत्थी हि तह न नामिन्दो। एसे व दय्वभावे, पूथाथुतिलद्धिनाणत्तं॥१॥ यथा स्थापनेन्द्रः अनुग्रह एवार्थोऽनुग्रहार्थः स येषामस्ति अनुग्रहार्थिनस्तैर्वाभिः स्तूयते पुष्पादिभिरुर्च्यते च न तथा नामे-न्द्रो माणवकस्ततो महान् नामेन्द्रस्थापनेन्द्रयोः प्रतिविशेषः। एवमेव अनेनैव प्रकारेण द्रव्येन्द्र भावेन्द्रे च पूजास्तुति-लब्धिभिर्नानात्वमवसातव्यम् तद्यथा / द्रव्येन्द्रोऽपि नामेन्द्र इवानुग्रहार्थिभिः न स्तूयते नापि पूज्यते यस्तु भावेन्द्रः स स्थापनेन्द्र इव स्तूयते पूज्यते च ततो द्रव्येन्द्रभावेन्द्रयोरपिमहान् प्रतिविशेषः। अन्यच्च द्रव्येन्द्र इन्द्रलब्धिहीनो यस्तु भावेन्द्रः स तल्लब्धिसंपन्नस्तथाहि स सामानिकत्रायस्विंशकादिपरिवृतो विशिष्ट द्युतिमान् स्फीतं राज्यमनुभवति उपयोगचिन्तायामपि भावेन्द्र उपयोगलब्धिमान् द्रव्येन्द्र उपयोगलब्ध्या परित्यक्त इति वृ०१ उ०॥ द्रव्येन्द्रमाहतथा द्रवति गच्छति तांस्तानपर्यायान्दूयते वा तैस्तैः पर्याय्यैीर्वा सत्ताया अवयवो विकारो वा वर्णादिगुणानांद्रावस्समूह इतिद्रव्यम्। तच्च भूतभावं भाविभावं चेति आह च "दवए दूयते दोरव, यवो विगारो गुणाणसंदावो॥ दव्वं भव्वं भावस्स भूयभावंच जंजोग्गत्ति॥ तथा "भूतस्य भाविनोवा भावस्य हि कारणं तु यल्लोके। तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम्" ॥१॥तथा अनुपयोगो द्रव्यमप्रधानञ्चेति तत्रद्रव्यंचासाविन्द्रश्चेति द्रव्येन्द्रः || स्था०३ ठा०॥ सच द्विधा / आगमतो नो आगमतश्च। तत्रागमतः खल्वागमम-धिकृत्य | ज्ञानापेक्षयेत्यर्थः / ना आगमतस्तु तद्विपर्ययमाश्रित्य तत्रागमत इन्द्रशब्दोऽध्येताऽनुपयुक्तो द्रव्येन्द्रोऽनुपयोगो द्रव्यमिति वचनात् / अयमेवार्थो मङ्गलमाश्रित्य भाष्ये उक्तस्तथाहि "आगमओणुवउत्तो, मंगलसद्दाणुवासिओवत्ता / तन्नाणलद्धि-जुत्तो, विणोव उत्तोत्ति नो दव्वंति" तथा नो आगमतस्त्रिविधो द्रव्येन्द्रस्तद्यथा ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्य-शरीरव्यतिरिक्तो द्रव्येन्द्रश्चेति // तत्र ज्ञस्य शरीरं ज्ञशरीरं ज्ञशरीर-मेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः एतदुक्तं भवति / इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्ध-शिलातलादिगतमपि घृतघटादिन्यायेन नो आगमतो द्रव्येन्द्र इति / इन्द्रज्ञानशून्यत्वाच्च तस्येह सर्वनिषेध एव नोशब्दार्थः / तथा भव्यो योग्य इन्द्रशब्दार्थ ज्ञास्यति यो न तावद्विजानाति सभव्यः इति तस्य शरीरम्भव्यशरीरं तदेव भव्येन्द्रोभव्यशरीर-द्रव्येन्द्रः अथमत्र भावार्थो भाविनी वृत्तिमङ्गीकृत्येन्द्रोपयोगा-धारत्वान्मधुघटादिन्यायेनैवतद्वालादिशरीरं भव्यशरीरद्रव्येन्द्र इति नो शब्दः पूर्ववत्। उक्तञ्च मङ्गलमधिकृत्य "मंगलपथ-त्थजाणय, देहोभव्यस्स वा सजीवो वि। नो आगमओ दव्वं, आगमरहिओत्तिजंभणियं ति"ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्रकार्येष्वव्यापृत आगमतोऽनुपयुक्तद्रव्येन्द्रवत्। तथा यच्छरीरमात्मद्रव्यं वातीतभावेन्द्रपरिणामन्तचोभयातिरिक्तद्रव्येन्द्रो ज्ञशरीरद्रव्येन्द्रवत् / तथा यो भावेन्द्रपर्यायशरीरयोग्यः पुद्रलराशिर्यच भावीन्द्रपर्यायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः भव्यशरीरद्रव्येन्द्रवत् / सचावस्थाभेदेन त्रिविधस्तद्यथा एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति / तत्रैकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर एव भावेन्द्रतयो-त्पत्स्यते इति स चोत्कर्षतस्त्रीणिपल्योपमानि भवन्ति देवकुर्वादि-मिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्ति संभवादिति / तथा स एवेन्द्रायुर्बन्धानन्तरं बदमायुरनेनेति बद्धायुरुच्यते। सचोत्कर्षतः पूर्वकोटित्रिभागं यावदस्मा त्परतःआयुष्कबन्धाभावात्। तथा अभिमुखे सम्मुखेजघन्योत्कर्षाभ्यां समयांतर्मुहूर्तानन्तरभावितया नामगोत्रे इन्द्रसम्बन्धिनीयस्य स तथा। तथा भावैश्वर्ययुक्ततीर्थकरादिभावेन्द्रापेक्षयाऽप्रधानत्वाच्छक्रादिरपि द्रव्येन्द्र एवं द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेः / स्था० ठा०३।। // द्रव्येन्द्रलक्षणमाह।। दव्वं पुण तल्लद्धी, जस्सातीता भविस्सते वा वि। जीवो वि अणुवउत्तो, इंदस्स गुणो परिकहेइ।। द्रव्यं द्रव्यविषयः पुनरिन्द्रीयस्सतल्लब्धिरिन्द्रलब्धिरतीता भविष्यति सच प्रतिपत्तव्यः। किमुक्तं भवति। यस्सर्वमिन्द्रत्वं प्राप्तो यश्च प्राप्स्यति स यथाक्रमं भूतभावत्वाद्भाविभावत्वाच द्रव्येन्द्रः। उक्तं च / "भूतस्य भाविनो वा, भावस्य हि कारणं तु यल्लोके / तद्रव्यं तत्त्वज्ञैः, सचेतनाचेतनं कथितम्" यो वापि इन्द्रस्य गुणान् परस्मै परिकथयति परमनुपयुक्तः सोऽपि द्रव्येन्द्रः अनुपयोगो द्रव्यमिति वचनात्वृ०१उ०॥ उक्तोद्रव्येन्द्रः॥ भावेन्द्रमाह। भावेन्द्रस्त्विह त्रिस्थानकानुरोधान्नोक्तस्तल्लक्षणं चेदम्भावमिन्दनक्रियानुभवनलक्षणपरिणाममाश्रित्येन्द्रः इन्दनपरिणामेन भवतीति वा स चासाविन्द्रश्चेति भावेन्द्रो यदाह "भावो विवक्षितक्रिया-नुभूतियुक्तो हि वै समाख्यातः। सर्वरिन्द्रादिवदिहें दनादिक्रि यानुभवात् / / 1 / / सच द्विधा आगमतो नो आगमतश्च तत्रगमत इन्द्रज्ञानोपयुक्तो जीवोभावेन्द्रः कथ