________________ 562 अभिधानराजेन्द्रः भाग 2 - मिहेन्द्रोपयोगमात्रात्तन्मयतावगम्यते / नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव दहनपचनप्रकाशनाद्यर्थक्रि याप्रसाधकत्वा भावादिति चेन्नाभिप्रायापरिज्ञानात् / संविद्ज्ञानमवगमो भाव इत्यनान्तरं / तत्रार्थाभिधानप्रत्ययास्तुल्यनाधेया इति सर्ववा-दिनामविसंवादस्थानं यथा कोऽयंघटः किमयमाह घटशब्दं किमस्यज्ञानंघट इति अग्निरिति च यजज्ञानं तद्व्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते / अन्यथा तज्ज्ञानेसत्यपि नोपलभ्येता-ऽतन्मयत्वात् प्रदीपहस्तान्धवत् पुरुषान्तरवद्वान वानाकारं तत्पदार्थान्तरवद्विवक्षितं पदार्थापरिच्छेदप्रसंगात् बन्धाद्यभावश्च ज्ञानाऽज्ञानसुखदुःखपरिणामान्यत्वादाकाशवनचानलः सर्वएव दहनाद्यर्थक्रियाप्रसाधको भस्मच्छन्नाग्रिना व्यभिचारादिति कृतं प्रसंगेनानो आगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनं सर्वनिषेधवचनत्वानोशब्दस्य यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितमिन्दन-क्रियाया एव च विवक्षितत्वात् / अथवा तथाविधज्ञान-क्रियारूपो यः परिणाम स नागम एव केवलोनचानागम इत्यतो मिश्रवचनत्वान्नोशब्दस्य नो आगमत इत्याख्यायत इति / ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वात् द्रव्यत्वं च समानं वर्तते अतश्च क एषां विशेषः आहच "अभिहाणं दव्यत्तं, तदत्थसुत्तत्तणं चतुल्लाई। को भाववज्जियाणं नामाईणं पइविसेसोत्ति" ||1| अत्रोच्यते यथा हि स्थापनेन्द्रः खलु इन्द्राकारो लक्ष्यते तथा कर्तुः सद् भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शना दिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते, फलं च प्राप्नुवन्ति / केचिद्देवता-नुग्रहान्न तथा नामद्रव्येन्द्रयोरिति तस्मात्स्थापनायास्तावदित्थं भेद इति / आह च "आगाराभिप्पाओ, बुद्धिकीया फलंच पाएण / जह दीसइ ठवणिन्दे, न तहानामिन्द दविन्देत्ति,,। यथा च द्रव्येन्द्रोभावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामापि तदुपयोगतामादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति। आहच "भावस्स कारणं जह, दव्यं भावो यतस्स पञ्जाओ।उवओगपरिणमइओ, नतहा नामंन वाठवणंत्ति" / स्था०३ ठा०।। अत्र पर आह॥ न हि जो घडं वियाणइ, सो उ घडी भवइ नो य वा अग्गी। नाणत्तिय भावोत्तिय, एगट्ठमतो अदोसोत्ति।१।। न हि यो घटे विजानाति स घटी भवति यस्य वा–ग्निविज्ञानं सोऽग्निः प्रत्यक्षे विरोधात्ततो यदुक्त 'मिन्दस्सवाहिगारं विजाणमाणो तदुवउत्तो इति, तन्मिथ्या / अत्र सूरिराह / ज्ञान मिति भाव इति वा च शब्दादध्यवसाय इति उपयोग इति वा एकार्थमतोऽदोषः / इयमत्र भावना / अर्थाभिधानप्रत्यया-स्तुल्यनामधेयास्तथाहि घटोऽपि बाह्यो घट इत्युच्यते घटशब्दो-ऽपि घट इति घटज्ञानमपि घट इति। ज्ञानं च ज्ञानिनोऽपृथक्घटज्ञान्यपिघट इत्युच्यते अग्निज्ञान्यपि अग्निरित्यदोषः। एतदेव भावयतिजमिदं नाणं इन्दो, तव्वतिरिचति ततोय तन्नाणी।। तम्हा खलु तब्भावं, वयंति जो जत्थ उवउत्तो / / 1 / / यदिदमिन्द्र इति ज्ञानं तस्मात्तज्ज्ञानी इन्द्रज्ञानी व्यतिरिच्यते तस्माद्यो यत्रेन्द्रादावुपयुक्तः तस्य तद्भावमिन्द्रादिभावंतत्त्व-विदस्सूरयो वदन्ति। ज्ञानज्ञानिनोरभेद एव कथं सिद्ध इति चेदुच्यते विपक्षेऽनेकदोषप्रसंगात्।। तमेवाहचेयणस्स उजीवा,जीवस्स उचेयणा उ अन्नत्ति। दवियं अलक्खणं खलु, हविजन य बन्धमोक्खाउ॥ चैतन्यस्य जीवा जीवस्य चेतनाया अन्यत्वे द्रव्यं जीवद्रव्य मलक्षणं चेतनालक्षणोजीव इति लक्षणरहितं भवेत्। चेतनाया घटादिवज्जीवादप्येकान्तव्यतिरिक्तत्वाल्लक्षणाभावे च लक्ष्यस्याऽन्प्यभाव इति खरशृंगवदत्यन्तमसन् जीवोऽप्यत्यन्तमसन् स न बध्यते बन्धस्य वस्तुधर्मत्वान्नापि मुच्यते बन्धाभावादिति बन्धमोक्षावपिन स्यातामय मन्येथा अचेतनोऽपि संबध्यते मुच्यते चेति तदप्ययुक्तमचेतनानामप्येवंधर्मास्तिकायादीनां बन्धमोक्षप्रसक्तेस्तस्मात्साधूक्तमिन्द्रशब्दार्थ जानन् तदुपयुक्तोभावेन्द्र इति / वृ० 1 उ० // उक्ता नामस्थापिनाद्रव्येन्द्राः। इदानीं भावेन्द्रं त्रिस्थानकावतारेणाहतओ इंदापण्णत्ता तंजहाणाणिन्दे दंसणिंदे चरित्तेन्दे। (तओइंदेत्यादि) कंठ्यं नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रोऽतिशयवत् श्रुता द्यन्यतरज्ञानवशविवेचित-वस्तुविशरः केवली वा एवं दर्शनेन्द्रः क्षायिकसम्यग्दर्शनीचारित्रेन्द्रो यथाख्यातचारित्रः एतेषां च भावेन सकलभावप्रधान-क्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः परमार्थतो वेन्द्रत्वात् सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षण-परमैश्वर्ययुक्तत्वात् भावेन्द्रतावसेयेति। भावेन्द्रलक्षणमाहजो पुण जहत्थ जुत्तो, सुद्धणयाणं तु एस भाविन्दो। इन्दस्सव अहिगारं, वियाणमाणो तदुवउत्तो // 1 // यः पुनर्यथार्थेन यथावस्थितेन अर्थेन परमैश्वर्यलक्षणेन इदि परमैश्वर्य इति वचनात् साक्षादिन्द्रना गोत्राणि कर्माणि वेदयमान इत्यर्थः स भावेन्द्रः / एष शुद्धनयानां शब्दादीनां यथावस्थिता-र्थग्राहकाणां वर्तमानविषयिकाणां संमतो न शेषोनामेन्द्रादिः / अथवा इन्द्रस्य इन्द्रशब्दस्याधिकारमर्थं जानन् तदुपयुक्तस्त-स्मिन्निन्द्रशब्दार्थ उपयुक्तो भावेन्द्रः उपयोगो भावनिक्षेप इति वचनात् / / उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यम्। अथवा झैश्वर्यापेक्षया तदेवाह-- तओ इन्दा पण्णत्तातं जहा-देविंदे असुरिंदे मणुस्सिदे। तओ इंदेत्यादि भावितार्थन्नवरं देवा वैमानिका ज्योतिष्क-वैमानिका वा रूढेः / असुरा भवनपतिविशेषा भवनपतिव्यंन्तरा वा सुरपर्युदासात् मनुजेन्द्रश्चक्रवादिरिति / स्था० 3 ठा०॥ तेचेन्द्रा स्थानाङ्गे चतुःषष्टिदर्शितास्तत्र देवेन्द्रा यथा। दो असुरकु मारिंदा पन्नत्तातंजहा चमरे चेव बली चेव / दो नागकु मारिंदा पन्नत्ता तंजहा धरणे चेव भूयाणंदे चेव। दो सुवण्णकु मारिंदा पन्नत्ता तंजहा वेणुदेवे चेव वेणुदाली चेव / दो विजकुमारिंदा पं०तं० हरिचेव हरिस्सहे चेव / दो अग्गिकु मारिंदा पं०० अग्गिसिहे चेव अग्गिमा णवे चेव / दो दीवकु मारिंदा पं०० पुग्ने चेव वसि