________________ आउक्काय 32 अभिधानराजेन्द्रः भाग 2 आउक्खय तथा उदका वा कार्य उदकार्द्र वा वस्त्रम् उदकार्द्रता चेह गलद्विन्दुतुषारानन्तरोदितोदकभेदसम्मिश्रिता। तथा-सस्निग्धं वा कार्य सस्निग्धं वस्त्रम् अत्र स्नेहनं स्निग्धमिति भावे निष्ठाप्रत्यय: स्निग्धेन सह वर्तते इति सस्निग्धं सस्निग्धता चेह विन्दुरहितान्तरोदितोदकभेदसम्मिश्रिता (अस्य सूत्रस्य संपूर्णा टीका महव्वय' शब्दे षष्ठे भागे दर्शयिष्यते) दश० 4 अ। (12) शीतोदकादिपरिषेवणनिषेधःसीओदकं न सेविज्जा, सिलावुन हिमाणिय। उसिणोदगं तत्तफासुयं,पडिगाहिज्ज संजए।।६।। शीतोदकं-पृथिव्युद्भवसचित्तोदकं न सेवेत! तथा-शिलावृष्ट हिमानि चन सेवेत / तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते / वृष्ट-वर्षणं, हिम प्रतीतं, प्राय उत्तरापथे भवति। यद्येवं कथमयं वर्ततेत्याह-उष्णोदकंकथितोदक तप्तप्राशुकं तप्तं सत्प्राशुकं त्रिदण्डोद्वृत्तं नोष्णोदकमात्रं प्रतिगृह्णीयाद्वृत्त्यर्थ संयत:-साधुः / एतच्च सौवीराऽऽधुपलक्षणमिति सूत्रार्थः। तथा'उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे। समुप्पेह तहाभूयं, नो णं संघट्टए मुणी // 7 // नदीमुत्तीर्णो भिक्षां प्रविष्टो वा वृष्टिहत: उदकाम् - उदकबिन्दुचितमात्मन: कायं-शरीरं स्निग्धं वा नैवपुञ्छयेत्- वस्त्रतृणादिभिर्न संलिखेत् पाणिना, अपितु-संप्रेक्ष्य- निरीक्ष्य तथाभूतमुदकार्दादिरूपं नैव कार्य संघट्टयेत् मुनिर्मनागपि न स्पृशेदिति सूत्रार्थः / दश० 8 अ० (उदकतीरे निवासाऽऽदि- निषेध: 'दगतीर' शब्दे चतुर्थभागे वक्ष्यते) (अप्कायस्यबहु- वक्तव्यता 'पाणग' शब्दे पञ्चमभागे वक्ष्यते) (अप्कायस्य दर्पिका कल्पिका च 'मूलगुणपडिसेवणा' शब्दे षष्ठे भागे वक्ष्यते) (वस्त्र-धावनेऽप्कायप्रतिसेवनाया वक्तव्यता 'धावण' शब्दे चतुर्थभागे वक्ष्यते) (उदकसन्तरणेऽप्कायप्रतिसेवनाया वक्तव्यता 'मूलगुणपडिसेवणा' शब्दे षष्ठे भागे वक्ष्यते) आउक्कायविहिंसग-त्रि (अप्कायविहिंसक) सचित्तजलवि- राधेक। ग०१ अधि। आउक्काल-पुं. (आयुष्काल) मृत्युकाले, आचा०१ श्रु० 8 अ ८ऊ। आउक्खय- पुं० (आयु:क्षय) / आयुष्कर्मपुद्गलनिर्जरणे, स्था० 8 ठा. 3 उ। आयुर्दलिकनिजरणे, नि०१ श्रु०५ वर्ग 1 अ। कर्मद्रव्यनिर्जरणे, विपा० 2 श्रु. 1 अ। कर्मणो दलिकनिजरणे, औ०। भ. (आयु:क्षयनिमित्तान्यध्यवसायादीनि 'आउ' शब्देऽस्मिन्नेव भागे गतानि। ___क्षीणमायुर्जिनेन्द्रैरपि न वर्द्धयितुं शक्यम्, तथा चाहशक्रेण स्वामी विज्ञप्तो, यत् क्षणमायुर्वर्द्धयत येन भवत्सु जीवत्सु भवज्जन्मनक्षत्रं संक्रान्तो भस्मराशिग्रहो भवच्छासनं पीडयितुं न शक्नोति, ततोऽवश्यं प्रभुणोक्तम्-न खलु शक्र ! कदाचिदपीदं भूतपूर्व यत् क्षीणमायुजिनेन्ट्रैरपि वर्द्धयितुं शक्यते / कल्प. १अधि०२ क्षण। आयुष: क्षये चावश्यं जीवितनाश:("ताले जह" (6 गा.) इत्यादिकस्यार्थ: 'अणिचया' शब्दे प्रथमभागे विशेषतो दर्शित:) सूत्र०१ श्रु.२ अ०१ उ०। डहरा बुड्डा य पासह, गब्मत्था वि चयंति माणवा। सेणे जह वट्टयं हरे, एवमाउक्खयम्मि तुट्टती // 2 // डहरा- बाला एव केचन जीवितं त्यजन्ति / तथा- वृद्धाश्च गर्भस्था अप्येतत्पश्यत यूयं, केते? मानवा:- मनुष्यास्तेषामेवोपदेशदानार्हत्वात् मानवग्रहणम् बहपायत्वादायुषः; सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति / तथाहि- त्रिपल्योपमायुप्कस्यापि पर्याप्त्यन्तरमन्तर्मुहूर्तेनैव कस्यचि- न्मृत्युरुपतिष्ठतीति / अपि चगर्भस्थम्- जायमानमित्यादि, अत्रैव दृष्टान्तमाह-यथा श्येन:पक्षिविशेषो वर्तकंतित्तिरजातीयं हरेत्- व्यापादयेदेवं प्राणिनः प्राणान् मृत्युरुपहरेत्, उपक्रमकारणमायुष्कमुपक्रामेत् / तदभावे वा आयुष्यक्षये त्रुठ्यति-व्यवच्छिद्यते:जीवानांजीवितमिति शेषः। सूत्र.१ श्रु२ अ०१ऊ। आयुष: क्षयमजानन्त आरम्भे प्रवर्त्तन्तेआउक्खयं चेव अबुज्जमाणे, ममेति से साहसकारि मंदे। अहोयराओ परितप्पमाणे, अढेसु मूढे अजरामरे व्व // 28 // आयुषो- जीवनलक्षणस्य क्षय आयुष्कक्षयस्तम्- आरम्भप्रवृत्त: छिन्नहृदमत्स्यवदुदकक्षये सत्यवबुध्यमानोऽतीव 'मम' इति ममत्ववानिदं मे अहमस्य स्वामीत्येवं स मन्द:- अज्ञ: साहसं कर्तुं शीलमस्येति साहसकारीति / तद्यथा- कश्चिद्वणि महाक्लेशेन महा_णि रत्नानि समासाद्योज्जयिन्या बहिरावासितः / स च राजचौरदायादभयाद्रात्रौ रत्नान्येवमेवं च प्रवेशयिष्यामीत्येवं पर्यालोचनाऽऽकुलो रजनीक्षयं न ज्ञातवान् अहन्येव रत्नानि प्रवेशयन् राजपुरुषै रत्नेभ्यश्च्यावित इति। एवमन्योऽपि किंकर्तव्यताकुल: स्वायुष: क्षयमबुध्यमान: परिग्रहेष्वारम्भेषु च प्रवर्तमान: साहसकारी स्यादिति। तथा कामभोगतृषितोऽह्नि रात्रौ च परि-समन्तात् द्रव्यार्थी परितप्यमानो 1 मम्मणवणिग्वदार्तध्यायी कायेनापि क्लिश्यते / तथा चोक्तम्-"अजरामरवद्वाल:, क्लिश्यते धनकाम्यया / शाश्वतं जीवितं चैव, मन्यमानो धनानि च // 1 // तदेवमार्तध्यानोपहतः "कइया वच्चइ सत्थो किं भंड कत्थ कित्तिया भूमी" त्यादि। तथा-"उक्खणइ खणइ णिहणइ, रत्तिं न सुयइ दिया वि य ससंको' इत्यादि। चित्तसंक्लेशात्सुष्ठु मूढो वणिग्वदजरामरवदात्मानं मन्यमानोऽपगतशुभाध्यवसायोऽहर्निशमारम्भे प्रवर्तते। सूत्र श्रु०१० अ० अहर्निशमायुष:क्षयमवबुद्धधर्मे यतितव्यम्पिच्छइ आउस्स खयं, अहोनिसं जिज्जमाणस्स।।१८।। (73) राइदिएण तीसंतु, मुहुत्ता नवसयाइँ मासेणं। 1- मम्मणवणिवृत्त 'मम्मण' शब्दे षष्ठे भागे दर्शयिष्यते।