________________ आउक्काय 31 अभिधानराजेन्द्रः भाग 2 आउक्काय एवं ते परिफल्गुवचस: परिव्राजकादयो निजराद्धान्तो पन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याहपुढो सत्थेहिं विउटुंति। (सूत्र-२८) पृथग्- विभिन्नलक्षणैर्नानारूपैरुत्सेचनादिशस्त्रैस्तेऽनगाराय- माणा: 'विउति' त्ति-अप्कायजीवान् जीवनाद् व्यावर्त्तयन्ति; व्यपरोपर्यन्तीत्यर्थः / यदि वा-पृथग् विभिन्नैः शस्त्रैरप्कायिकान् विविध कुट्टन्ति; छिन्दन्तीत्यर्थः, कुहेर्धातो: छेदनार्थत्त्वात्।। अधुनैषामागमानुसारिणामागमाऽसारत्वप्रदिपादनायाहएत्थ वि तेसिं नो निकरणाए / (सूत्र-२९) एतस्मिन्नपि- प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति"कप्पइणे कप्पइ णे पाउं, अदुवा विभूसाए (26)" ति-एवं रूपस्तेषामयमागमो यद्गलादप्कायपरिभोगे ते प्रवृत्ता:स स्याद्वादयुक्तिभिरभ्याहत: सन् 'नो निकरणाए' त्ति-नो निश्चयं कर्तुं समर्थो भवति, न केवलं तेषां युक्तयो ननिश्चयाया- ऽलम्, अपित्वागमोऽपीत्यपिशब्दः / कथं पुनस्तेषामागमो निश्चयाय नालमिति, अत्रोच्यते-त एवं प्रष्टव्या:- कोऽयमागमो नाम? यदादेश: कल्पते भवतामप्कायारम्भः, त आहु:- प्रतिविशिष्टानुपूर्वीविन्यस्तवर्णपदवाक्यंसंघात आप्तप्रणीत आगम: नित्योऽकर्तृको वा ? ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्त: स निराकर्त्तव्यः / अनाप्तोऽसावप्कायजीवा-ऽपरिज्ञानात्तद्वधानुज्ञानाद्वा भवानिव। जीवत्वं चापां प्राक् प्रसाधितमेव / ततस्तत्प्रणीतागमोऽपि सद्धर्मधोदनायामप्रमाणम्, अनाप्तप्रणीतत्वत्, रथ्यापुरुषवाक्यवत्। अथ नित्यो- ऽकर्तृक: समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादम् / यत: शक्यते वक्तुंभवदभ्युपगत: समयः, सकर्तृको वर्णपदवा- क्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृ- कग्रन्थसन्दर्भवदिति / अभ्युपगम्य वा ब्रूम:-अप्रमाणमसौ, नित्यत्वादाकाशवत्, यच्च प्रमाणं तदनित्यं दृष्ट प्रत्यक्षादि- वदिति / तथा विभूषासूत्रावयवेऽपि पृष्टा न प्रत्युत्तरदाने क्षमाः, यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत् / कामाङ्गता च सर्वजनप्रसिद्धा / तथाचोक्तम्- "स्नानं मददर्पकर, कामाङ्गं प्रथमं स्मृतम्। तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः" // 1 // शौचार्थोऽपि न पुष्कलो वारिणा बाह्यमलापनयनमात्रत्वात् ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थ वारि न दृष्टं, तस्माच्छरीरवाड्नसामुकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायाऽलम् / तचवारिसाध्यं न भवति, कुतः? अन्वयव्यतिरेकसमधिगम्यत्वात्सर्वभावानाम्। न हि मत्स्यादय: तत्र स्थितामत्स्यत्वादि कर्मक्षयभाक्त्त्वे नाप्यभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभि: कर्म क्षपयन्तीति अत:स्थितमेतत्तत्समयो न निश्चयाय प्रभवतीति। तदेवं नि:सपत्नपां जीयत्वं प्रतिपाद्य तत्प्रवृत्तिनिवृत्तिविकल्पफलप्रदर्शनद्वारणोपसंजिहीर्षुः सकलमुद्देशार्थमाह एत्थ सत्थं समारंभमाणस्सइओएआरंमा अपरिण्णाया भवंति।। एत्थ सत्थं असमारंभमाणस्स इचेते आरंभा परिणाया भवंति। तं परिण्णाय मेहावी व सयं उदयसत्थं समारंभेज्जा, णेवण्णेहि उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभंतेऽवि अण्णे ण समणुजाणेज्जाजस्सेते उदयसत्थसमारंभापरिण्णाया भवंति से हु मुणी परिण्णातकम्मेत्ति बेमि। (सूत्र-३०) एतस्मिन्नप्काये शस्त्रं द्रव्यभावरूपं समारभमाणस्यैते समारम्भा बन्धकारणत्वेनाऽपरिज्ञाता भवन्ति / अत्रैवाऽप्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति / प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, तामेव प्रत्याख्या-नपरिज्ञां विशेषतोज्ञपरिज्ञापूर्विकां दर्शयति-तदुदकारम्भणं बन्धायेत्येवं परिज्ञाय मेधावी- मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत् / नैवाऽन्यानुदकशस्त्रं समारभमाणान् समनुजानीयात्, यस्यैते उदकशास्त्र-समारम्भा द्विधापरिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति। ब्रवीमीति पूर्ववत्। आचा.१ श्रु.१० ३ऊ। (10) अप्कायविहिंसननिषेध:आउक्कायं न हिंसंति, मणसा वयसों कायसा। तिविहेण करणजोएणं, संजया सुसमाहिया // 29 // आउकायं विहिंसंतो, हिंसईओ तवस्सिए। तसे अ विविहे पाणे, चक्खुसे य अचक्खुसे / / 30 / / तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं / आउकायसमारंम्भ, जावजीवाइ वज्जए||३१|दश०६ अ / (11) अप्कायस्पर्शादिनिषेध:से भिक्खू वा, भिक्खुणी वा संजयविरयपडि हयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसंवा हिमं वा महियं वा करगं वा हरितणुगं वा सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं ससणिद्धं वा कायं ससणिद्धं वा वत्थं न आमुसेज्जान संफुसेज्जा न विलेज्जा न पविलेज्जा न अक्खोडेज्जा न पक्खोडे ज्जा न आयाविज़्जा न पयाविज्जा, अन्नं न आमुसावेज्जान संफुसा वेज्जान विलावेज्जान पविलावेज्जा न अक्खोडावेज्जा न पक्खोडावेज्जा न आयावेज्जा न पयावेज्जा, अन्नं आमुसंतं वा संफुसंतं वा आविलंतं वा पविलंतं वा अक्खोडतं वा पक्खोडतं वा आयावंतं वा पयावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि / तस्स भंते! पडिक्कामामि निंदामिगरिहामि अप्पाणं वोसिरामि। (सूत्र-११) 'से भिक्खू वा' इत्यादि, 'जावजागरमाणेव' त्ति-पूर्ववदेव 'से उदगं वेत्यादि, तद्यथा-उदकंवा अवश्यायवा हिमवामहिकांवा करकंवाहरतनुं शुद्धोदकंवा। (दश)(उदकादिपदानांव्याख्या अस्मिन्नेवशब्देआदौउक्ता)