________________ आहार 551 अभिधानराजेन्द्रः भाग 2 आहार शास्त्रातिक्रान्त आहारः / / अह भंते ! सत्थातीयस्स, सत्थपरिणामियस्स, एसियस्य, वेसियस्स, समुदाणियस्स, पाणभोयणस्स, के अट्ठपण्णत्ते ? गोयमा! जेणं निग्गंथे वार निक्खित्तसत्थमुसले ववगयमालावण्णगविलेवणे ववगयचुयचइयचत्तदेहं जीवविप्पजढं अकयमकारिमसंकाप्पियणाहूयमकिय-कडमणुद्दिष्टुं नवकोडिंपरिसुद्धं दसदोसविप्पमुकं उग्गमउप्पायणेसणासु परिसुद्धं वीइंगालं वीइधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडिं अक्खोवंजणवणाणुलेवणुभूयं संजमजाया मायावत्तियं संजमभारवहणट्ठयाए विलमिव पण्णगभूएणं अप्पाणेणं आहारमाहारेइ एसणं गोयमा ! तस्यातीयस्स, सत्थपरिणामियस्स, जाव-पाणभोयणस्स, अयमढे पण्णत्ते तं चेव सेवं भंते ! भंतेत्ति || (सत्थातीतस्सत्ति) शस्त्रादायादेरतीतमुत्तीर्ण शस्त्रातीतम् एवं भूतंच तथाविधप्रयुकादिवदपरिणतमपि स्यादत आह (सत्थपरिणामियस्सत्ति) वर्णादीनामन्यथा करणेनाचित्ती-कृतस्येत्यर्थः / अनेन प्रासुकत्वमुक्तम् (एसियस्सत्ति)एषणीय-स्य गवेषणाविशुद्ध्या गवेषितस्य (वेसियस्सत्ति) विशेषेण विविधैर्वा प्रकारैरेषितंव्येषितंगृहणैषणाग्रासैषणाविशोधितं तस्य अथवा वेषो मुनिनेपथ्यं स हेतुाभे यस्य तद्वैषिकं आकारमात्रदर्शनादवाप्तं नत्वावर्जन या अनेन पुनरुत्पादनादोषापोहमाह / (समुदाणियस्सत्ति) ततस्ततो भिक्षारूपस्य किं भूतो निर्ग्रन्थ इत्याह / (निक्खित्तसत्थमुसलेत्ति) त्यक्तखङ्गादिशस्त्रमुसलः (ववगयमालावण्णगविलेवणेत्ति) व्यपगपुष्प-मालाचंदनानुलेपनः स्वरूपविशेषणे चेमे / नतुव्यवच्छेदार्थे निर्गन्थानामेवं रूपत्वादेवेति (ववगयचुयचइयचत्तदेहति) व्यपगता स्वयं पुथग्भूता भोज्यवस्तुसंभवा आगंतुका या कृत्यादयश्च्युता मृताः स्वत एव परतो वाऽभ्यवहार्यवरत्वात्मकाः पृथिवीकायिकादयः / (चइयति) त्याजिता भोज्यद्रव्यात् पृथक्कारिता दायकेन (चत्तंत्ति) स्वयमेवदायकेन त्यक्ता भक्ष्यद्रव्यात् पृथक् कृता देहाभेदविवक्षयादेहिनो यस्मात् स तथा तमाहारम् / वृद्धवायख्या तु व्यपगत ओघतश्चेतनापर्याया-दपेतश्च्युतो जीवनक्रियातो भ्रष्टश्चयावितस्तत एवाऽऽयुष्कक्षयेण भ्रंशितस्त्यक्तदेहः परित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयस्तत एषां कर्मधारयो ऽतस्तं किमुक्तं भवतीत्याह (जीवविप्पजढंति) प्रासुकमित्यर्थः (अकयमकारियमसंकप्पियमणाहूयमकीथकडमणुट्ठि) अकृतं साध्वर्थमनिर्वर्तितंदायकेन एवमकारितं दायकेनैव अनेन विशेषणद्वयेनानाधाकर्मिक उपात्तः असंकल्पितं स्वार्थ संस्कुर्वता साध्वर्थतया न संकल्पितं अनेनाप्यनाधाकर्मिक एव गृहीतः स्वार्थ मारब्धस्य साध्वर्थ निष्ठां गतस्याऽपि आधाकर्मिकत्वात् / न विद्यते आहूतमाह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवं रूपं कर्मकराद्याकरणं या साध्वर्थ स्थानान्त शदन्नाद्यानयनाय यत्र सोऽनाहूतोऽनित्यपिण्डो ऽनभ्याहृतोवेत्यर्थः / स्पर्धया वाऽऽहूतं तनिषेधादनाहूतो दायके नास्पर्धयादीयमान इत्यर्थः / अनेन भावतोऽपरिणता-भिधान एषणादोषनिषेध उक्तोऽतस्तस्तमक्रीतकृतं क्रयेण साधुदेयं न कृत मनुद्दिष्टमनौद्देशिकं (नवकोडीपरिसुद्धति) इह कोटयो विभागास्ताश्चेमा बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते / 3 / एवं न पचति / 3 / न क्रीणाति / 3 / इत्येवं रूपाः (दसदोसविप्पमुक्कंति) दोषाः शंकितम्रक्षितादयः / (उग्गममुप्पायणेसणासुपरिसुद्धति) उगमश्च आधाकादिः षोडशविधः / उत्पादना च धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा पिण्ड विशुद्धिस्त या सुष्ठु परिशुद्धो यः स उद्गमोत्पादमैषणासु परिशुद्धो ऽतस्तम् अनेन चोक्तानुक्त संग्रहः कृतः / वीतांगारादीनि क्रियाविशेषणान्यपि भवन्तिः प्रयोऽनेन च ग्रासैषणा विशद्धिरुक्ता (असुरसुरंति) अनुकरणशब्दोऽयम् एवं (अचवचवमित्यपि) (अदुयंति) अशीघ्रं (अविलंवियंति) नातिमन्थरम् (अपरिसाभिंति) अनवययोज्जितं (अक्खोवंजणवणाणुलेवणभूयंति) अक्षोपांजनं च शकटधूम्रक्षणं व्रणानुलेपनं च क्षतस्यौषधेन विलेपनं अक्षोपांजनव्रणानुलेपने ते इव विवक्षितार्थसिद्धिरसादिनिरभिष्वङ्गतासाधाद्यः सोक्षोपांजनवणानुलेपनभूतोऽतस्तं क्रियाविशेषणं वा ॥५॥(संजमजायामायावित्तियत्ति) संयमयात्रा संयमानुपालनं सैव मात्रा आलम्बनसमूहांशः संयमयात्रा मात्रा तदर्थं वृत्तिः प्रवृत्तिर्यत्राहारे स संयमयात्रामात्रावृत्तिकोऽतस्तं संयमयात्रामात्रावृत्तिक वा यथा भवति संयमयात्रामात्रा वा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रा मात्राप्रत्ययं वा यथा भवति / एतदेव वाक्यान्तरेणाह / (संजमभारवहणट्टयाएत्ति) संयम एव भारस्तस्य वहनं पालनं स एवार्थः संयमभारवहनार्थस्तद्भावस्तत्ता तस्यै (बिलंमिव एण्णगभूएणं अप्पाणेणंति) विले इव रन्ध्र इव पन्नगभूतेन सर्पकल्पेनात्मना करणभूतेन आहारमुक्त विशेषणं आहारयति शरीरकोष्ठके प्रक्षिपति / यथा किलबिले सर्प आत्मानं प्रवेशयति पार्शनसंस्पृशन्नेवं साधुर्वदनकंदरपाश्र्वानसंस्पृशन्नाहारेण तदसंचारणतो जठरबिले आहारं प्रवेशयतीति / (एसणंति) एषोऽनंतरोक्तविशेषण आहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्यार्थो ऽभिधेयः प्रज्ञप्तः / भ०७ श०१ उ० / / अनु० / वि। आहारपरिष्ठापना (परिट्ठावणा) शब्दे // भक्तपरिज्ञा तु समाध्यर्थमाहारो दीयते / (इति भत्तपरिणा) शाब्दे / युगलिनः कन्दाद्याहारा आसन् ऋषभस्वामिना-ऽन्नाहारिणः कृताः / सूत्रं / जे भिक्खू पिउमंदपलासयं वा पडोलपलासयं वा विल्लपलासयं वा सीउदगवियटेण वा उसिणोदगवियटेण वा संफाणिय संफाणिय आहारेइ आहारंतं वा साइज्जइ / / 14 / / पिचुमंदो निंबो पलासं पत्तं संफाणियंति धोविउं अहवा संफोडिउं मेलितुमित्यर्थः। गा-आहारमणाहारस्स, मग्गणा णिमसा कता होति / निंबपडोलादीहि, दियराओ चउक्कभयणाओ / 38 / को आहारो को वा अणाहारो एतेहिं लिंबपडोलाइएहिं मग्गणा कता भवति आहार आणाहारे दियरे वा रातिं चउभंगो दियागहियं दियाभुत्तं एवं च भंगो // गा.-जा हट्ठस्साहारो, चउविहो परियासियं तं तु /