________________ आहार 550 अभिधानराजेन्द्रः भाग 2 आहार रूपमशनस्य सव्यंजनस्य तक्र शाकादिसहितस्याधारं कुर्यात् तथा द्वौ भागौ द्रव्यस्य पानीयस्य षष्ठं तु भार्ग वायु प्रविचरणार्थ न्यूनं कुर्यात् इह कालापेक्षया तथा तथा आहारस्य प्रमाणं भवति / कालश्च विधा तथा चाहसिओ उसिणो साहारणो य, कालो तिहा मुणेयवो / साहारणंमि काले, तत्थाहारे, इमामत्ता // त्रिधा कालो ज्ञातव्यस्तद्यथा शीत उष्णः साधारणश्च तत्र तेषु कालेषु मध्ये साधारणे काले आहारविषया इयमनंतरोक्ता मात्रा प्रमाणम् // सीए दवस्स एगा, भत्ता चत्तारि अहव दो पाणी / उसिणे दवस्स दोन्नि उ, तिन्निव सेसा उ भत्तस्स / / शीते अतिशयेन शीतकाले द्रव्यस्य पानीयस्यैको भागः कल्पनीयश्चत्वारि भक्तस्य / मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ तस्तु भागा भक्तस्य / वा शब्दो मध्यमशीतकाल संसूचनार्थः / तथा उष्णे मध्यमोष्णकाले द्वौ भागौ द्रव्यस्य पानीयस्य कल्पनीयौ शेषास्तु त्रयो भागाः भक्तस्य। अत्युष्णे च काले त्रयो भागा द्रव्यस्य शेषौ द्वौ भागौ भक्तस्य / वा शब्दोऽत्रात्युष्णकालसंसूचनार्थः सर्वत्र च षष्ठो भागो वायुप्रविचरणार्थमुक्तोऽतो मोक्तव्यः / संप्रति भागानां स्थिरचरविभागप्रदर्शनार्थमाह / एगो दवस्स भागो, अवट्ठितो भोयणं दो भागा।। वडुंति व हाइंति व, दो दो भागा उ एक्केके ||3|| एको द्रव्यस्य भागोऽवस्थितो द्वौ भागौ भोजनस्य शेषौ तौ द्वौ भागौ एकैकस्मिन् भक्त पाने चेत्यर्थः / वर्द्धते वा हीयेते वृद्धिं वा व्रजेते हानिंवा व्रजेते इत्यर्थः / तथा हि / अतिशीतकाले द्वौ भागौ भोजनस्य वर्धते अत्युष्णकाले च पानीयस्य / अत्युष्णकाले चद्वौ भागौ भोजनस्य हीयेते अतिशीतकाले पानीयस्य / एतदेव स्पष्टं भावयति // एत्थ उतइयचउत्था, दोन्निय अणवट्ठिया भवेभागा / पंचमछटो पठमो, विइओ विअवट्ठिया भागा // 1 // आहारविषयौ तृतीयचतुर्थी भागावनवस्थितौ तौ ह्यति-शीतकाले भवतोऽत्युष्णकाले चन भवतः / तथाऽयं पानविषयः पंचमो भागो यश्च वायुप्रविचरेणार्थषष्ठो भागोयौ च प्रथमद्वितीयावाहारविषयावेतेसर्वेऽपि-- भागा अवस्थितान कदाचिदपि भवंतीतिभावः / तदेवमुक्तं प्रमाणद्वयम् / पिं / सूत्र०१ श्रु०७अ | "आहारार्थं कर्म कुर्यादनिन्द्यं, स्यादाहारः प्राणसंधार-णार्थ / / प्राणाधार्यास्तत्त्वजिज्ञासनार्थ, तत्त्वज्ञेयं येन भूयो न भूयात्" / / ||1|| आचा० अ०३ उ०१॥ प्रणीताहारभोजनं न युक्तं ब्रह्मचारिण इति (बम्हचेरसमाहि) शब्दे / स्तोकाहारफलं (पडिक्कमण) शब्दे॥ आहारस्यांगारधूमादिदोषाः (अंगारधूमादि) शब्देषु उक्ताअपि संग्रहेणाह।। अह मंते ! सइंगालस्स सधूमस्स संजायेणादासेदुट्ठस्स | पाणभोयणस्य के अटे पण्णत्ते ? गोयमा ! जेणं निग्गंथे वा निग्गंथी वा फासुएसणिज्जं असणपाण२ पडिग्गहेत्ता समुच्छिए गिद्धे गढिए अज्जोववण्णए आहारं आहारेइ एसणं गोयमा ! सइंगाले पाणभोयणे जेणं निग्गंथे वा निग्गंथी वा फासुएसणिलं असण 4 पडि ग्गहेत्ता महया अप्पत्तियकोहकिलामं करेमाणे आहारमाहारेइ एसणं गोयमा! सधूमे पाणमोयणे जेणं निग्गंथे वाजाव पडिग्गहेत्ता गुणुप्पायणहेउं अण्णदवेणं सद्धिं संजोएत्ता आहारमाहारेइ एस णं गोयमा ! संजोयणादोसदुढे पाणभोयणे एएणं गोयमा ! संशालस्स सधूमस्स संजोयणादोसदुट्ठस्स पाणभोयणस्स अट्टे पण्णत्ते / / (संइगालस्सत्ति) चारित्रेन्धनमगारमिवयः करोति भोजनविष यरागाग्निःसोऽङ्गार एवोच्यते तेन सह यद्वर्तते पानकादितत्साझारं तस्य (सधूमस्सत्ति) चारित्रेन्धनधूमहेतुत्वाद्भूमो द्वेषस्तेन सह यत्पानकादि तत्सधूमं तस्य (संजोयणादोसदुट्ठस्सत्ति) संयोजना द्रव्यस्य गुणविशेषार्थ, द्रव्यान्तरेण योजनं स इव दोषस्तेन दुष्टं यत्तत्तथा तस्य (जेणंति) विभक्तिपरिणामाद्यमाहारमाहारयन्तीति संबन्धः (मुच्छिएत्ति) मोहवान् दोषानभिज्ञत्वात् (गिद्धेत्ति) तद्विशेषाकांक्षावान् (गढिएत्ति) तद्गतस्नेहतन्तुभिः संदर्भितः (अज्जोववण्णत्ति) तदेकाग्रतां गतः (आहारमाहारे त्ति) भोजनं करोति (एसणंति) एष आहारः साङ्गारं पानभोजनम् (महयाअप्पत्तियंति) महदप्रीतिकमप्रेम (कोहकिलामंति) क्रोधात्क्लमः शरीरायासः कोधत्क्लमोऽतस्तं (गुणुप्पायणहेउ-ति) रसविशेषोत्पादनायेत्यर्थः // भ०७ श०१ उ० / __ उत्तरगुणानधिकृत्याह || सुद्धे सिया जाए न दूसएज्जा। अमुच्छिएण ज्जुववन्नएवा // घितिमं विमुक्केण य पूयणट्ठि। न सिलोयगामीय परिष्वएज्जा // 23 // निक्खम्म गेहाउ निरावकंखी / कार्यवि उस्सेज नियाणछिन्ने / णो जीवियं णो मरणावकंखी। चरेन्ज मिक्खू वलयाविमुक्केत्तिबेमि ||24|| (सुद्धेसिया इत्यादि) उद्गमोत्पादनैषणाभिः शुद्ध निर्दोषे स्यात् कदाचिद्याते प्राप्ते पिंडे सति साधू रागेद्वषाभ्यां न दूषयेत् / उक्तं च "बायालीसेसणसं, कडंमि गहणमि जीव नहु च्छलिओ / इण्हिं जह न छलिजसि, भुंजतो रागदोसेहिं" तत्रापि रागस्य प्राधान्यख्यापनायाह। न मूर्छितोऽमूर्छितः सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति / तथा नाऽध्युपपन्नस्तमेवाहारं पौनः पुन्येनानभिलषमाणः केवलं संयम यात्रापालनार्थमाहारमाहारयेत् प्रायो विदितवेद्यस्यापि विशिष्टा-हारसन्निधावभिलाषातिरेको जायत इत्यतोऽमुर्छितोऽनध्यु पपन्न इति च प्रतिषेधद्वयमुक्तम् / उक्तं च " भुत्तभोगो पुरा जो वि, गीयत्थो वि य भाविओ। संते साहारमाईसु, सोविखिप्प तु खुज्जइ"|| सूत्र० श्रु.१ अ० 10 //