________________ आहार 549 अभिधानराजेन्द्रः भाग 2 आहार तवहेउ चउत्थाई, जाव छम्मासिओ तवो होई। छटुं शरीरवोच्छे-यणट्ठया होइ अणाहारो। तपोहेतोस्तपः करणनिमित्तं न भुंजीत तपश्चतुर्थादिकं चतुर्थादारभ्य तावद्भवति यावत्पाण्मासिकं षण्मासप्रमाणं परतो भगवद्वर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात् षष्ठं पुनः प्रागुक्तविधिना चरमकाले शरीरव्यवच्छेदनार्थ भवत्यनाहारः / तदेव-मुक्तं कारणद्वारं पिं / उत्तः / अ०३०।। जह कारणं तु तंतू, पडस्स तेसिंच हॉति पम्हाई। नाणाइतिगस्सेवं, आहारो मोक्खनेमस्स // यथा पटस्य तन्तवः कारणं तेषामपिच कारणं पक्ष्माणि भवन्ति / एवमेव प्रकारेण ज्ञानादित्रिकस्य (मोक्खनेमस्सत्ति) नेमशब्दो देश्यः कार्याभिधाने रूढः ततो मोक्षो नेमः कार्य यस्य तस्य कारणं भवत्याहारः / पिं / निचू.१ उ. ! आहारप्रमाणद्वारम् बत्तीसं किर कवला, आहारोकुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला // पुरुषस्य कुक्षिपूरक आहारो मध्यप्रमाणो द्वात्रिंशत्कवलः किलेत्याहारस्य मध्यमप्रमाणतासूचकः / महिलायाः कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिकवलः / नपुंसकस्य चतुर्विंशतिः स चात्र न गृहीतो नपुंसकस्य प्रायः प्रव्रज्यनर्हत्वात् कवलानाञ्च प्रमाणं कुकुट्यण्डम् ! कुक्कुटी च द्विधा / द्रव्यकुक्कुटी भावकुक्कुटी च / द्रव्यकुकुट्यपि द्विधा / उदरकुक्कुटी गलकुकुटी च / तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनंना ऽप्याध्मातं भवति स आहार उदरकुकुटी। उदरपूरक आहारः कुक्कुटी च उदरकुकुटीति मध्यमपदलोपिसमासाश्रयणात् / तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत्प्रमाणः कवलः स्यात्तथा गलः कुक्कुटीव गलकुक्कुटीगल एवं कुक्कुटीत्यर्थः / तस्यान्तरालमण्डकम्। किमुक्तं भवति / अविकृतस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति तावत्प्रमाणं कवलमश्नीयात् / अथवा शरीरमेव कुक्कुटी तन्मुखमण्डकं तत्राक्षिकपोलभुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति तत्प्रमाणम् / अथवा कुकुटी पक्षिणी तस्या अंडकं प्रमाणं कवलस्य / भावकु कुटी येन आहारेण भुक्तेन न न्यूनं नाऽप्यत्याध्मातमुदरम्भवति / धृतिञ्च समुद्वहति / ज्ञानदर्शनचारित्राणाञ्च वृद्धिरुपजायते / तावत्प्रमाण आहारो भावकुक्कुटी। अत्र भावस्य प्राधान्यविवक्षणादेष प्रागद्रव्य-कुक्कुट्यप्युक्तः / इह भावकुक्कुटी उक्तः / तस्य द्वात्रिंशत्तमोभागो अण्डकप्रमाणो तत्कवलस्य / एत्तो किणईहीणं, अद्धं अद्धद्धगं च आहारं / साहुस्स वेंति धीरा, जायामायं च ओमं च // एतस्मात्द्वात्रिंशत्कवलप्रमाणादाहारात् (किणई इति) किञ्चिन्मात्रया एकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा कवलैः खाधोहीन हीनतरं यावदर्द्धमर्द्धस्याऽप्यर्द्धमाहारं यात्रामात्र माहारं धीरास्तीर्थकृदादयो ब्रुवते न्यूनञ्च एष यात्राहार एष एव वाऽव-माहार इति भावः / पिं० / / ___ संप्रति प्रमाणदोषानाह || पगामं च निगामंच, पाणीयं भत्तपाणमाहारे / अइबहुयं अइबहुसो, पमाणदोसो मुणेयव्यो / यः कामं निकामं प्रणीतं वा भक्तपानमाहारयति तथाऽतिबहु - कमतिबहुशश्च तस्य प्रमाणदोषा ज्ञातव्याः / / संप्रति प्रकामादिस्वरूपमाह // वत्तीसाइपरेण, पगाम निश्चतमिव उ निकामं / जं पुण गलितसिहं, पणीयमिति तं दुहा विति // द्वात्रिंशदादिकवलेभ्यः परेण परतोभुञानस्य यद्भोजनंतत्प्रकामभोजनं तदेव तत्प्रमाणातीतमाहारं नित्यन्तं प्रतिदिवसमतो निकामभोजनम्। यत्पुनर्गलितस्नेहं भोजनं तत्प्रणीतं बुधास्तीर्थकृदादयः ब्रुवते / तथाअइबहुयं अइबहुसो, अइप्पमाणेण भोयणं भुत्तं / हाएज व वामेलव, मारेन व तं अजीरंतं // अतिबहुकं वक्ष्यमाणस्वरूपमतिबहुशोऽनेकशोऽमृष्यता सता भोजनं भुक्तं सत् हादयेत् अतीसारं कुर्यात् तथा वामयेत्यद्वातदजीर्यन्मारयेत् / तस्मान्न प्रमाणातिक्रमः कर्तव्य इति / संप्रति अतिबह्वादिस्वरूपमाह। बहुयातीयमइबहु, अइबहुसो तिन्निसिनि परेणं / तंचिय अइप्पमाणं, मुंजेलइ वा अतिप्पंतो // बहुकातीतमतिशयेन बहु अतिशयेन निजप्रमाणाभ्यधिकामित्यर्थः / तया दिवसमध्ये यस्त्रीन् वारान् भुंक्ते त्रिभ्यो वा वारेभ्यः परतस्तद्भोजनमतिबहुशः / तदेव च वारत्रयातीत-मतिप्रमाणमुच्यते अइप्पमाणे त्यवयवो व्याख्यातः / अस्यैव प्रकारांतरेण व्याख्यानमाह // भुक्ते यदा अतृप्यन् एष अइप्प-माण इत्यस्य शब्दस्यार्थः / अइप्पमाण इत्यत्र च शानच् प्रत्ययस्ताच्छील्यविवक्षायां यद्वा प्राकृतलक्षणवशादिति। संप्रति प्रमाणयुक्तहीनतरादिभोजने गुणानाह / हियाहारा मियाहारा, अप्पाहारा य जे नरा / न ते विजा चिगिच्छंति, अप्पाणं ते तिगिच्छगा / / हितं द्विधा द्रव्यतो भावतश्च द्रव्यतोऽविरुद्धानिद्रव्याणि भावत एषणीयं तदाहारयति ये ते हिताहाराः / मितं प्रमाणो-पेतमाहारयन्तीति मिताहाराः द्विात्रिंशत्कवलप्रमाणा-दप्यल्पमल्पतरं वा आहाराः / सर्वत्र वा बहुव्रीहिःहित आहारोयेषां ते हिताहारा इत्यादि एवंविधाये नरास्तान् वैद्यान चिकित्संति हितमितादिभोजनेनतेषां रोगस्यैवा संभवात् किं त्वेते स्वत एव रोगोत्थानप्रतिषेधकरणेनाऽऽत्मनैवात्मनस्ते चिकित्सकाः। सांप्रतमहितहितस्वरूपमाह || तेल्लदहिसमा जोगा, अहितं उखीरदहिकंजियाणं च / पत्थं पुण रोगहरं, विनासग होइ रोगस्स / दधितैलयोस्तथा क्षीरदधिकांजिकानां च यः समायोगः सोऽहितो विरुद्ध इत्यर्थः / तथा चोक्तं शाक्रमूलफलपिण्या-ककपित्थलवणैः सह करीरदधिमत्सयैश्च प्रायः क्षीरं विरुध्यतेइत्यादिअविरुद्धद्रव्यमेलनं पुनः पथ्यं तच रोगहरं प्रादूर्भूत रोगविनाशकरं न च भाविनो रोगस्य हेतुः कारणम् / उक्तंच "अहिताशनसम्पर्को, बहुरोगोद्भवो यतः / तस्मात्तदहितं पथ्यं, न्याय्यं पथ्यनिषेवणम्"। सांप्रतं मितं व्याचिख्यासुराह / अट्ठमसणस्स सव्वं, जणस्स कुजा दवस्स दो भागे। वाउपवियारणहूं, छभायउऊणयं कुजा | इह किल सर्व सुन्दरं षड् भिर्भागविभज्यते तत्राद्धं भागत्रय