SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आहार 548 अभिधानराजेन्द्रः भाग 2 आहार रन नातिक्रामत्याज्ञां पुष्टिकारणत्वादन्यथात्वतिक्रामत्येव रागा दिभावा त्तद्यथा वेदनेत्यादिगाथा वेदनाच क्षुद्वेदनावैयावृत्यं चाचार्यादिकृत्यकरणं वेदना वैयावृत्यं तत्र विषये भुञ्जीत वेद नोपशमनार्थ वैयावृत्यकरणायर्थं चेति भावः ई गमनं तस्याः विशुद्धियुगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीर्या-विशुध्यर्थे इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं बुभुक्षितो हीर्या शुद्ध्यावशक्तः स्यादिति तदर्थमिति च समुच्चये संयमः प्रेक्षोत्प्रेक्षाप्रार्मजनादिलक्षणस्तदर्थं तथेति कारणान्तरस मुच्चये प्राणा उच्छ्वासादयोबलंवा प्राणास्तेषां तस्य वा वृत्तिः पालनं तदर्थ प्राणसंधारणार्थमित्यर्यः षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुत्प्रेक्षार्थमित्यर्थः इत्येतानि षट् कारणानीति स्था०६ ठाणा / अधुनाकारणे द्वारमाह / छहिं कारणेहिं साहू, आहारेन्तो य आयरइ धम्म / छहि चेव कारणेहिं, नहिन्तो वि यायरइ / / षभिर्वक्ष्यमाणस्वरूपैः साधुराहारयन्नप्याहारमाचरति धर्म षड्भिरेवकारणे वक्ष्यमाण स्वरूपै भोजनकारणनिबंधनैः (निहिन्तो वित्ति) परित्यजन्नप्याचरतिधर्मतत्रयैः षड्भिः कारणैराहारमाहारयति तानि निर्दिशति "वेयण वैयावच्चे, इरियट्ठाए य संजमहाए / तहपाणिवत्तियाए, छटुं पुण धम्म चिन्ताए" इह पदैकदेशे पदसमुदायोपचारात् (वेयणत्ति) क्षुद्वेदनोपशमनाय तथा आचार्यादीनां वैयावृत्तिकरणाय तथा ईर्यापथि संशोधनार्थ तथा प्रेक्षादिसंयमनिमित्तं तथा प्राण-प्रत्ययार्थ प्राणसंधारणार्थं षष्ठं पुनः कारणं धर्मचिन्ताभिवृद्धार्थ भुज्जीतेति क्रियासंबन्धः / एनामेव गाथां विवृण्ववन्नाह / नत्थि छुहाए सरिसा, वियणा मुंजेज तप्पसमणट्ठा / छामो वेयावचं,न तरइ काउं अओ मुंजे // इरियं न विसोहेई, पेहाईयं च संजमं काउं / थामो वा परिहायई, गुणनमणुप्पेहासु य असुत्तो / नास्ति क्षुधाया बुभुक्षाया सदृशी वेदना उक्तं च "पंथसमानस्थि जरा, | दालिद्दसमो य परिभवो नत्थि / मरणसमं नत्थिभयं, खुहासमा वेयणा नत्थि // तनत्थि जन्न वाहइ, तिलतुसमित्तंपि यए कायस्सासन्निज्ज सव्वदुहाई, देंति आहारहिययस्स" ततस्तत्प्रशमनार्थं भुंजीत तथा क्षामो बुभुक्षितः सन् वैयावृत्त्यं न शक्नोति कर्तु / तथाचोक्तं / "गलइ बलं उच्छाहो, अवेइ सिढिले इसयलवावारे / नासइ सत्तं अरई, विवट्ट असणरहियस्स" अतो वैयावृत्त्यकरणाय भुंजीत / तथा बुभुक्षितःसन्नीपिथे न शोधयत्यशक्तत्वादतस्तच्छोधननिमित्तं वा अश्नीयात् तथा क्षुधातः सन् न प्रेक्षादिकं संयमं विधातुमलमतः संयमाभिवृद्ध्यर्थं भुंजीतं तथा स्थामं बलं प्राण इत्येकार्थः ततः बुभुक्षितस्य परिहीयते परिहानि याति / ततोऽश्नीयात् तथा गुणनं ग्रन्थपरावर्तनमनुप्रेक्षा चिन्ता तयोरुपलक्षणमेतत् वाचनादिष्वपि बुभुक्षितः सन् असक्तोऽसमर्थो भवति ततोऽश्नीयात इत्यंभूतैश्च षभिः कारणैः समयैरन्यतमेन वा कारणेनाहारयन्नति क्रामति / संप्रत्यभोजनकारणप्रतिपादनार्थं संबंधगाथामाह / अहवं न कुआहारं, छहि ठाणेहिं संजओ / पच्छा पच्छिमकालाम्मि, कार अप्पखमं खमं // अथवा षड्भिः स्थानैर्वक्ष्यमाणस्वरूपैः संयतः आहारं न कुर्यात् तत्र विचित्रा सूत्रगतिरिति षष्ठं शरीरव्यवच्छेदलक्षणं कारणं व्याख्यानयति (पच्छा इत्यादि) पश्चात् शिष्यनिष्पादनादि सकलकर्तव्यतानंतरे पश्चिमे काले पाश्चात्त्ये वयसि (अप्पक्खमंति) संलेखनाकरणेनात्मानं क्षपयित्वा यावजीवमशनप्रत्याख्या-नकरणस्य क्षमं योग्यमात्मानं कृत्वा भोजनं परिहरेन्नान्यथा। एतेन शिष्यनिष्पन्नाद्यभावे प्रथमेवा द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गमुपदर्शयति / पिंड // (भावत एवाहरेदिति अस्मिन्नेव शब्द।) आहारत्यागकारणानि / छर्हि ठाणेहिं समणे निग्गंथे आहारं वोच्छिदमाणे णाइकमइ तंजहा "आतंके उवसग्गे, तितिक्खणे बंभचेरगुत्तीए / पाणिदया तवहेउं, सरीरवोच्छेयणट्ठाए" (वोच्छिंदमाणेत्ति) परित्यजन् आतंके ज्वरादावुपसर्गे राजस्वजनादिजनिते प्रतिकूलस्वभावे तितिक्षणे अधिसहने कस्याः ब्रह्मचर्यगुप्तेः मैथुनव्रतसंरक्षणस्याहारत्यागिनो हि ब्रह्मचर्य सुरक्ष स्यादिति / प्राणिदया च संपातिम-त्रसादिसंरक्षणं / तपश्चतुर्थादि षण्मासान्तं प्राणिदया तपस्तच तद्धेतुश्च प्राणिदया तपो हेतुस्तस्मात् प्राणिदया तपो हेतोर्दयादिनिमित्तमित्यर्थ-स्तथा शरीरव्यवच्छेदार्थ देहत्यागाय आहारं व्यवच्छिन्दन्ना-तिक्रामत्याज्ञामिति प्रक्रम इह गाथे। "आर्यको जरमाई, रायासन्नाइगयवसम्गे / बंभवयपालणट्टा, पाणिदया वासमहि-याई // 1 // तवहेउ चउत्थाइ, जाव य छम्मासिओ तवो होइछिटुंसरीरवोच्छे यणट्ठयाहोंति अणाहारोत्ति // 2 // " स्था०६ ठा०॥ संप्रत्यभोजनकारणानि निर्दिशति / आयंके उवसग्गे, तितिक्खए बंभचेरगुत्तीस / पाणिदया तवहेउ,शरीरवोच्छेयणट्ठाए // आतंकेज्वरादावुत्पन्ने सतिन मुंजीत / तथा उपसर्गेराजस्वजनादिकृते देवमनुष्यतिर्यक्कृत वा संजाते स ति तितिक्षार्थ मुपसर्गसहनार्थं तथा ब्रह्मचर्यगुप्तिस्विति / अत्र षष्ठ्यर्थे सप्तमी / ततोऽयमर्थः ब्रह्मचर्यगुप्तीनां परिपालनाय तथा-प्राणिदयार्थ तथा तपोहतोस्तपः करणनिमित्तं तथा चरमकाले शरीरव्यवच्छेदार्थ सर्वत्रनभुंजीतेति क्रियासंबन्धः / एनामेव गाथां विवृण्वन्नाह !! आयंको जरमाई,रायासन्नाइ गय उवसग्गे / बंभवयपालणहा, पाणिदया वासमहियाई // आतंको ज्वरादिस्तस्मिन्नुत्पन्ने सति न भुंजीत यत उक्तं " बलावरोधिनिर्दिष्टं ज्वरादौ लंघनं हितं / कृतेऽनिलसमक्रोध शोककामक्षतज्वरान., राजस्वजनादिकृते उपसर्गे यद्वा देव मनुष्यतिर्यकृते उपसर्गे जाते सति तदुपशमनार्थ नाऽश्नीयात् / तथा मोहोदये सति ब्रह्मव्रतपालनार्थं न भुंजीत भोजननिषेधेहि प्रायो मोहोदयोविनिवर्तते / तथा चोक्तम् // "विषया विनिवर्तन्ते, निराहारस्य देहिनः / रसवऊं रसोऽप्येवं, परंट्टष्ट्रा निवर्तते" / तथा / वर्षे वर्षति मिहिकायां वा निपतन्त्यां प्राणिदयार्थ नाश्री-यात् / आदिशब्दात् सूक्ष्ममंडूकादिसंसक्तायां भूमौ प्राणि-दयार्थमटनं परिहरन्न भुञ्जीत।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy