________________ आहार 541 अभिधानराजेन्द्रः भाग 2 आहार रकः स्यादनाहारक इति नवरमत्र पृथिव्यादिविषयसूत्रन्न वक्तव्यं तेषां सम्यग्दृष्टित्वायोगात् उभयाभावो (पुढवाइएसु) इति वचनाद्रहुवचन-- विषयसूत्रं / सामान्यतो जीवपदे आहारका अपि अनाहारका अपीत्येष एव भंगः उभयेषामपि सदा सम्यग्द्रष्टीनां बहुत्वेन लभ्यमानत्वात् / नैरयिकभवनपतितिर्यक्रपंचे-न्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषु प्रत्येकं भंगत्रिकं। तद्यथा कदाचित्सर्वेत्याहार का एव 1 कदाचिदाहारका एकश्चानाहारकः२ कदाचिदाहारका अनाहारकाश्च 3 द्वित्रिचतुरिन्द्रियेषु नो षड्भंगाः / ते च प्राग्वद्भावनीयाः / द्वीन्द्रियादीनां च सम्यग्द्रष्टित्वमपर्याप्तावस्थायां सम्भवति / सास्वादनसम्य-कत्वापेक्षया द्रष्टव्यं / सिद्धास्त्वनाहारकाः / एतेषां क्षायिक-सम्यक्त्वयुक्तत्वात्। तथा चाह (वेइंदियतेइंदियचतुरिदिएसु छ भंगा सिद्धा अणाहारगा अवसेसाणं तियभंगो) मिथ्यादृष्टिष्वपि एकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति वक्तव्यं / बहुवचने जीवपदे पृथिव्यादिपदेषु च प्रत्येकमाहारका अपीति उभयेषामपि सर्वदैव तेषु पदेषु बहुत्वेन लभ्यमानत्वेनशेषेषुतु सर्वेषु स्थानेषु भंगत्रिकं सिद्धसूत्रं चात्र न वक्तव्यं / सिद्धानां मिथ्यात्वापगमादेतदेवाह / / " मिच्छादिट्ठिसुजीवेगिदियवज्जो तियभंगो सम्मामिच्छदिट्ठीणं भंते ! जीवे" || इत्यादि प्रश्रसूत्रं सुगमं / भगवानाह / गौतम! आहारको नो अनाहारकः कस्मादिति चेदुच्यतेइह संसारिणामनाहारकत्वं विग्रहगतौ न सम्यग् मिथ्यादृष्टिर्विग्रहगत्यभावतोऽनाहारकत्वाभावः। एवं चतुर्विंशतिदण्डकक्रमेण सर्वत्रापि वक्तव्यं / नवरमेकेन्द्रियविकलेन्द्रिया न वक्तव्यास्तेषां सम्यग् मिथ्याष्टित्वासंभवात् / एवं बहुवचनेऽपि वक्तव्यं तद्यथा।। *सम्मा मिच्छ दिट्ठीणं मंते ! जीवा किं आहारगा ! गोयमा ! आहारगा नो आणाहारगा सम्मामिच्छदिट्ठीणं भन्ते ! नरेइया किं आहारगा अणाहारगा? गोयमा ! आहारगा नो अणाहारगा / एवमेगिंदियविंगलिंदियवजा जाव वेमाणिया ||* इति // गतं दृष्टिद्वारम् / / सम्प्रति संयतद्वारम् / / संजएणं भंते! किं आहारए अणाहारए? गोयमा! सिथ आहारए सिय अणाहारए एवं मणुस्से वि / पुहुत्तेणं तियभंगो असंजए पुच्छा, गोयमा ! सिय आहारए सिय अणाहारए पुहुत्तेणं जीवेगिंदियवजो तियभंगो संजतासंजतेजीवे पंचिंदियतिरिक्खजोणिए मणूसे एते एगत्तेण विपुहत्तेण वि आहारगा नो अणाहारगा नो संजते नो असंजए नो संजयासंजए जीवे सिद्धे य एते एगत्तपुहत्तेण विनो अहारगा अणाहारगा // संयतत्वं मनुष्याणामेव तत्र द्वे पदे / तद्यथा / जीवपदं मनुष्यपदश्च / तत्र जीवपदे सूत्रमाह (संजएणं भंते ! जीवे इत्यादि) सुगमं नवरं / अनाहारकत्वं केवलिसमुद्घातावस्थायाम-योगित्वावस्थायां वेदितव्यं शेषकालमाहारकत्वं / एवं। (मणुस्सेवित्ति) एवं मनुष्यविषयं सूत्रं वक्तव्यं / तद्यथा / (संजएणं भते! मणूसे किं आहारए अणाहारए ? गोयमा! सिय आहारए सिय अणाहारए) भावनान्तरमेवोक्ता (पुहुत्तेणं तिय-भंगोत्ति) पृथक्त्वे न बहुवचनेन जीवपदे मनुष्यपदे च प्रत्येकं भंगत्रिकं / तचैवं / सर्वेऽपि तावन्द्भवेयुराहारका एष भंगो यदावं कोऽपि केवलिसमुद्धातमयो गित्वं वा प्रतिपन्नो भवति वेदितव्यः / अथवा आहारकाश्चानाहारकश्च एष एकस्मिन् केवलिनिसमवहतेशैलेशीगते वा प्राप्यते अथवा आहारकाश्च अनाहारकाश्च एषु बहुषु केवलिषु समवहतेषु शैलेशीगतेषु वा लभ्यते। असंयतसूत्रे एकवचने सर्वत्र स्यादाहारक इति वक्तव्यं / बहुवचने जीवपदे पृथिव्यादिषु च पदेषु प्रत्येकमाहारकाअनाहारका अपि इत्येष भङ्गः / शेषेषु तु नैरयिकादिषुस्थानेषु प्रत्येकं भंगत्रिक संयतासंयतदेशविरतास्तेच तिर्यक्पंचेन्द्रियामनुष्या वानशेषाः शेषाणां स्वभावतएव देशविरतिपरिणामाभावादेव चैतेषांत्रीणि पदानि / तद्यथा / सामान्यतो जीवपदं तिर्यक्पञ्चेन्द्रियपदं मनुष्यपदचैतेषु त्रिष्वपि स्थानेषु एकवचने बहुवचने च आहारका भवन्ति / भवान्तरगतः केवलिसमुद्घाताद्यवस्थासु च देशविरतिपरिणामाभावात् नो संयतो नो ऽसंयतो नो संयतासंयतो / गतं संयतद्वारम् / तचिंतायांद्वेपदे / तद्यथा / जीवपदं सिद्धपदश्च / उभयत्रा ऽप्येकवचने बहुवचने चानाहारकत्वमेववक्तव्यं नत्वाहारकत्वम् / सिद्धानाम-नाहारकत्वात्।। सम्पत्ति कषायद्वारम्॥ सकसाईणं भंते ! जीवे किं आहा. अणा. सिय आहा. सिय अणाहा. एवं जाववैमाणिए पुहत्तेणं जीवेगिंदियवज्जो तियमंगो / कोहकसाईसु जीवाईसु एवं चेव नवरं देवेसु छमंगा माणकसाईसु मायाकसा ईसु देवणेरइएसु छभंगा अवसेसाणं जीवेगिंदियवञ्जोतियमंगो / लोभकसाईसु नेरइएसु छभंगा। अवसेसेसु जीवेगिंदियवजो तियमंगो अकसाई जहा नो सन्नी नो असन्नी। (सकसाईणं भंते ! जीवे ) इत्यादि // एकवचनविषयं सूत्रं सुगमं / बहुवचने (जीवेगिंदियवज्जो तियभंगोत्ति) जीवपदे पृथिव्यादिषु च पंचसु पदेषु प्रत्येकं आहारका अपि अनाहारका अपि वक्तव्यं / उभयेषामपि सकषायाणां सदैव तेषु स्थानेषु बहुत्वेन लभ्यमानत्वात्। शेषेषुतुस्थानेषु भंगत्रिकं / कोहकसाए एवंचेवत्ति क्रोधकषाय्यपि एवमेव सामान्यतः सकषायवदवसेयः / तत्रापि जीवपदे पृथिव्यादि पदेषु चाभङ्गक शेषेषु तु स्थानेषु भंगत्रिकमिति भावः / किं सर्वेष्वपि शेषेषु स्थानेषु भंगत्रिकं नेत्याह / (नवरं देवेसुछ भंगा) देवा हि स्वभावत एवं लोभबहुला भवन्ति / न क्रोधादिबहुलाः / ततः क्रोधकषायिण एकादयोऽपि लभ्यन्ते। इति षड्भङ्गास्तद्यथा / कदाचित्सर्वेऽप्याहारका एव क्रोधकषायिण एकस्यापि विग्रहगत्यापन्नस्यालभ्यमानत्वात् 1 कदाचित्सर्वेऽप्यनाहारका एकस्यापि क्रोधकषायिणस्ततआहारकस्या-प्राप्यमाणत्वात् क्रोधोदयो हि मानाद्युदयविविक्त एवेह विवक्ष्यते / न मानाद्युदयसहितोऽपि तेन क्रोधकषायिणः ततः कदाचिदाहारकस्य सर्वथाऽप्यभावः // 2 // तथा कदाचिदेक आहारक एकोऽनाहारकः // 3 // कदाचिदेक आहारको बहवोऽनाहारकाः // 4 // कदाचिद्हव आहारका एकोऽनाहारकः // 5 // कदाचिद्र