SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आहार 540 अमिधानराजेन्द्रः भाग 2 आहार वायवः प्रत्येकमसंख्येयाः / प्रतिसमयं वनस्पतयो ऽनन्ताः सर्वकालं लभ्यन्ते इति तेऽपि बहवः सिद्धाः द्वीन्द्रियत्रीन्द्रियचतुरिंद्रियतिर्यक्पञ्चेन्द्रियेषु प्रत्येकं भंगत्रिकं / तद्यथा / आहारका अथवा आहारकाश्चानाहारकश्च / अथवा आहारकाश्चानाहरकाश्च तत्र द्वीन्द्रियान् प्रतिभावना यदा द्वीन्द्रिय एकोऽपि विग्रहगत्यापन्नो लभ्यते तदा पूर्वोत्पन्नाः सर्वेऽप्याहारका इति प्रच्छमो भंगः / यदा पुनरेको विग्रहगत्यापन्न स्तदा पूर्वे सर्वेऽप्याहारका उत्पद्यमानस्त्वेकोऽनाहारक इति / यदा तूत्पद्यमाना अपि बहवो लभ्यन्ते तदा तृतीयः / एवं त्रीन्द्रियचतुरिन्द्रियतिर्यक् पञ्चेन्द्रियेष्वपि भावना कार्या / मनुष्यव्यंतरेषु षड्भंगाः / ते च नैरयिकेषु च भावनीयास्तथा-चाह / "बेइंदियजावपंचिंदियतिरिक्खजोणिएसु / तियभंगो मणूसवाणमंतरेसु छभंगा // 1 // " इति / नो संज्ञी नो असंज्ञी च केवली सिद्धश्च / ततो नोसंज्ञिनोअसंज्ञित्वचिन्तायां त्रीणि पदानितद्यथा / जीवपदं मनुष्यपदं सिद्धपदश्च / तत्र जीवपदे सूत्रमाह'नो सन्नी नोअसन्नीण भंते! जीवे" इत्यादि / स्यात्कदादिदाहारकः केवलिनः समुद्घाताद्यवस्थाविरहे आहारकः / स्यात्कदाचिदनाहारकः / समुद्घातावस्थायां सिद्धत्वावस्थायां वा भावनीयं / सिद्धेअणाहारए इति / सिद्धेसिद्धविषये सूत्रे / अणाहारए इति वक्तव्यं (पुहुत्तणंति) पृथक्त्वेन बहुत्वेन चिन्तायामिति प्रक्रमः (आहारगा वि अणाहारगा वि इति) तत्राहारका अपि बहूनां के वलिनां समुद्घाता-द्यवस्थारहितानां सदैव लभ्यमानत्वात् / अनाहारका अपि सिद्धानां सदैव भावात्तेषां चानाहारकत्वादिति (मणुस्सेसु तियभंगो इति) मनुष्यविषयं भंगत्रिकं तद्यथा / आहारका एष भंगो यदा न कोऽपि के वली समुद्घाताद्यवस्थागतो भवति / अथवा / आहारकाश्चानाहारकश्च / एष भंगो एकस्मिन्केवलिनि समुद्घाताद्यवस्थागते सति लभ्यते अथवा आहार-काश्चानाहारकाश्च / एषु बहुषु केवलिषु समुद्घाताद्यवस्थागतेषु सत्सु वेदितव्यः / प्रज्ञा / लेश्याद्वारम्। सलेसेणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा! सिय आहारएसिय अणाहारए एवं जाव वेमाणिए सलेस्सा णं भंते ! जीवां किं आहारगा अणाहारगा? गोयमा ! जीवेर्गिदियवजो तियभंगो / एवं कण्हलेस्सा नीललेस्सा काउलेस्साए वि ! जीवेगिंदिय तियभंगो तेउलेस्साए पुढविआउवणस्सइकाइयाणं छ भंगा सेसाणं जीवादिओ तियभंगो जेसिं अत्थितेउलेसा पम्हलेसाए सुक्कले-साएयजीवादिओ तियभंगो अलेस्साजीवा मणुस्सा सिद्धा एगत्तेण विपुहुत्तेण वि नो आहारगा || टीका / सामान्यतः सलेश्यसूत्रमाह / (सलेसणं भंते! जीवे इत्यादि) इदं सामान्यतो जीवसूत्रमिव भावनीयं / अत्रापि सिद्धसूत्रं वक्तव्यं सिद्धानामलेश्यत्वात् / बहुवचनचिन्तायां जीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमेक एव भंगस्तद्यथा / आहारका अपि अनाहारका अपि उभयेषामपि सदा बहुत्वेन लभ्यमानत्वात् / शेषेषु तु नैरयिकादिषु प्रत्येकं भंग त्रिकं / तद्यथा। सर्वेऽपि तावद्भवेयुराहारकाः 1 अथवाऽऽहाकाश्चा-नाहारकश्च 2 अथवा आहारकाश्च अनाहारकाच 3 | अमीषाञ्च भावना प्राग्वत्। तथाचाह / “जीवेगिंदियवज्जोतियभंगो इति' एवमित्यादि / एवं यथा सामान्यतः सलेश्यसूत्रमुक्तं तथा कृष्णलेश्याविषयमपि नीललेश्याविषयमपि कापोतलेश्या-विषयमपि सूत्रं च वक्तव्यं / सर्वत्र सामान्यतोजीवपदेएकेन्द्रियेषु च प्रत्येकमभङ्गक शेषपदेषु भङ्गत्रिकं / तेजोलेश्याविषयमपि सूत्रमेकत्वं प्राग्वत् बहुत्वं पृथिव्यप्वनस्पतिषुषड्भङ्गाः तेषु कथं तेजोलेश्यासंभव इति चेदुच्यते / भवनपतिव्यन्तरज्यो-तिष्कसौधर्मेशानांदेवानां तेजोलेश्यावतातत्रोत्पादभावात् / उक्तञ्चास्या एव भगवत्याः प्रज्ञापनायाश्चूण्णो "जेणं तेसु भवणवइ बाणमंतरजोइसियसोहम्मी साणया देवा // उववजन्ति तेणं तेउलेस्सा लब्भई?" इति / ते षड् भङ्गा इमे सर्वे आहारकाः // 1 // अथवा सर्वेऽनाहारकाः२ अथवा आहारकश्वानाहरकः३अथवा आहारकश्वाहारकाश्च 4 अथवा आहारकाश्चानाहारकश्च 5 अथवा आहारकाश्चानाहारकाश्च / 6 / शेषाणां जीवपदादारभ्य सर्वत्रापि भङ्गत्रिकं / तथाचाह / (तेउलेस्साएपुढवी आउवणस्सइकाइयाणं छभंगा से साणं जीवाइओ तियभंगो इति) आह किं सर्वेषामविशेषेण जीवपदादारभ्य भङ्गत्रिक मुत केषां चिदत आह (जेसि अत्थि तेउलेसा इति) येषामस्ति तेजोलेश्या तेषामेव भङ्गत्रिकं वक्तव्यं नशेषाणां / एतेन किमावेदितं भवति / नैरयिकविषयं तेजोवायुविषयं द्वित्रिचतुरिन्द्रियविषयञ्च तेजोलेश्यासूत्रं वक्तव्यमिति तथा पद्मलेश्यासूत्रं वक्तव्यमिति तथा पद्मलेश्या च येषां संभवति तद्विषयं तयोः सूत्रं वक्तव्यं तत्र पद्मलेश्या शुक्ललेश्या च / तिरर्यक्पञ्चेन्द्रियेषु मनुष्येषु वैमानिकेषु च लभ्यते न शेषेष्विति / तयोः प्रत्येकं चत्वारि पदानि / तद्यथा / सामान्यतोजीवपदं तिर्यक्रपञ्चेन्द्रिपदं मनुष्यपदंवैमा-निकपदञ्च सर्वत्राप्येकवचनचिन्तायां स्यादाहारक इति भंगो बहुवचन चिन्तायां भङ्गत्रिकं / तद्यथा / सर्वेऽपि तावद्भवे-युराहारकाः१अथवा आहारकाश्चानाहारकश्च 2 अथवा आहारकाश्चानाहारकाच 3 / तथाचाह (पम्हलेसाए सुक्कलेसाए जीवाईओ तियभंगोत्ति) अलेश्या जीवास्ते चायोगिकेवलिनः सिद्धाश्च ततः स्यात्त्रीणि पदानि / तद्यथा / सामान्यतो जीवपदं मनुष्याः सिद्धाश्च / सर्वत्राप्येकवचनेन बहुचनेन चानाहारगा इति / / सम्प्रति सम्यग्दृष्टि द्वारम्॥ सम्मदिट्ठीणं भंते ! जीवा किं आहारगा अणाहारगा? गोयमा ! सियआहारगा सिय अणाहारगा / बेइंदिय तेइंदिय चउरिदियछमंगा / सिद्धा अणाहारगा अवसेसाणं तियभंगा / मिच्छ दिट्ठीसु जीवे गिदियवओ तिय भंगो / सम्मा मिच्छदिट्ठीणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा! आहारए नो अणाहारए एवमे गिदियविगलिंदियवलं जाव वेमाणिए एवं पुहुत्ते वि / / सम्यग्दृष्टि श्वे होपशमिकसम्यक् त्वेन सास्वादनसम्यक्त्वेन क्षायोपशमिकसम्यक्त्वेन क्षायिकसम्यक्त्वेन वा प्रतिप्रत्तव्यः सामान्यतउपादानात्तथैव चाग्रे भङ्गचिन्तायामपि करिष्यमाणत्वात् / तत्रोपशमिकसम्यग्दृष्ट्यादयः सुप्रतीताः वेदक सम्यग्दृष्टिः पुनः क्षायिकसम्यक्त्वमुत्पादयन् चरमग्रासमनुभवन्नवसे यः / एकत्वे सर्वेष्वपि जीवादिपदेषु प्रत्येकमेष भंगः स्यादाहा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy