________________ आहार 539 अभिधानराजेन्द्रः भाग 2 आहार कृता तथा अभवसिद्धिकेऽपि कर्तव्या / उभयत्रापि एकवचने न भंगसंख्यायास्सर्वत्रापि समानत्वात् / तथा चाह / अभवसिद्धिए एवं चेव / अभवसिद्धिकोऽपि भवसिद्धिक इव एकवचने बहुवचनेन वक्तव्यमिति / यस्तु न भवसिद्धिको नाप्यभवसिद्धिकः स सिद्धः स हि भवसिद्धिको न भवति भवातीतत्वात् अभव-सिद्धिकस्तु रूळ्या यस्सिद्धिगमनयोग्यो व भवति स उच्यते ततो भवसिद्धिकोऽपिन भवति सिद्धिप्राप्तवात् / तथाच सति नोभव-सिद्धि कानोअभवसिद्धि कत्वचितायां द्वे एव पदे / तद्यथाजीवपदं सिद्धपदश्च उभयत्राप्येकवचने एक एव भंगो ऽनाहारक इति बहुवचने ऽप्येक एवानाहारक इति / संज्ञिद्वारम्।। सन्नीणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए / एवं जाव वेमाणिए नवरं / एगिदियविगलिंदिया न पुच्छिज्जेति / सन्नीणं भंते ! जीवा किं आहारगा अणाहारगा गोयमा ! जीवादिओ तिगभंगो जाव वेमाणिया // (सन्नीणं भंते !) इत्यादि / / प्रश्नसूत्रं सुगम निर्वचनसूत्रमाह / गोयमेत्यादि / विग्रहगत्या ऽनाहारकः शेषकालमाहारकः / ननु संज्ञी समनस्तु उच्यते विग्रहगतौ च मनो नास्ति ततः कथं संज्ञीसन्ननाहारको लभ्यते उच्यते इह विग्रहगत्यापन्नोऽपि संज्ञ-यायुष्कवेदनात्संज्ञी व्यवहियते यथा नारकायुष्कवेदनान्नारको न कश्चिद्दोषः / एवमित्यादि। एवं मुपदर्शनेन प्रकारेण तावद्वक्तव्यं यावद्वैमानिकाऽवैमानिकसूत्रं, न वरं मेकेन्द्रियविकलेन्द्रिया न प्रष्टव्याः / किमुक्तं भवति तद्विषयसूत्रं सर्वथा न वक्तव्यं तेषाममनस्कतया संज्ञित्वायोगात् / बहुवचनचिंतायां जीवपदे नैरयिकादिपदेषु च प्रत्येकं सर्वत्र भङ्गत्रयं तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः 1 अथवाऽऽहारकाश्च अनाहारकश्च 2 अथवाऽऽहारकाश्च अनाहारकाच 3 तथाचाह 1"जीवाइयो तियभङ्गो जाव वेमाणिया' इति / तत्र सामान्यतो जीवपदे प्रथमभंगे सकललोकापेक्षया संज्ञित्वेनोत्पातविरहाभावात् / द्वितीयभंगेएकस्मिन् संज्ञिनि विग्रहगत्यापन्ने तृतीयभंगे बहुषु संशिषु विग्रहगत्यापन्नेषु, एवं नैरयिकादिपदेष्वपि भंगभावना कार्या।। असंज्ञिद्वारम्॥ असन्नी णं भंते ! जीवे किं आहारए अणाहारए ? गोयमा! सिय आहारए सिय अणाहारए एवं रइए जाव वाणमंतरे नवरं जोइसियवेमाणियान पुच्छिति / असन्नीणं भंते! जीवा किं आहारगा अणाहारगा ? गोयमा ! आहारगा वि अणाहारगा वि एगोमंगो / असन्नीणं भंते ! णेरड्या किं आहारगा अणाहारगा? गोयमा ! आहारगा वा अणाहारगा वा अहवा अहारए य आणाहारए य अहवा आहारए य / अहवा आहारगा य अणाहारए य / अहवा आहारगा य अणाहारगा य एवं एते छभंगा / एवं जाव थणियकुमारा, एगिदियेसु, अभंगकं बेइंदिय जाव पंचिंदियतिरिक्खजोणिएस तियभंगो मणुस्सवाणमतरेसु छभंगा नो सन्नी नो असन्नीणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए। एवं मणुस्से वि / सिद्धे अणाहारए पुहुत्तेणं नो सन्नी नो असन्नी जीवा आहारगा वि अणाहारगावि मणुस्सेसु तियभंगो सिद्धा अणाहारगा। (असन्नीणं भंते ! इत्यादि ) अत्रापि विग्रहगतावनाहारक: शेषकालमाहारकः (एवं जाव वाणमंतरे इति) एवं सामान्यतो जीवपद इव चतुर्विशतिदंड कक्रमेण तावद्वक्तव्यं / यावद्वानव्यन्तरो वानव्यंतरविषयसूत्रं / अथ नैरयिका भव नपतयो वानव्यन्तराश्च कथमसंज्ञिनो येनासंज्ञिसूत्रे तेऽपि पठ्यंत इति उच्यते / इह नैरयिका भवनपतयो व्यन्तराश्च संज्ञिभ्योऽप्युत्पद्यन्ते / संज्ञि-भ्योऽपि असंज्ञिभ्यश्चोत्पद्यमाना असंज्ञिन इतिव्यवह्रियन्ते / संज्ञिभ्य उत्पद्यमानाः संज्ञिनस्ततो संज्ञिसूत्रेऽपि ते उक्तप्रकारेण पठ्यन्ते / ज्योतिष्कदैमा निकास्तुसंशिभ्य एवोत्पद्यन्ते / नासंज्ञिभ्यः असंज्ञित्वव्यवहाराभावादिह तेन पठ्यन्ते / तथाचाह / "जोइसियवेमाणिया नपुच्छिजंति'' किमुक्तं भवति / तद्विषयसूत्रं न वक्तव्यं तेषामसंज्ञित्वाभावादिति / बहुवचनचिन्तायां सामान्यतो जीवपदे एक एव भंगस्तद्यथा आहारका अपि अनाहारका अपि प्रतिसमयमे के न्द्रिया-णामनन्तानां विग्रहगत्यापन्नानामत एवानाहारकाणां सदैव लभ्यमानतयाहारकपदेऽपि सर्वदा बहुवचनभावात् / नैरयिकपदेषड्भंगाः / तत्र प्रथमो भंग आहारका इति अयं च भंगो यदाऽन्यो संज्ञी नारक उत्पद्यमानो विग्रहगत्यापन्नो न लभ्यते / पूर्वोत्पन्नास्त्वसंज्ञिनः / सर्वेऽप्या हारका जातास्तदालभ्यन्ते। द्वितीयोऽनाहारक इति एष यदा पूर्वोत्पन्नोऽ संज्ञी नारक एकोऽपि न विद्यते / उत्पद्यमानास्तु विग्रहगत्यापन्ना बहवो लभ्यते तदा विज्ञेयः / तृतीय आहारकश्च अनाहारकश्च द्वित्वेऽपि प्राकृते बहुवचनचिन्तायामेषोऽपि भंगस्समीचीन इत्युपन्यस्तः / तत्र यदा चिरकालोत्पन्न एको संज्ञी नारको विद्यते / अधुनोत्पद्यमानोऽपि विग्रहगत्यापन्न एकस्तदायं भंगः चतुर्थः आहारकश्चानाहारकाश्च एकश्चिरकालोत्पन्ने एकस्मिन्नसंज्ञिनि नारके विद्यमाने बहुष्वधुनोत्पद्यमानेषु असंज्ञिषु विग्रहगत्यापन्नेषु द्रष्टव्यः पंचमः आहारकाश्चानाहारकश्चायं चिरकालोत्पन्नेषु बहुषु असंज्ञिषु नारके षु अधुनोत्पद्यमाने विग्रहगत्यापन्ने एक स्मिन्नसंज्ञिनि विज्ञेयः / षष्ठः आहारकाश्चानाहारकाश्चैषु बहुषु चिरकालोत्पन्नेषूत्पद्यमानेषु चासंज्ञिषु वेदितव्यः। एवमेते षड्भंगा एवमुपदर्शितेन प्रकारेण एते षड् भंगास्तद्यथा / आहारक पदस्य के वलस्य बहुवचनेनैकः1१1 अनाहारकपदस्य केवलस्य बहुवचनेन द्वितीयः / आहारकपदस्यानाहारकपदस्य च युगपत्प्रत्येकमेकवचनेन तृतीयः / 3 / आहारकपदस्यैकवचनेन अनाहारकपदस्य बहुवचनेन चतुर्थः // 4 // आहारकपदस्य बहुवचनेन अनाहारकपदस्यैकवचनेन पञ्चमः / / 5 / / उभयत्रापि बहुवचनेन षष्ठः // 6 // शेषास्तु भंगा न सम्भवन्ति / बहु-वचनचिन्तायाः प्रक्रान्तत्वात् / एते च षड्भंगा असुरकुमारा-दिष्वपि स्तनितकुमारपर्यवसानेषु वेदित व्यास्तथा चाह "एवं जाव थणियकुमारा एगिदिएसु अभंगमिति' एकेन्द्रियेषु पृच्छिव्य-प्लेजोवायुवनस्पतिरूपेष्वभंगकं भंगकाभावः / एक एव भंग इत्यर्छः / सचाऽयं आहारका अपि अनाहारका अपि / तत्राहारका बहवः सुप्रसिद्धा अनाहारका अपि प्रतिसमयं पृथिव्यप्तेजो