________________ आहार 538 अभिधानराजेन्द्रः भाग२ / आहार कषायाधिकारो, ऽष्टमो ज्ञानाधिकारो, नवमो योगाधिकारो, दशम उपयोगाधिकार, एकादशो वेदाधिकारो, द्वादशः शरीराधिकार, वयोदशः पर्याप्त्यधिकारः / इह भव्यादिग्रहणेन तत्प्रतिपक्षभूता अभव्यादयोऽपि सूचिता द्रष्टव्याः / तथैवाग्रे वक्ष्यमाणत्वात् // तत्र प्रथमं सामान्यत आहाराधिकारं विभावयिषुरिदमाह। जीवे णं मंते ! किं आहारए अणाहारए ? गोयमा! सिय आहारए सिय अणाहारए / एवं नेरइए जाव असुरकुमारे जाव वेमाणिए / सिद्धे णं मंते ! किं आहारण अणाहारए? गोयमा ! णोआहारए अणाहारए / जीवेणं भन्ते! इत्यादि प्रश्नसूत्रं सुगम भनवानाह / गोयमे त्यादि गौतम ! स्यात्कदाचिदाहारकः कदाचिदनाहारकः कथमिति चेदुच्यते / विग्रहगतौ के वलसमुद्घाते शैलेश्य वस्थायां सिद्धत्वे चानाहारक: शेषास्ववस्थास्वाहारक उक्तं च / " विग्गहगइमावन्ना, केवलिणो समोहया अजोगी य / सिद्धा यअणाहारा, सेसा आहारगा जीवा" // 1 // तदेवं सामान्यतो जीवचिन्तां कृत्वेदानी नैरयिकादिचतुर्विंशतिदण्डक क्रमेणा-हारानाहारकचिन्तां करोति ( सिद्धेणं भन्ते ! किं आहारेत्यादि ) सुगमं तदेवं सामान्यतो जीवपदे नैरयिकादिषु चैकवचनेन आहारकानाहारकत्वचिन्ता कृता / / सम्प्रति बहुवचनेन तां चिकीर्षुराह|| जीवाणं भंते ! किं आहारया अणाहारया ? गोयमा ! आहारया वि अणाहारया वि / नेरइयाणं पुच्छा? गोयमा ! सटवे विताव होज्जा / आहारगा / 1 अहवा आहारगाय अणाहारगे य / / अहवा आहारगा य अणाहारगा य / 3 / एवं जाव वेमाणिया / नवरं / एगिदिया जहा जीवा 1 सिद्धाणं पुच्छा / गोयमा ! नो आहारगा अणाहारगा। प्रश्रसूत्रं सुगमं / भगवानाह / गौतम ! आहारका अपि अना हारका अपि सदैव बहुवचनविशिष्टा उभये ऽपि लभ्यन्ते इति भावः / तथाहि / विग्रहगतिव्यतिरेकेण शेषकालं सर्वेऽपि संसारिणो जीवा आहारका विग्रहगतिस्तु क्वचित्कदा-चित्कस्यचित्तु भवतीति सर्वकालमपि लभ्यमाना सम्प्रति निय तानामेव लभ्यते तत आहारकेषु बहुवचनं अनाहारका अपि सिद्धास्सदैव लभ्यन्ते ते चाभव्येभ्यो ऽनन्तगुणाः / अन्य चिसर्वकालमेकैकस्य निगोदस्य प्रतिसमयसंख्येयभागो विग्रहगत्यापन्नो लभ्यते ततो ऽनाहारकेष्वति बहुवचनं नैरयिकसूत्रे सर्वे ऽपि तावद्भवेयुराहारकाः 1 किमुक्तं भवति / कदाचिन्नैर-यिकाः सर्वेऽप्याहारका एव भवन्ति न त्वेकोऽप्यनाहारकः कथमितिचेदुच्यते। उपपातविरहात्तथाहि / नैरयिकाणामुपपातविरहो द्वादश मुहूर्ता एतावति चान्त रे पूर्वोत्पन्न-विग्रहगत्यापन्ना अपि आहारका जाता अन्यस्त्वनुत्पद्यमानत्वात् / अथवा आहारका अनाहारकपदे बहुवचनमनाहारकपदे एकवचनमिति भावः / कथमेष भङ्गो घटामियर्तीति चेदुच्यते इह नरकेषु जन्तुः कदा चिदेक उत्पद्यते कदाचिद् द्वौ कदाचित्त्रयश्चत्वारो यावत्संख्याता असंख्याता वा / तत्र यदा एक उत्पद्यते सो ऽपि विग्रहगत्यापन्नः प्रतिसमयमसंख्यातानां वनस्पतिषु प्रतिसमयमनंतानां विग्रहगत्योत्पाद्यमानानां लभ्य-मानतया अनाहारकपदे ऽपि सदैव तेषु बहुवचनस्य सम्भवात् / तथाचाह (एवं जाव वेमाणिया नवरं एगिदिया जहा जीवा इति) // एवं नैरयिकोक्तभङ्गप्रकारेण शेषा अप्यसुर-कुमारादयस्तावद्वक्तव्या यावद्वैमानिकाः / नवरमेकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाः प्रत्येक यथा उभयत्रापि बहुवचनेन जीवा उक्तास्तरा वक्तव्याः / सिद्धेष्वेक एवं भंगो ऽनाहारका इति सकलशरीरप्रहाणितस्तेषामाहारासंभवात् / बहुनाञ्च सदाभावादिति / गतं प्रथमद्वारम् / द्वितीयं भव्यद्वारमभिधित्सुराह / / भवसिद्धिएणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा ! सिय आहारए सिय अणाहारए एवं जाव बेमाणिए। भवसिद्धिएणं भंते! इत्यादि / भवैः संख्यातैरनन्तैर्वा सिद्धिर्यस्यासौ भवसिद्धिको भव्यस्स्कदाचिदनाहारकः / विग्रहगत्याद्यवस्थायां भवति अन्ये च पूर्वोत्पन्नतया आहारका अभवन् / तदा एष भङ्गो लभ्यते / तृतीयभङ्गमाह-अहवा आहारगा य अणाहारगा य / अत उभयत्रापि बहुवचनं एष च भंगो यदा बहवो विग्रहगत्योत्पद्यन्ते तदा द्रष्टव्यः / शेषभंगकास्तु न संभवन्ति आहारकपदस्य नैरयिकाणां सर्वदैव बहुवचनविषयतया लभ्यमानत्वात् / एवमसुरकुमारादिषु स्तनितकुमारपर्यवसानेषु द्वीन्द्रियादिषु च वैमानिकपर्य्यन्तेषु प्रत्येक भङ्गत्रिकं भावनीयम् / उपपातविरहभावात् / प्रथम भङ्गस्य एकादिसंख्यतयोत्पत्तेः / शेषस्यच भङ्गद्वयस्य सर्वत्रापिलभ्य-मानत्वात् / एकेन्द्रियेषु पुनः पृथिव्यप्तेजोवायुवनस्पतिरूपेषु प्रत्येकमेकशेष एवैको भंगः / आहारका अपिअनाहारका अपि पृथिव्यप्तेजोवायुषु प्रत्येक जायमाना अनाहारकाः शेषकालं त्वाहारका एवं चतुर्विंशति दण्डकेऽपि प्रत्येकं वाच्यं / तथाचाह- एवं जाववेमाणिए 1अत्रच सिद्धिविषमयं सूत्र न वक्तव्यं मोक्ष-पदप्राप्ततया तस्य भवसिद्धिकत्वायोगात्।। अत्रैव बहुवचनेनाहारकानाहारकत्वचिन्तां चिकीर्षुराह // भवसिद्धिया णं भंते ! जीवा किं आहारगा अणाहार गा / जीवेगिंदियज्जो तियं भगो अभवसिद्धिए वि / एवं चेव नो भवसिद्धिए नो अभवसिद्धिएणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा ! नो आहारए अणाहारए एवं सिद्धे वि 1 नो भवसिद्धिया नो अभवसिद्धिया णं भंते / जीवा किं आहारगा अणाहारगा? गोयमा! नो आहारगा अणाहारगा एवं सिद्धा वि // (भवसिद्धिएणं भंते ! इत्यादि) अत्राप्याहारद्वार इव जीव पदे एकेन्द्रियेषु च प्रत्येकमुभयत्र च बहुवचनेनैक एव भंगो यथा आहारका अपि अनाहारका अपि शेषेषु नैरयिकादिषु स्थानेषु भंगत्रिक कदाचित्केवला आहारका न त्वेकोऽप्यनाहारकः / अथवा कदाहारकः एकोऽनाहारकः / अथवा / आहार का अपि अथवा ऽनाहारका अपि / उभयत्रापि बहुवचनं / तथा चाह / "जीवे गिदियवजो तियभंगो" इति / यथाच भवसिद्धिके एकस्मिन् बहुषु चाहारकानाहारकत्वचिन्ता