________________ आहार 527 अभिधानराजेन्द्रः भाग 2 आहार (अहावरमित्यादि) अथैतदपरमाख्यातं इहास्मिन् संसारे एके केचन सत्वाः प्राणिनस्तथाविधकर्मोदयवर्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां सचित्तेष्वचित्तेषु शरीरेषु चाग्नित्वेन विवर्त्तन्ते प्रादुर्भवंति / तथाहि / पंचेंद्रिय-तिरश्चांदंतिमहिषादीनांपरस्परंयुद्धावसरे विषाणसंघर्ष सति अग्निरुत्तिष्ठते एवमचित्तेष्वपितदस्थिसंघर्षादग्रेरुत्थानं तथा दींद्रियादिशरीरेष्वपि यथासंभवमायोजनीयं तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यते ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयति / शेष सुगमं यावद्भवंतीत्येवमाख्यातं / अपरे त्रयोऽप्यालापकाः प्राग्वदृष्टव्या इति। साम्प्रतं वायुकायमुद्दिश्याह॥ अहावरंपुरक्खायं इहेगतिया सत्ता णाणाविहजोणियाणं जाव कम्मनियाणेणं तत्थ वुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वाउकायत्ताए विउदंति जहा अगणीणं तहा भाणियव्वा चत्तारिगमा।।३।। अथापरमेतदाख्यातमित्याद्यग्निकायागमेन व्याख्येयम् / साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह // अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया णं / जाव कम्मनियाणेणं तत्च्छ वुक्कमाणाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसुवापुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतव्वाओ पुढवीय सकरा वा लुयाय उवले सिला य लोणूसे / अयत उय तंव सीसग रुप्प सुवण्णे य वइरेय ? हरियाले हिंगुलए मणोसिला सासगंजणपवाले 1 अब्भपडल पवालु य वायरकाए मणिविहाणा 2 गोमेज्जए य रूयए अंके फलिहिय लोहियक्खे य। मरगयमसारगल्ले भूयमोयग इंदणीले य चंदण गेरुयहसंगम्भे पुलए सोगंधिए य बोद्धट्वे / चंदप्पभवेरुलिए जलकंते सूरकंते य 4 एयाओ एएस भाणियव्वा एओ गाहाओ जाव सूरकताए विवुदंतितेजीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेह माहारेंति ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे विय णं तेर्सि तसथावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीरा णाणावण्णा जाव मक्खायं सेसं तिण्णि आलवगा जहा उदगाणं // 36 // अथापरमेतत्पूर्वमाख्यातं इहैके सत्वाः पूर्वं नानाविध योनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणां शरीरेषु पृथिवीत्वेनोत्पद्यन्ते / तद्यथा / सर्पशिरस्सुमणयः करिदंतेषु मौक्ति-कानि, स्थावरेष्वपि वेण्वादिषु तान्येवेति / एवमचित्ते खूपला-दिषु लवणभावनोत्पद्यन्ते / तदेवं पृथिवीकायिका नाना विधासु पृथिवीषु शर्करावालुकोपलशीता-लवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते / शेषं सुगमं / यावचत्वारो ऽप्यालापका उदकागमेन नतव्या / इति // 36 // साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान सामान्यता विभ-णिषुराह / अहावरं पुरक्खायं सव्वे पाणा सवेभूता सब्वे जीवा सव्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहबुकमा सरीरजोणिया सरीरसंभवा सरीरदुकमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मद्विइया कम्मणाचेव विप्परिया समुर्वेति // 37 // (अहावरमित्यादि) अथापरमेतदाख्यातं / तद्यथा / सर्वेप्राणा प्राणिनो ऽत्र च प्राणिभूतजीवसत्वशब्दाः पर्यायत्वेन दृष्टव्याः / कथंचिद्भेदं चाश्रित्य व्याख्येयाः / ते च नानाविधयोनिका अतो नानाविधासु योनिषूत्पद्यन्ते नारकतिर्यग्नरामराणां परस्परगमनसंभवात्ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराण्याहार-यन्ति तदाहारवन्तश्च तत्रागुप्ताश्रवद्वारतया कर्मवशगा नारकतिर्यड्नरामरगतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवंति / अनेनेदमुक्तं भवति / यो यादृगिह भवे स तादृगेवामुत्रापि भवतीत्येतन्निरस्तं भवति / अपितु कर्मोपगाः कर्मनिदानाः कयित्तगतयो भवन्ति / तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासंदुःखमुपगच्छंतीति // 37 / / साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह! से एवमायाणहसे एवमायाणित्ता आहारगुत्ते सहिए समिए सयाजए तिबेमि // बियसुय क्खंधस्स आहारप रिण्णा णाम तईयमज्जयणं सम्मत्तम् // यदेतन्मयादितः प्रभृत्युक्तं / तद्यथा ।यो यत्रोत्पद्यतेस तच्छरीराहारको भवति आहारगुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टघटीन्यायेन पौनःपुन्येन पर्यट तीत्येवमाजानीत यूयं एतद्विपर्यासं दुःखमुपगच्छंतीति / एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिस्स-मितिभिस्समितो यदि वा सम्यक् ज्ञानादिके मार्गे इतो गतः समितस्तथा सह हितेन वर्तते सहितः सन् सदासर्वकालं यावदुच्छ्वासं तावद्यतेत तत्संयमानुष्ठाने प्रयत्नवान् भवेदिति / इति परिसमाप्तयर्छ ब्रवीमीति पूर्ववत् / गतोऽनुगमः साम्प्रतंनयास्ते च प्राग्वदृष्टव्याः // 38|| समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् // 3 // आहारस्य दिक् // छहिं दिसाहिं जीवाणं आहारे पवत्तइ। तंजहा पाईणाए जाव अहाए / स्था. ठा.६। आहारः प्रतीतः सोऽपि षट् स्वेव दिक्षु एतद्व्यवस्थितप्रदेशावगादपुद्गलानामेव जीवेन स्पर्शनात्स्पृष्टानामेवाहरणात् / स्था० टीका जीवा० प्र०१॥ सच देशतः सर्वतश्च। दोर्हि ठाणेहिं आया आहारेइ देसेण वि सव्वेण वि। आहारयति देशेन मुखमात्रेण सर्वेण ओज आहारापेक्षया आहारमेव परिणमयति परिणामन्नयति खलरसविभागेन भक्ता श्रयदेशस्य प्लीहादिना रुद्धत्वात् देशतोऽन्यथा सर्वतः / स्था, ठा.२ टी० // चतुर्गतिषु आहारः॥ णेरइयाणं चउविहे आहारे पन्नत्ते तंजहा / इंगालोवमे मुम्मुरोवमे सीयले हिमसीयले / /