________________ आहार 128 अभिधानराजेन्द्रः भाग 2 आहार नारकानाहारतो निरूपयन्नाह / नेरइयाणमित्यादि / व्यक्तं केवलं अंगारोपमः अल्पकालदाहत्वान्मुर्मुरोपमः स्थिर-तरदाहत्वाच्छीतलः शीतवेदनोत्पादकत्वात् हिमशीतलो ऽत्यन्तशीतलोऽत्यंतशीतवेदनोत्पादकत्वात् अधोऽध इति क्रम इति / स्था, ठा०४। तिरिक्खजोणियाणं चउविहे आहारे पं.तं. कंकोवमे विलोवमे पाणमंसोवमे पुत्तमंसोवमे / मणुस्साणंचउठिवहे आहारे पं.तं. असणे जाव साइमे / देवाणं चउविहे आहारे पं.तं. वण्णमंते गंधमते रसमंते फासमंते // तिरिक्खजोणियाणमित्यादि / व्यक्तन्नवरं कं कः पक्षिविशेष स्तस्याहारेणोपमा यत्र च मध्यमपदलोपात्कङ्कोपमः / अयमों यथा हि कंकस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यःसुखपरिणामश्च भवति एवं यस्तिरश्चां सुखभक्ष्यस्सुखपरिणामश्च स कङ्कोपम इति / तथा विले प्रवेशद्रव्यं बिलमेवतेनोपमा यत्र स तथा / बिले हि अलब्धरसास्वाद जटिति यथा किल किंचित्प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते / पाणो मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाव्यं स्यादेवं यस्तेषां दुःखान्यस्सपाणमांसोपमः / पुत्रमांसन्तु स्नेहपरतया दुःखाव्यतरंस्यादेवं योदुःखान्यतरःसपुत्रमासोपमः क्रमेण चैतेशुभसमा शुभाशुभतरा वेदित व्याः वर्णवानित्यादौ प्रशंसायामतिशायगे वा मतुरिति / स्था ठा. ||4|| टी० // आहारमधिकृत्य वक्तव्यार्थाः। सचित्ताहारट्ठी केवति किंवा विसवतो चेव / कतिभागं सवे खलु परिणामे चेव बोधव्वे // 2 / / एगिदियसरीरादि लोमाहारे तहेवमणभक्खी / एतेसिं तु पदाणं विभावणा होइ कायव्वा ॥शा प्रथमोऽधिकारस्सचित्तपदोपलक्षितस्स चैवं (नैरइयाणं भंते ! किं सचित्ताहारा अचित्ताहारा) इत्यादि / द्वितीय आहारार्थिन इति 2 तृतीयः / (केवइयत्ति) कियता कालेन आहारार्थः समुत्पद्यते इत्यादिरूपः३ चतुर्थः किमाहारमाहारयन्तीतिपदोपलक्षितः४॥ पंचमः सर्वत इति पदोपलक्षितस्स चैवं:- (नेरइयाणं सव्वतो परिणामन्तीत्यादि).५। चेव शब्दस्समुच्चये (कइभागंति) गृहीतानां पुद्गलानां कतिभागमाहारयन्तीत्येवमादिषष्ठोऽधिकारः६ तच्छा (सव्वं इति) यान्पुद्गलानाहारतया गृण्हन्ति तान्किं सर्वानपरिशेषान् आहारयन्ते उत सर्वानित्येवमुपलक्षितः सप्तमोऽधिकारः 7 तथा अष्टमोऽधिकारः परिणामः परिणामरूपो बोद्धव्यः सचैवं (नेरइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हंति तेणं तेसिं पुग्गला कीसत्ताए भुजोर परिणामन्तीत्यादि-) रूपः 8 नवमोऽर्थाधिकारः एकेन्द्रियादीनि शरीराणि सचैवं (नेरइयाणं भंते! किं एगिदियसरीराइं / आहारेंति जाव पंचिंदियशरीराई आहारैति) इत्यादि 9 दशमोऽधिकारो लोमाहारो लोमाहारवक्तव्यतारूपः / 10 / एकादशो मनोभक्षिवक्तव्यतारूपः / 11 / एएसिं तु इत्यादि / एतेषां सामान्यतोऽनन्तरमुद्दिष्टानां पदानामर्थाधिकाराणां विभावना विस्तरतः प्रकाशना नाम भवति कर्तव्या / सूत्रकारवचनमेतत्प्रतिज्ञातमेव निर्वाहयितुकामो यथोहेशनिर्देश इति न्यायात्प्रथमाधिकारं विभावयति / प्रज्ञा० पद०२८ / भ. श०११॥ सचित्ताहाराः // नेरइयाणं भंते / किं सचित्ताहारा अचित्ताहारा मीसाहारा? गोयमा ! नो सचित्ताहारा अचित्ताहारा नो मीसाहारा एवं असुरकुमारा जाव वेमाणिया | उरालिय सरीरा जाव मणूसा सचित्ताहारा वि अचित्ताहारा विमीसाहारा वि / / नैरयिका भदन्त! किं सचित्ताहाराः सचित्तमाहारयन्तीति सचित्ताहाराः एवमचित्ताहारा मिश्राहारा इत्यादि भावनीयं भगवानाह- (गोयमेत्यादि) इह वैक्रियशरीरिणो वैक्रियशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति ते चाचित्ता एव संभवंतिन जीवपरिगृहीता इत्यचित्ताहारा नापि मिश्राहारा एवमसुरकुमारादयः स्तनितकु मारपर्यवसाना भवनपतयो व्यन्तरज्योतिष्का वैमानिकाश्च वैदितव्याः। औदारिकशरीरिणः पुनरौदारिकशरीरपरिपोषयोग्यान्पुद्गलानाहारयन्ति ते च पृथिवीकायिकादिपरिणामपरिणता इति / सचित्ताहारा मिश्राहारा अपि घटन्ते / तथाचाह / (उरालियसरीरी जाव मणूसा इत्यादि) औदारिकशरीरिणः पृथिवीकायिकेभ्यः आरभ्य यावन्मनुष्याः / किमुक्तम्भवति पृथिव्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याश्च एते प्रत्येकं सचित्ताहारा अपि अचित्ताहारा अपि मिश्राहारा अपि वक्तव्याः॥ उक्तः प्रथमोऽधिकारः || सम्प्रति द्वितीयानष्टपर्यन्तान्सप्ताधिकारन चतुर्विशदिण्ड-कक्रमेण युगपदमिधित्सुः प्रथमतो नैरयिकाणामभिदधाति। नेरइया णं भंते ! आहारट्ठी? हंता आहारट्ठी णेरइयाणं भंते ! केवइकालस्स आहारट्टे समुप्पज्जइ ? गोयमा ! णेरइयाणं दुविहे आहारे पण्णत्ते / तं. आभोगनिवत्तिए य अणाभोगनिव्वत्तिएय / तत्थणंजे से अणाभोगनिव्यत्तिए सेणं अणुसमयं अविरहिए आहारट्टे समुप्पज्जइ / तत्थ णं जे से आभोगनिवत्तिए सेणं असंखेजसमइए अंतो मुहुत्तिए आहारडे समुप्पाइ // (नेरयाणमित्यादि) नैरयिका णमिति वाक्यालङ्कारे भदन्त ! आहारार्थिनो नैरयिका इति यदि आहारार्थिनस्ततो भगवानाह (हंतेत्यादि) हंतेत्यनुमतौ अनुमतमेतत् गौतम! आहारार्थिनो नैरयिका इति यदि आहारार्थिनस्ततो भदन्त ! नैरयिकाणमिति पूर्ववत् (केवइ कालस्सत्ति) प्राकृतत् तृतीयार्थे षष्ठी / कियता कालेन आहारार्थ आहारलक्षणं प्रयोजनं आहाराभि-लाष इति यावत्समुत्पद्यतेभगवानाह (गोयमेत्यादि) नैरयिकाणां द्विविधो द्विप्रकार आहारस्तद्यथा। आभोगनिर्वर्तित आहारयामीति इच्छापूर्वनिर्मापित इति यावत् / तद्विपरीतोऽनाभोगनिर्वर्तितः। आहारयामीति विशिष्टेच्छामन्तरेण यो निष्पाद्यते प्रावृट्काले प्रचुरतरसूत्राद्यभिव्यंगशीत पुद्गलाद्याहारवत्सोऽनाभोगनिर्वर्तित इति भावाः / (तत्थणमित्यादि) तत्राभोगानाभोगनिर्वर्तितयोर्मध्ये योऽनाभोग-निवर्तितः आहारः (सेणमिति) पूर्ववत् अनुसमयं प्रतिसमयं 2 समयं 2 इत्यर्थः / इत्यदीर्घकालोपभोगस्याहारस्यैक वारमपि ग्रहणे तावंतं कालमनुसमयम्भवति ।तत आभवपर्यन्तंसातत्यग्रहणप्रतिपाद-नार्थमाह / अविरहित आहारार्थस्समुत्पद्यते। अथवा सततप्रवृत्ते आहारार्थेऽपांतराले