________________ आहार 524 अभिधानराजेन्द्रः भाग 2 आहार मता नपुंसकस्य कारणतां प्रतिपद्यते / तथा यथावकाशनेति / योऽर्थस्थावकाशो मातुरुदरकुक्ष्यादिकस्तत्रापि किल वामा स्त्रिया दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः षंढ इति / अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भंगाः तत्राप्याद्य एव भंगक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति / अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिवर्तितायां योनौ मैथुनप्रत्यायिको रताभिला षोदयजनितोऽनिकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जंतव स्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यते ते ते च प्रथममुभयोरपि स्नेहमाचिन्वंत्यविध्वस्तायां योनौ सत्यामिति / विध्वस्यते तु योनिः "पंचपंचाशिका नारी सप्तसप्ततिः पुरुष इति' तथा द्वादश मुहुर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतस्तत ऊर्ध्वं ध्वंसमुपगच्छत इति / तत्र जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथा स्वं स्त्रीपुन्नपुंसकभावेन / (विउद्भृतित्ति) वर्तते समुत्पद्यत इति यावत् / तदुतरकालंच स्त्रीकुक्षौ प्रक्षिप्ताः सन्तः स्त्रिया हारितस्याहारस्य निर्यासं स्नेहमाददति तत्स्नेहेन च तेषां जंतूनां क्रमोपच यादानेन क्रमेण निष्पत्तिरुपजायते (सत्ताहं कललं होइ सत्ताहंहोइबुब्बुयं) इत्यादि तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वानुपूर्वेणाहारयति यथाक्रममानुपूर्वेण वृद्धिमुपागताः संतो गर्भपरिपाकं गर्भनिष्पत्ति-मनुप्रपन्नास्ततो मातुःकायादभिनिवर्तमानाः पृथग्भवंतःसंतस्त-द्योनेर्निर्गच्छति / तेचतथाविधकर्मोदयादात्मनः स्त्रीभाव-मप्येकदा जनयंत्युत्पादयंत्यपरे केंचन पुंभावं नपुंसकमावं च / इदमुक्तं भवति / स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिवर्तितो भवति नपुनर्यो यादृगिह भवे सोमुऽष्मिन्नेव तादृगेवेति / ते च तदहर्जातबालकाः संतः पूर्वभवाभ्यासादाहाराभिलाषिणो भवंति मातुः स्तन्यमाहारयंति तदाहारेण चानुपूव्येण च वृद्धास्तदुत्तरकालं नवनीतदध्योदनादिकं यावत्कुल्माषान् भुंजते तथाहारत्वेनोपगतास्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयंति तथा नानाविधपृथिवीशरीरं लवणादिकं सचेतनं वाहारयंति तचाहारितमात्मसात्कृतं सारूप्य मापादितं सत् रसासृड् मांसभेदोऽस्थिमज्जाशुक्राणि धातव इति सप्तधा व्यवस्थापयंत्यपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवंति। ते च तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयंतीत्येवमाख्यात मिति / / 21 / / सूत्र, श्रु.२ अ०३। तिर्यग्जलचराणाम्। एवं तावद्गर्भव्युत्क्रांतजमनुष्याः प्रतिपादितास्तदनंतरं संमूर्छनजानामवसरस्वतांश्चोत्तरत्र प्रतिपादयिष्यामि / सांप्रतं तिर्यग्योनिकास्तत्रापि जलचरानुद्दिश्याह / अहावरं पुरक्खायं णाणाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं / तंजहा / मच्छाणं जाव सुसमा-राणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति आणुपुटवेणं वुड्डा पलिपागमणुविना ततो कायाओ अभिनिवदृमाणा अंडं वेगया जणयंतिपोयं वेगया जणयंति से अंडे उब्भिञ्जमाणे इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा डहरा समाणा आउसिणेहमाहारें ति आणुपुटवेणं वुड्डा वणस्सति-कायं तसथावरे य पाणे ते जीवा आहारैति / पुढवीसरीरं जावसंतं अवरे वियणं तेर्सि नानाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीरा णाणावण्णा जाव मक्खायं // 22 // अथानंतरमेतद्वक्ष्यमाणं पूर्वमाख्यातं / तद्यथा / नानाविधजलचरपंचेन्द्रियतिर्यग्योनिकानां संबंधिनः कांश्चित्स्वनामग्राह-माह / तद्यथा / (मच्छाणं जाव सुसुमाराण) मित्यादि तेषां मत्स्यकच्छपमकरग्राहसुषुमारादीनां यस्य यथा यदीजं तेन तथा यथावकाशेन यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य च स्वकर्मनिवर्तितायां योनावुत्पद्यते ते च तत्राभिव्यक्ता मातुराहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमेनोत्पद्यते / तेचजीवा जलधरा गर्भाव्युत्क्रांताः संतस्तदनंतरं यावड्डहरंति लघवस्ता-वदपस्नेहमप्कायमेवाहारयंति आनुपूर्येण च वृद्धाः संतो वनस्पतिकायं तथापरांश्वत्रसाँस्थावरांआहारयंति यावत्पंचेंद्रिया नत्याहारयंति तथाचोक्तं " अस्ति मत्स्यस्तिमिम शत-योजनविस्तरः / तिमिगिलगिलोप्ययस्ति तद्विलोऽप्यस्ति राघवः" तथा तेजीवाःपृथिवीशरीरं कर्दमस्वरूपंक्रमेण वृद्धिमुपगताः संत आहारयति तचाहारितं समानरूपीकृतमात्मसात्परिणामयंति शेषं सुगमं यावत्कर्मोपगता भवंतीत्येवमाख्यातं // 22 // अहावरं पुरक्खायं णाणाविहाणं च उप्पयथलयरपंचिंदि यतिरिक्खजोणियाणं एगरवुराणं दुखुराणं गंडीपदाणं सणप्पयाणं ते सिंचणं आहावीएणं अहावगासेणं इत्थि-पुरिसस्स यकम्म जाव मेहुणवत्तिएणामं संजोगे समुपबई तेदुहओसिणेहं संचिणंति तत्थणं जीवा इत्थित्ताए पुरिसत्ताए जाव विउदृति ते जीवा माउओयं पिउसुझं एवं जहा मणुस्साणं इत्थि वि वेगया जणयंति पुरिसंपिनपुसंग पि ते जीवा डहरा समाणा माउ क्खीरं सप्पिं आहारति आणुपुटवेणं बुडा वणस्सइकायं तसयावरेय पाणे ते जीवा आहारति पुढवीसरीरंजाव संतं अवरे वि यणं तेसिं णाणाविहाणं चउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एगखुराणं जाव सणप्पयाणं सरीराणाणावण्णा जाव मक्खायं / / 23 // टी. अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां तद्यथा। एकखुराणामित्यश्वखुरादीनां, तथा द्विखुराणां, गोमहिण्यादीनां तथा गंडीपदानां हस्तिगंडकादीनां, तथा सनखानां सिंहव्याघ्रादीनां, यथाबीजेन यथावकाशेन सकलपर्याप्तिमवाप्योप्पद्यते तथोत्पन्नाः संतस्तदनंतरं मातुः स्तन्यमाहयंतीति / क्रमेण च वृद्धिमुपगताः संतोऽपरेषामपि शरीरमाहार-यंति ! शेषं सुगम यावत्कर्मोपगताः भवंतीति / / 23 / / साम्प्रतमुरःपरिसानुद्दिश्याह / अहावरंपुरक्खायं णाणाविहाणंउरपरिसप्पथलयरपंचिंदिय तिरिक्खयोणियाणं तेसिं चणं तं जहा अहीणं अयगराणंअ सालियाणं महारेगाणंतेसिंचणं अहावीएणं अहावगासे णं