________________ आउक्काय 29 अभिधानराजेन्द्रः भाग 2 आउक्काय ति संक्लेष्टुम् / नापि विशोद्धं शक्यं, प्रत्यक्षो ह्यात्मन: सोऽर्थः // 1 // उपयोगद्वयपरिवृत्तिः, सा निर्हेतुकस्वभावत्वात्। आत्मप्रत्यक्षो हि स्वभावो व्यर्थात्र हेतूक्तिः।।२।।" अवस्थितिकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात् / अयं च वृद्धिहान्यवस्थितरूपपरिणाम: के वलिनां निश्चयेन गम्यो, न छद्मस्थानामिति / यद्यपि च-प्रव्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्य-भावनाभावितान्तरात्मा कश्चित् प्रवर्द्धमानमेव परिणामं भजते / तथा चोक्तम्- "जह जह सुयमवगाहइ, अइ मयरसपसर- संजुयमउव्वं / तह तह पल्हाई मुणी, नवनवसंवेगसंघाते / / 1 / / " तथापि स्तोक एव तादृक् बहवश्व परिपतन्त्यतोऽभिधीयते- 'तामेवानुपालयेदिति' / कथं पुनः कृत्वा श्रद्धामनुपालयेदित्यत आह- 'विजहे' त्यादि, विहाय- परित्यज्य विस्रोतसिकां- शङ्काम् / सा च द्विधा-सर्वशङ्का, देशशङ्का च / तत्र सर्वशङ्का-किमस्त्याहतो मार्गों न वेति, देशशङ्का तु-किं विद्येन्तेऽप्कायादयो जीवा विशेष्यप्रवचनेऽभिहितत्वात् स्पष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेकां विहाय संपूर्णाननगारगुणान् पालयेत् / यदि वा-विस्रोतांसि द्रव्यभावभेदाद् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीतापगमनानि भावविस्रोतांसि तु मोक्षं प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि प्रतिकूलानि गमनानि भावविस्रोतांसि तानि विहाय संपूर्णानगारगुणभाग्भवति श्रद्धां वा अनुपालयेदिति / पाठान्तरं वा''विजहित्ता पुव्वसंयोग" पूर्वसंयोग:- मातापित्रादिरस्य चोपलक्षणार्थत्वात्पसंयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं विहायत्यक्त्वा श्रद्धामनुपालयेदिति मीलनीयम् / तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्यं स एवाभिधीयते-न केवलं भवानेवा-पूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्यैः कृतपूर्वमिति दर्शयितुमाहपणया वीरा महावीहिं (सूत्र-२०) प्रणता:- प्रहाः वीरा:- परिषहोपसर्गकषायसेनाविजयात् वीथि:- पन्था: महांश्चासौ वीथिश्च- महावीथि:- सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः प्रहतस्तं प्रति प्रह्वा-वीर्यवन्त: संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्श्य तज्जनितमार्गविश्रम्भो विनेय: संयमानुष्ठाने सुखेनैव प्रवर्तयिष्यते। उपदेशान्तरमाह- 'लोगं चे' त्यादि, अथ वा-यद्यपि भवतो मतिर्न क्रमतेऽप्कायजीवविषयेऽसंस्कृतत्वात्, तथापि भगवदा- ज्ञेयमिति श्रद्धातव्यमित्याहलोगं च आणाए अमिसमेचा अकुओभयं / (सूत्र-२१) अत्राधिकृतत्वादप्कायलोको लोकशब्देनाभिधीयते, तमप्कायलोकं चशब्दादन्यांश्च पदार्थान् आज्ञया-मौनीन्द्र-वचनेनाभिमुख्येन सम्यग् ज्ञात्वा, यथा-अप्कायादयो जीवा, इत्येवमवगम्य न विद्यते कुतश्विद्धेतो:- केनापि प्रकारेण जन्तूनां भयं यस्मात्सोऽयमकुत्तोभय: संयमस्तमनुपालयेदिति सम्बन्धः / यद्वा-अकूतोभयोऽप्कायलोको, यतोऽसौ न कुतश्चिद् भयमिच्छति, मरणभीरुत्वात्, तमाशयाऽभिसमेत्यानुपालयेत्; रक्षेदित्यर्थः / अप्कायलोकमाज्ञयाऽभिसमेत्य यत्कर्तव्यं तदाहसे वेमि णेव सयं लोग अब्मइक्खिज्जा, णेव अत्ताणं अब्भाइक्खिज्जा, जे लोयं अन्भाइक्खइ से अत्ताणं अन्माइक्खइ से लोयं अब्भाइक्खइ। (सूत्र-२२) 'से येमी' त्यादि, सोऽहं ब्रवीमि 'से' शब्दस्य युष्मदर्थत्वाद् त्वां वा ब्रवीमि, न स्वयम्-आत्मना लोकोऽप्कायलोकोऽभ्या ख्यातव्यः / अभ्याख्यानं नामासदभियोगः, यथा- अचौरं चौरमित्याह / इह तु जीवा न भवन्त्याप: के वलमुपकरणमात्रं घृततैलादिवत् / एषोऽसदभियोग: हस्त्यांदीनामपि जीवानामुपकरणत्वात् स्यादारेका, नन्तदेवाभ्याख्यानं यद्जीवानां जीवत्वापादनं नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वम्। यथा ह्यस्य शरीरस्याहंप्रत्ययादिभिर्हेतु- भिरधिष्ठातात्मा व्यतिरिक्त: प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः / न च प्रसाधि- तस्याभ्याख्यानं न्याय्यम्, अथापि स्थादात्मनोऽपिशरीरा-धिष्ठातुरभ्याख्यानं कर्त्तर्व्यम्, न च तक्रियमाणं घटामियीति दर्शयति- 'नेव अत्ताणं अब्भाइक्खेज्जा' नैवाऽऽत्मानंशरीरा- धिष्ठातारमहंप्रत्ययसिद्ध ज्ञानाभिन्नगुणं प्रत्यक्षं प्रत्याचक्षीतअपहवीत, ननुचैतदेव कथमवसीयते शरीराधिष्ठातात्मास्तीति, उच्यतेविस्मरणशीलो देवानांप्रिय उक्तमपि भाणयति। तथा ह्याहृतमिदं शरीरं केनचिदभिसंधिमता, कफरुधिराङ्गोपाङ्गा- दिपरिणतेरन्नादिवत्तथोत्सृष्टमपि केनचिदभिसम्बन्धिमतैव, आहृतत्वाद्, अन्नमलवदिति। तथा नज्ञानोपलब्धिपूर्वक: परिस्पन्दो भ्रान्तिरूप: परिस्पन्दत्वात्त्वदीयवचनपरिस्पन्दवत् / तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वाद्दात्रा- दिवत् / एवं कुतर्कमार्गानुसारिहेतुमालोच्छेद: स्याद्वादपरशुना कार्यः अत एवं विधोपपत्तिसमधिगतमात्मानं शुभाशुभफलभाजं न प्रत्यचक्षीत / एवं च सति यो ह्यज्ञ. कुतर्कतिमिरोपहतज्ञान- चक्षुरप्कायलोकमभ्याख्याति-प्रत्याचष्टे स सर्वप्रमाणसिद्ध- मात्मानसभ्याख्याति, यश्चात्मानमभ्याख्यातिनास्म्यहं स सामर्थ्यादप्काय लोकमभ्याख्याति / यतो ह्यात्मनि पाण्याद्यवय- वोपेतशरीराधिष्ठायिनि प्रस्पष्ट लिङ्गेऽभ्याख्याते सत्यव्यक्त-चेतनालिङ्गोऽप्कायलोकस्तेन सुतरामभ्याख्यातः / एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य: इत्यालोच्य साधवो नाप्कायविपयमारम्भं कुर्वन्तीति। (9) शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाहलज्जमाणा पुढोपासअणगारा मो त्ति एके पवयमाणा जमिणं विरूवरूवे हिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अणेगरूवे पाणे विहिंसइ, तत्थ खलु भगवता परिण्णा पवेदिता इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहेउं से सयमेव उदयसत्थं समारंभति अण्णे हिं वा उदयसत्थं समा