________________ आहरिज्जमाण 518 अभिधानराजेन्द्रः भाग 2 आहार स्थाठा०४ दश० अ०२। आहरिजमाण त्रि.(आह्रियमाण) खाद्यमानेपुद्गले आहारे अभ्यवह्रियमाणे, | स्था, ठा. 10 / आहारतया जीवेन गृह्यमाणे। स्था, ठा०३ / आहरित्तए अव्य, (आहर्तुम्) अदनं कर्तुमित्यर्थे, / तं / आहरिसिय त्रि.(आधर्षित) भर्त्सिते, आ. म०प्र० / आहवण न०(आह्वान) संशब्दने, पंचा.१व- (अग्गिकुमाराहवणे धूवं एगं इहं वेति)। पंचा। आहव्वणीस्त्री०(आथर्वणी) स्वाभिधानायां सद्योऽनर्थकारिण्यां विद्यायाम् सूत्र० श्रु.५०२। आहा धा०(कांक्ष) आकांक्षायाम्, कांक्षे राहाहिलंघाहिलं खवचक महसिहविलुपाः। 849 / इति कांक्षेराहादेशः / आहाइ / कांक्षति / प्रा० / आहार पुं०(आधार) अधिकरणे, विशे० आ.चू.अ.१ अनु० / दोण्हं गब्भत्थाणं आहारे पं.तं. मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव / / टी. द्वयोरेव गर्भस्थयोराहारोऽत्येषां गर्भस्थैवाभावादिति / स्था० ठा. | शस चतुर्भेदस्तद्यथा वैषयिको व्यापक औपश्लेषिकः सामीप्यकश्च आ, म.द्वि. यथा। आहारोआहेयं च होइ दव्वं तहेव भावाय / द्रव्यं आधारो भवति पर्यायाणाम् / विशे। आश्रये, ज्ञा० अ०० आलम्बने, संथा. आधेयस्यैव सर्वलोकानामुपकारित्वात् (ज्ञा० अ०१) आधार इवाधार आश्रय इति यावत् / सम्यक्त्वे, यथा धरातलमन्तरेण निरालंबं जगदिदं न तिष्ठति एवं धर्मजगदपि सम्य क्त्वलक्षणाधारव्यतिरेके ण नावतिष्ठत इति त्तथा भावनीयम् / प्रव. ध / आधारणादाधारः। आकाशे, भ.श०२ उ२। *आहार पुं. आहरणमाहारः ग्रहणे, क-प्र० / भोजने, प्रश्र अभ्यवहरणे प्रक। आहारनिक्षेपः। नामंठवणा दविए रवेत्ते भावे च हॉति बोधव्वो। एसो खलु आहारेनिक्खेवो होइपंचविहो // (नामंठवणेत्यादि) नामस्थापना द्रव्य क्षेत्रभावरूपः पंचप्रकरो भवति निक्षेप आहारपदाश्रय इति / तत्र नामस्थापनेअनादृत्य द्रव्याहार प्रतिपादयितुमाह / दव्वे सचित्तादी खेत्ते नगरस्स जणवओ होइ / भावाहारो तिविहो ओए, लोमे य पक्खेवे // (दव्वे इत्यादि) द्रव्याहारे चिंत्यमाने स चित्तादिराहारस्विविधो भवति।। तद्यथा सचित्तोऽचित्तो मिश्रश्च तत्रापि सचित्तः षडि विधः पृथिवीकायादिकः। तत्र सचित्तस्यं पृथिवीकायस्य लक्षणादिरूपापन्नस्याहारो द्रष्टव्यः तथाप्कायादरेपीति एवं मिश्रीऽचित्तश्चायोज्यः नवरमनिकायमचित्तं प्रायशो मनुष्या आहारयंति ओदनादेस्तद्रूपत्वादिति / क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते / यदि वा नगरस्य यो देशो धान्यधनादिनोपभोग्यःस क्षेत्राहारः / तद्यथा / मथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो माठरकाहारः खेडाहार इत्यादिभावाहारस्त्वयं / / क्षुधोदयाद्भक्षपर्यायोफ्पन्न वस्तु यदाहार यति स भावाहार इति तत्रापि प्रायश आहारस्य जिव्हेन्द्रियविषयत्वात्तिक्त कटुककषायाम्ललवणमधुररसा गृह्यते / तथा चोक्तं "राईभत्ते भावओ तित्ते वा जाव मधुरेत्यादि" अन्यदपि प्रसंगेन गृह्यते / तद्यथा / खरविशदमभ्यवहार्य भक्ष्यं तत्रापि पुष्पाढ्य ओदनः प्रशस्यते न शीतः / उदकं तु शीतमेव तथा चोक्तं शैत्यमपां प्रधानो गुणः / एवं तावदभ्यवहार्यं द्रव्यमाश्रित्य भावाहारः प्रतिपादितः / सांप्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह / भावाहारस्त्रिविधस्त्रिप्रकारो भवति / आहारकस्य जंतोस्विभिः प्रकारैराहारोपादानादिति / प्रकारानाह (ओहेति) तैजसेन शरीरेण तत्सहचरितेन च कर्मणा कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपरमौदरिकं शरीरं न निष्पद्यते / तथा चोक्तं "तएण कम्मएणं आहारेइ अणंतरं जीवो / तेण परं मिस्सेणं जाव शरीरस्य निष्पत्ती / / तथा / ओहारा जीवा सव्वे आहारगा अपज्जता" | लोमाहारस्तु शरीरपर्यात्त्युत्तरकालं बाह्यया त्वचा लोमभिराहारो लोमाहारस्तथाप्रक्षेपेण कवलादेराहार प्रक्षेपाहारः स च वेदनीयोदयेन चतुर्भिः स्थानराहारसद्भवाद्भावति / तथाचोक्तं " चउहि ठाणेहिं आहारसन्ना समुप्पजइ तं जहा ओमोट्ठयाए छुहावेयणिज्जस्स कम्मस्स उदएणं मई एतमट्ठोवओ गेणंति // सांप्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह / सरीरेणोयाहारो तयायफासेण लोमआहारो। पक्खेवाहारो पुण कावलितो होइ नायव्वो // सरीरेणेत्यादि / तैजसेन कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मि श्रेण च य आहारः स सर्वोऽप्योजाहार इति के चिद् व्याचक्षते / औदरिकादिशरीरपर्याप्तापर्याप्तकोपींद्रिया नापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते तदुत्तरकालं त्वचा स्पर्शद्रियेण आहारः स लोमाहार इति / प्रक्षेपाहारस्तुकावलिकः कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति के ओजाहाराः के लोमाहाराः के प्रक्षेपाहारा पुनरप्येषामेव स्वामिविशेषेण विशेषमाविभर्वियन्नाह // ओयाहारा जीवा सवे अपज्जत्तगा मुणेयव्वा / पज्जत्तगाय लोमे पक्खेवे होइ नायव्वा || ओयाहार इत्यादि / यः प्रागुक्तःशरीरेणौजसाहारस्तेनाहारेणा हारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः / सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः / तत्र प्रथमोत्पत्तौ जीवः पूर्व-शरीरपरित्यागे विग्रहेणाविग्रहेण चोत्पत्तिदेशे तैजसेन कार्मणेन शरीरेण तप्तस्नेहपतितसंपानकवत्तत्प्रदेशस्थानात्पुद्गलानादत्ते तदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोज आहार इति पर्याप्तकास्त्विंद्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यते तदेवं तेलोमाहारा भवंति तत्र स्पर्शद्रियेणोष्मादिना तप्तच्छायया शीतवायुनोदकेन प्रीयतेप्राणी गर्भस्थोऽपि पर्याप्त्युत्तरकालं लोमाहार एवेति प्रक्षेपाहारे तु भजनीया यदैव प्रक्षेपं कुर्वति तदैव प्रक्षेपाहारो नान्यदा लोमा-हारता तु वाय्वादिस्पर्शात्सर्वदैवेति स च लोमाहारश्चक्षुष्म-तामग्दृिष्टिमतां न दृष्टिपथमवतरत्यतोऽसौ प्रतिसमयवर्ती प्रायशः प्रक्षेपाहारस्तूपलभ्यते प्रायः स च नियतकालीयः / तद्यथाः / देवकु रूत्तरकुरुप्रभवा अष्टमभक्ताहाराः संख्येय-वर्षायुषामनियतकालीयः प्रक्षेपाहार इति // सांप्रतं प्रक्षेपाहारं स्वामिविभागेन दर्शयितुमाह ||