________________ आसण 499 अमिधानराजेन्द्रः भाग 2 आसण - तेन कारणेन वारित एतादृशस्तासामभिग्रहः / किन्तु॥ जे यदंसादओपाण, जेय संसप्पगा भुवि। विठुस्स अट्ठियातावि, सहन्ति जह संजया / / व्याः। इह द्विधा कायोत्सर्गश्चेष्टायामभिभवेत्तत्राभिभवकायोत्सर्गसतासां प्रतिषिद्ध इति कृत्वाऽभिधीयते ये च दंशमशकादयः प्राणिनो ये च भुवि संसर्पकाः संचरणशीला उन्दिरकीटकादयस्ते कृतानुपद्रवान् यथासंयताः सहन्ते तथा ता अप्यार्यिकाश्चेष्टा-कायोत्सर्गस्थिता आवश्यकादिवेलायां सम्यक् सहन्ते तत एवं ता अपि कर्मनिर्जरां कुर्वन्ति आह यधुदीर्णकर्मणा तरुणादिना प्रेर्यमाणापि सा संयतीनामुत्पादयति ततः किमिति येना-भिग्रहविशेषेण बहुतरा कर्म निर्जरा भवति सर्वा यत उच्यते॥ वसिज्जा बंभचेरंसि, भुजमाणी तुकीदितु। तदाचित्तं तत्तइंति, थेरा आवयसभीरुणो॥ व्या। यद्यपि काचिदार्यिका धृतिबलयुक्ता युज्यमाना प्रति सेव्यमानापि भावतो ब्रह्मचर्ये वसेत्तथापि स्थविरा गौतमादयः सूरयःप्रवचनापयशः प्रमादभीरवस्तां न पूजयन्ति नप्रशंसंतीत्यर्थः किंच॥ तिव्वाभिग्गहसंजुत्ता, ट्ठाणमोणासणे रता। जहा सुज्झन्ति जयउ, एगाणेगं विहारिणो / / लज्जं च बंभचचंच, रक्खंतीउतवोरता। गच्छे चेव विसुज्जन्ति, तहा अणसणादिहि। व्या। तीरैर्द्रव्यादिविषयैरभिग्रहै: संयुक्तः स्थानमौनासन विशेषेषु रता एकानेकविहारिणः क्वचिदेकाकिविहारिणो जिनकल्पिकादय इत्यर्छः। केचिचानेकविहारिस्थविरकल्पिका इत्यर्थः / एवंविधा यतयोयथा शुध्यन्ति तथा निर्ग्रन्थ्योऽपि लज्जां ब्रह्मचर्य च सूत्रोक्तविधिना रक्षन्त्यस्तपोरता स्वाध्यायादितपः कर्मपरायणा गच्छ एव वसन्त्योऽनशनादिभिर्यथोचितैस्तपोभिः शुद्ध्यन्ति न तीरभिग्रहैः / अपिच॥ जोविदिद्धंधणोहुजा, इत्थिविधोनुकेवली। वसते सोवि गच्छंति, किमुच्छीवेदसिंघणा।। ध्या। योपि दग्धेन्धनो भस्मीकृतवेदमोहनीयकर्मा स्त्रीचिन्हो बहिः स्त्रीलक्षणलक्षितः केवली भवति सोऽपिगच्छवासे वसति किंपुनर्या संयती स्त्रीवेदेन सेन्धनासासुतरां गच्छे वसेदितिभावः / यद्यप्युक्तं यदि न स्वादयति ततः कोनाम तस्याअभिग्रह ग्रहणदोषः तदप्ययुक्तं प्रतिसेव्यमानाया आस्वादनस्य यादृच्छिकत्वात्कथ-मिति चेदुच्यते॥ अलायं घट्ठियं ज्झाइ, फुफुगा सहसायइ। कोवितो वड्डती बाहा, इत्थी वेदेवि सोगमो॥ व्या० / अलातं उल्मुकं घटितं चालितं सत् यथा ध्यायति प्रज्वलति यथा फुफुकाधट्टितं साहसायति भृशं दीप्यते यथा व्याधिरपथ्यासेवनादिना कोपितो वर्द्धते / स्त्रीवेदस्याऽपि समवगमो मन्तव्यः सोपि घट्टितः प्रज्वलतीत्यर्थः / अतोयादृच्छिकमास्यादनमिति आह / संयतीनां प्रतिषिद्धा अमी अभिग्रहाः परं संयतानां का वार्ता अत्रोच्यते। कारणमकारणेविय, गीयत्थंमिय तहा अमीयंमि। एएसव्वे विपए, संजयपक्खे विभासिजा।। व्या. यान्येतानि व्युत्सृष्टकायिकत्वादीनि पदान्युक्तानि तानि कारणे सिंहादिभिरभिभूतस्य देवताकंपननिमित्तं वा गीतार्थस्याऽ गीतार्थस्य वा कल्पन्ते अकारणे पुनरगीतार्थस्य न कल्पन्ते गीतार्थस्य निष्कारणे निर्जरानिमित्तं कल्पन्ते अचेलत्वादिकमपि गीतार्थस्य जिनकल्पं प्रतिपद्यमानस्य कल्पते एवं संयतपक्षे एतान्यचेलतादीनि सर्वाण्यपि पदानिविभाषयेत। सावश्यके आसेन निर्ग्रन्थीनां / / नो कप्पइ निग्गन्थीणं सावस्सयंसि आसणंसि आसइत्त एवा तु अद्वित्तएवा कप्पइ निग्गन्थाणं सावस्सयंसि आसणंसि आसइत्तएवातु यदृित्तएवा। सावश्रयं नाम यस्य पृष्ठतोऽवष्टंभो भवति। एवं विधे आसने निर्ग्रन्थीनां नोकल्पते निर्ग्रन्थानां सावश्रये आसने आसितुं वा कल्पते निर्ग्रन्थ्य एतादृशे आसने यधुपविशति शेरतेवातदातएव गर्वादयो दोषाश्चतुर्गुरुच प्रायश्चित्तं द्वितीयपदे अल्पसागारिकस्थविरोग्लानो वा उपदिशेत् / निर्ग्रन्थानामपि न कल्पते यद्युपविशन्ति तदा चतुर्लघु सूत्रं तु कारणिकं तदेव कारणमाद्द।। सावस्सय इत्यादि पश्चार्ट्स योवृद्ध आचार्यः स पूर्वकृते गृहस्थैस्सार्द्ध निष्पादिते सावायेऽप्यासने उपविष्टोऽसागरिके एकान्तेवा यद्विनेयानां वाचनां दद्यात् सूत्रम्॥ नोकप्पइ निग्गंथीणं सविसाणंसि पठिंसि वा फलगंसि वा आसइत्तएवा तुयदिएवा कप्पइनिगंथाणंसविसाणंसिपीठं सिवा फलगंसि वा आसइत्तएवा तुयदृित्तएवा / / सविषाणं नाम यथा कपाटस्योभयतः शृंगे भवतः / एवं यत्र भिसिकादौ पीठे फलके वा विषाणं शृङ्गं भवति तत्र निर्ग-न्थीनामासितुवा न कल्पते निर्ग्रन्थानान्तु कल्पते / निर्ग्रन्थास्तु सविषाणे पीठे फलके वा यद्युपविशन्ति शेरते च तदा चतुर्गुरुके आज्ञादयश्च दोषाः। तथा॥ सविसाणे उड्डाहो, पावमादीयते पडिक्कुहम्। वितियपए वासासु, कप्पइ छिपणे विसाणम्मि। सविषाण आसने उपविशत्यामार्यिकायामुड्डाहो भवति। पादकर्मादयश्च दोषास्संभवन्ति। ततः प्रतिकुष्ट तत्रोपवेशन मितिगम्यते द्वितीयपदे वर्षासु पीठफलकदुर्लभतायां सविषाण मपि गृह्यते तस्य च विषाणंच्छित्वा परिष्ठाप्यते एवं च्छिन्ने विषाणे स्थविराया अन्यस्या वा कल्पते॥ जंतु लज्झइ छित्तुं तं,थेरीणं दलंति सविसाणं। इंति यसे दंडपाउं,छणघणमट्टिया एवा / / यत्रपुनःस्थातुंन कल्पतेततः सविषाणमपितदासनं स्थ-विरसाध्वीनां साधवः प्रयच्छन्ति / तदियं च दंडपादपोंछनंघनं छादयन्ति / तेनच चेष्टयित्वा स्थूलतरं कुर्वन्तीत्यर्थः। मृत्तिकया परिवेष्टयन्ति निर्ग्रथानां सविषाणमपि कल्पते। कुत इत्याह। समणाणउ ते दोसा, न हुंति तेण तदुपणुण्णा य। पीठं आसणहे. फलगं पुण होइ सेज्जहा। श्रमणानां पुनस्ते पादकदियो दोषा न भवन्ति ततो द्वे अपि पीठकफलके सविषाणेप्यनुज्ञाते / तत्र पीठमासनहेतोः फलकं पुनः शय्यार्थं शयननिमित्तं वर्षासु गृह्यते। अथ किमर्थं वर्षासु तत्रोपवेशनं शयनं वा क्रियते इत्याह॥