________________ आवस्सिया 491 अमिधानराजेन्द्रः भाग 2 आवस्सिया मोक्षमार्गाभिलाषोऽपिभवति / तद्व्यवच्छेदार्थमाह / मोक्षमार्गः सम्यक् ज्ञानदर्शनचारित्ररूपस्तमुत्तरोत्तरविशुद्धिरूपम भिलषितुं शीलमस्य स तस्य अयं चैवंविधोऽपरिणतगुरूपदेशोऽपि स्यात्तन्निरासार्थमाह। स्थितः कर्तव्यतया परिणतो गुरूपदेशो यस्यासौ स्थितगुरूपदेशस्तस्य किं यथायोग्यमुपदिशंतीत्याह / बालग्लानयो रिवाहारं यथोपदिशंति भिषजेति गम्यते,। इदमुक्तं भवति। यथा आदौ बालस्य कोमलमधुरादिक ग्लानस्य च पेयमुद्गयूषादिकं तत्कालोचितं उत्तरोत्तरबलपुष्ट्यादिहेतु-माहारयोग्यं भेषजं समुपदिशति तथेहापिभव्यादिविशेषण विशिष्टस्य जंतोरादाविदमेवावश्यकमुत्तरोत्तरगुणवृद्धिहेतुभूत-योग्यमुपदिशंति तीर्थकरगणधरा इति आवश्यकस्य चादौ शिष्यप्रदानाऽवसरे प्रतिपादिते तदनुयोगस्याऽसौ प्रतिपादित एव द्रष्टव्यस्तयोरेकत्वस्यानंतरमेवाख्यातत्वादिति गाथार्थः |4| आह ननु यस्य भव्यादिविशेषणविशिष्टस्यादौ योग्यमि-दमावश्यक तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद्ददत्याचार्या आहो स्विदन्योऽपि तत्र कश्चिद्विधिरपेक्षणीय इति शिष्य-वचनमांशक्यास्मिन्नेवानुयोगद्वारे तदानविधानादि किंचिल्लेशतः प्रासंगिकमभिधित्सुराह / कयपंचनमुक्कारस्स, दित्तिसामाइयायं विहिणा। आवस्सयमायरिया, कमेण तो सेसयसुअंपि॥ व्याक्या / भव्यादिविशेषण विशिष्ट स्याऽपि शिष्यस्य कृत पंचनमस्कारस्य चतुर्थ्यर्थे षष्ठी कृतपं चनमस्काराय मंगलार्थमुच्चारितपंचनमस्कृतिमंगलायेत्यर्थः / / सामायिकादिकमावासकं विधिना प्रशस्तद्रव्यक्षेत्रकालभाव रूपेण प्रशस्तदिगभिमुखव्यवस्थापनारूपेण च समयोक्तेन ददत्याचार्या नपुन योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भावः (तत उर्ध्वमस्मै किन किंचित ददतीत्याह) क्रमेण ततः शेष मप्याचारादिश्रुतं प्रयच्छंति यावत्श्रुतोदधेः पारमिति गाथार्थः। आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाह / / तेणेवयाणुओगं, कमेण तेणेव याऽहिगारोयं // जेण विणेयहियत्था, यत्थेरकप्पे कमो एसो ||1|| चकारोऽपि शब्दार्थोभिन्नक्रमश्च। ततस्तेनैव पंचनमस्कार करणादिना क्रमेणानुयोगमपि सूत्रव्याख्यानरूपं ददत्याचार्या इति वर्तते अनयोश्च सूत्रप्रदानक्रमानुयोगप्रदानक्रमयोर्मध्ये तेनैव प्रस्तुतगाच्छाप्रक्रांतेनानुयोगप्रदानक्र मेणायमस्मदभिमतोऽधिकारः अनुयोगस्यैवेह प्रस्तुतत्वादितिभावः / कुतः पुनरिहानु-योगप्रदानक्रमेणैवाऽधिकारः इत्याह / येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणप्राप्तिमपेक्षेत्यर्थः / स्थविराणां गच्छवासिनां साधूनां योऽसौ विकल्पः सामाचारविशेषस्त स्यैषोऽनंतरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपस्तेन कारणेनाऽनुयोगप्रदानक्रमेणैवेहाधिकारोऽयमिति. विशे॥ आवस्सिया-स्त्री. (आवश्यिकी) अवश्यं कर्तव्यमावश्यकम् तत्र भवाऽऽवश्यिकी अनु / अवश्यंकर्तव्योगैर्निष्पन्नाऽऽवश्यकी स्था, ठा० 20 / अवश्यं कर्तव्यैश्चरणकरणयोगैर्निर्वृत्ताऽऽवश्यकी जीत / आव.३ अ / अप्रमत्तत्वेनावश्यकर्त्तव्यव्या पारे भवाऽऽवश्यकी उत्त० 26 अ / आवश्यकेषु अप्रमत्ततयाऽवश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यिकी ग. 2 अ सामाचारीभेदे, (पढमा) आवस्सिया नाम) उत्त० 26 अ / प्रथमा सामाचारी आवश्यकी नाम्नी यतः उपाश्रयात् निर्गच्छन् / साधुरावश्यकीति वदति उपाश्रयात् बर्हि निःसरणं चावश्यकी विना न स्यात् तेन आवश्यकीति प्रथमा सामाचारी ज्ञानाद्यालंबनेनोपाश्रयात् बहिरवश्यं गमने समुपस्थितेऽवश्यंकर्तव्यमिदमतोगच्छा-म्यहमित्येवं गुरुं प्रतिनिवेदनाऽऽवश्यकीति हृदयम्। अनु० / वृ.१ ऊ / स्था. प्रक० / (गमणे आवस्सियं कुछा) उत्त, गमने स्वस्थानादन्यत्रगमने अप्रमत्तत्वेन अवश्यकर्त्तव्यव्यापारे भवा आवश्यिकी तां आवश्यिकीं कुर्यात् यतोहि साधोर्गमनंनिष्प्रयोजनं नास्तियदि अवश्यं किंचित्कायं समुत्पन्नं वर्तते तदैव साधुः स्वस्थानादुत्थितोस्ति इति भावः। अथाऽवश्यकीस्वरूपमाह। कजेणं गच्छंतस्स, गुरुणिओएणसुत्तणीइए। आवस्सियत्तिणेया शुद्धा अम्णत्थजोगाओ।। व्याख्या। कार्येण ज्ञानादिप्रयोजनेनानेन निष्कारणगमन-निषेध उक्तो गच्छतो वसतेर्निर्गच्छतः साधोः किंस्वच्छंदेन नेत्याह / गुरुनियोगेन गुर्वनुज्ञया तत्रापि सूत्रनीत्यागमन्यायेन (इयास) मित्यादिलक्षणेन किमित्याह। आवश्यिकी अवश्यंकृत्यनिर्वृत्ता निर्गमक्रियात्सूचिका वाक् इति एवमुक्तन्यायेन ज्ञेयाऽवसे या किंभूतशुद्धाऽनवेद्याकुतइत्याह / अन्वर्थयोगान् अनुगतशब्दार्थसंबधान् अन्वच्छश्चोक्त एव प्रकारांतरेण पुनरशुद्धेति गाथार्थः / / कार्येण गच्छत इत्युक्तं किंपुनस्तदित्याह। कछविण्णाण दंसण, चरित्तजोगाण साहगं जंतु। जइणो सेसमकजं, तत्थ आवस्सियासुद्धा / / 19 / व्याख्या। इहापिशब्दः पुनरर्थः ततश्चावश्यिकी कार्येण-गच्छतोभवति कार्य पुननिदर्शनचारित्रयोगादित्रयतगव्यापाराणां साधकं हेतुभूतं भिक्षाटनादियत् इह तदिति शेषोदृश्-यस्तुशब्दश्चैवकारार्थस्ततश्च तदेव नान्यत् कस्येत्याह / यतेः साधोः शेष ज्ञानादिसाधनान्यदकार्यमप्रयोजनमुमुक्षुत्वात्सा धोरिति किं वातइत्याह नैव तत्र ज्ञानाद्यसाधनप्रयोजनेगच्छत इति गम्यते आवश्यिकी पूर्वोक्तनिर्वचनाशुद्धानिर्दोषान्वर्या भावादिति गाथार्थः। यद्यसौ न शुद्धा तर्हि किंविधा सेत्याह / / वइमेनं णिटिवसयं, दोसायमुसत्तिएव विण्णेयं / कुसलेहिं वयणाओ, वइरेगेणंजओभणियं // 2 / / व्याख्या / वागेव वचनमेव वाङ्मात्रं साविश्यिकीति प्रकृतंवाङ् मात्रमित्यत्रावधारणार्थमात्रशब्दस्य व्यवच्छेद्यं यदाह निर्विषयं निर्गों चरमनर्थकमित्यर्थः किंफलंच तदित्याह दोषाय कमबद्धलक्षणदूषणार्थं कस्मोदवमित्याह मृषेति अनृतमिति कृत्वा प्रतीतं चानृतस्य दोषार्थत्वमिति (एवत्ति) इहानुस्वारस्याऽश्रवणं-छंदोवशात् एवमुक्तस्वरूप विज्ञेयं ज्ञातव्यं कुशलैर्निपुणैरन्येषां ज्ञानासक्तत्वावचननादागमाद्विवक्षितवचनस्यैव प्रस्तावनार्थमाह। व्यतिरेकेण प्रकृमविपर्ययेम यतोयस्माद्भणितमुक्तं सामायिकनिर्युक्ताविति गाथार्थः // यदुक्तं तदाह॥ आवस्सियाउ आवस्स, एहिं सवेजुत्तंजोगस्स। एयस्सेसो उचिओ, यिरस्सणचेव णत्तित्ति।। व्याख्या / आवश्यिकी तु प्रागुक्त निर्वचना तु पुनः शब्दार्थः आवश्यकैः प्रतिक्रमणादिभिः सर्व समस्तैर्युक्तयोगस्य संयुक्तकायादिचेष्टस्य शुद्धा भवतीति शेषः / तदिदंव्यतिरेक भणितं