SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आवस्सयाणुओग. 490 अभिधानराजेन्द्रः भाग 2 आवस्सयाणुओग. प्रवचननमस्कारं च कुर्वद्भिः पूज्यैः सिद्धांततत्वावगमरसाऽनुरंजितहृदयत्वादात्मनःप्रवचनभक्तयतिशयःप्रख्यापितो भवति इत्यलमितिविस्तरेण / मंगलादिविचारविषयह्याक्षेपपरिहारादिकमिहैव ग्रंथकारोऽपि संक्षेपेण वक्ष्यतीति तदेवमियं गाथा सर्वोऽपि चायं ग्रंथो महामतिभिः पूर्वसूरिभि-गंभीरवाक्यप्रबंधैः व्युत्पन्नभणितिप्रकारेण व्याख्यातः तच्च व्याख्यान मित्थं युक्तमपि गौरवत्वं पांडुरोगन्यायेन मतिमांद्यात्सांप्रतकालीनशिष्याणां न तथाविधार्थावगमहेतुतां प्रतिपद्यत इत्याकलय्य मंदमतिनापि मया तेषां मंदतरमतीनां शिष्याणां अर्थावगमनिमित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्याख्या-ता। सर्वोपिच ग्रंथोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रति-पत्तव्यं / नच वक्तव्यं येषां महामतिपूर्वपुरुषवचनैरर्थावबोधो न संपद्यते तेषां मंदबुद्धर्भवतो वचनेन कुतोऽयंसंपत्स्यते इति यतो-जायत एव समानशीलवचनैः समानशीलानामर्थप्रतिपत्तिर्यदाह। गामिल्लुयाण गामिल्लु, एहि मिच्छाण हति मिच्छेहि। सम्म पडिवत्ती ओ, अत्थस्स नविबुहमणिएहिं॥ नियमासायेभणंति, समाणसीलंमि अपडिवत्ती। जायइ मंदस्स वि, न उण विविह सक्कयपबंधेहिं / / इत्यलंबहुभाषितेनेति गाथार्थः / आवश्यकानुयोगोऽत्राऽभि धास्यत इत्युक्तं किंपुनरस्य फलादिकं यदवगम्य वयं तच्छ्रवणादौ प्रवर्तामह इति प्रेक्षावच्छिष्यवचनमाशंक्यावश्यकानु योगस्य पलादीन्यभिधित्सुस्तत्संग्रहपरां द्वारगाथामाह॥ तस्सफलजोगमंगल, समुदायत्था तहेवदाराई। तम्भेयनिरुतकम, पञ्चोयणाई चवचाई।। व्याख्या / तस्येत्यावश्यकानुयोगस्य प्रेक्षावतांप्रवृत्तिनिमित्तिं फलं मोक्षप्राप्तिलक्षणं तावदत्रग्रंथेवक्तव्यं ततोऽस्यप्रयोगः शिष्यप्रदाने संबंधोऽवसरः प्रस्तावो वाच्यः / आवश्यकानुयोगे च क्रियमाणे किं मंगलमित्येतदपि निरूपणीयं सामायिकाद्यध्यय नानां (सावज्जजोगविरइ ओ, वित्तणगुणवओ अपडिवत्ती) त्यादि-गाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः / फलं च योगश्च मंगलं च समुदायार्थश्चेति समासः (तेहवदारांइंति) तथा द्वाराणि चोपक्रमनिक्षेपादीनि कथनीयानि तेषांद्वाराणां भेदो-वक्तव्यः। तद्यथा आनुपूर्वी / नामप्रमाणवक्तव्यतार्थाधि-कारसमवतारभेदादुप्रक्रमः षोढा / ओघनिष्पन्ननामनिष्पन्न-सूत्रालापकनिष्पन्नभेदान्निक्षेपस्त्रिधा। सूत्रनियुक्तिभेदादनुगमो द्विधा / नैगमादिभेदान्नयाः सप्तविधा इत्यादि। उपक्रमणमुपक्रमो निक्षेपणं निक्षेप इत्यादि निरुक्तं च शब्द व्युत्पत्तिरूपं भणनीयं। तथा (कमत्ति) तेषामुपक्रमादिद्वाराणांप्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एवेत्येवंरूपो योऽसौ नियतःक्रमः सयुक्तयाभिधानतोनिद्देष्टव्यो युक्तिं चात्रैव वक्ष्यति / तद्यथा नानुपक्रांत निक्षिप्यतेना निक्षिप्तमनुगम्यत् इत्यादि तथोपक्रमादिद्वाराणां एवं प्रयोजनशास्त्रोपकाररूपनगरदृष्टांतेन वाच्यं यथा सप्रकारांमहानगरं किमप्यकृतद्वारं लोकस्य नाश्रयणीयं भवत्येकादि-द्वारोपेतमपि दुखनिर्गमप्रवेशं जायते चतुरोपेतं तु सर्वजना-भिगमनीयं सुखनिर्गमप्रवेशं च संपद्यते। एवं शास्त्रमप्यु-पक्रमादिचतुर्दारयुक्तं सुबोध सुखचिंतनधारणादिसंपन्नं भवतीत्येवमुपक्रमादि द्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजन महवक्ष्यत इति भावः। भेदश्च निरुक्तंच क्रमश्च प्रयोजनं चेति द्वंद्वंकृत्वा पश्चात षामुपक्रमादिद्वाराणां भेद निरुक्त- क्रमप्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेयः / चः समुच्चये वाच्यानीति यथा योगमर्थतः सर्वत्र योजितमेवेति द्वार-गाथासंक्षेपार्थः // 2 // विस्तरार्थतु भाष्यकार एव दिदर्शयिषुर्यथो-द्देशं निर्देश इति कृत्वा प्रेक्षावतां प्रवृत्यर्थमावश्यकानुयोगफल-प्रतिपादितां तावद्भाथामाह। नाणकिरियाहि मुक्खो, तम्मयमावस्सयं जओतेणं। तव्वक्खाणारंभो, कारणओकज्जासिद्धित्ति॥ व्याख्या / ज्ञानं च सम्यगऽवबोधरूपं क्रियाच तत्पूर्वकसावद्याऽवद्ययोगनिवृत्तिप्रवृतिरूपा ज्ञानक्रिये ताभ्यां तावन्मोक्षोऽशेषकर्ममलकलंकाभावरूपः साध्यत इति सर्वेषामपि शिष्टानां प्रमाणसिद्धमेव दर्शनस्य ज्ञान एवांतर्निहितत्वादिति / यदि नाम ज्ञानक्रियाभ्यां मोक्षस्तावश्यकानुयोगस्य किमायातं येन फलवत्तया प्रेक्षावतां तत्र प्रवृत्तिः स्यादित्याह तन्मयमावश्यकं ताभ्यां क्षानक्रियाभ्यां निर्वृत्तंतन्मयं ज्ञानक्रियास्वरूपमावश्यकं तत्कारणत्वादिति भावः / यथा ह्यायुवृद्धिकारणत्वेनोपचारा-ल्लोके घृतमायुरुच्यते नड्वलोदकं वा पादरोगकारणत्वात्तथैवा भिधीयते एवं प्रस्तुतानुयोग विषयीकृतं सामायिकादिषडध्ययनसूत्रात्मकमावश्यकमपि सम्यग्ज्ञानक्रियाकारणत्वात् स्वरूप मेव तदध्ययनश्रवणचिंतनतदुक्ताचरणप्रवृत्तानामवश्यं सम्य-गज्ञानक्रियाप्राप्तेस्तस्मादुक्तन्यायेन ज्ञानक्रियात्मकं यत् आवश्यकमतस्तस्यावश्यकस्य व्याख्यानं अनुयोगस्तद्व्याख्यानंतस्यारं भप्रेक्षावता क्रियामाणो न विरुध्यते / आवश्यकात्सम्यक् ज्ञानक्रियाप्राप्तिद्वारेण मोक्षलक्षणफलसिद्धेः / नन्वित्थंतह्यावश्यकात्सम्यग्ज्ञानक्रियाप्राप्तिस्ताभ्यां च मोक्षलक्षणफलसिद्धिरित्येवमावश्य कस्यैव पारंपर्येणमोक्षात्मकं फलं स्यात् नपुनस्यदनुयोगस्य फलचिंता त्वस्यैवेह प्रस्तुतेतिचेत्सत्यं कित्वावश्यक व्याख्येयं तद्व्याख्यानं चानुयोगो व्याख्यानेचव्याख्येयगत एव सर्वोऽभिप्रायः प्रकटीक्रियतेऽतोव्याख्येयस्ययत्फलं व्याख्या नस्य तत्सुतरामवसे यं तयोरेकाऽभिप्रायत्वात् तस्मात् मोक्षलक्षणं फलमभिवाञ्छता आवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव ततोऽपि ज्ञानक्रियाप्राप्ते स्ताभ्यां च मोक्षफलसिद्धिरिति। यदि नामावश्यकानुयोगतो ज्ञानक्रियावाऽप्तिस्ताभ्यां च मोक्षसिद्धिस्तथापि किमिति तत्र प्रवृर्तितव्यं न पुनर्यत्र कुत्रचित्षष्ठि तंत्रादावित्याह ! कारणात्कार्यसिद्धिर्नाकारणादिति कृत्वा कारणे हि सुविवेचितेप्रवर्त्तमानाः प्रेक्षावंतः समीहितमप्रति हतं कार्य-मासादयंति नाकारणे अन्यथा तृणादपि हिरएयमणिमौक्ति-कावाप्तेः सर्वविश्वमदरिद्र स्यात्कारणं च पारंपर्येणावश्यकानुयोग एव मोक्षस्य न षष्ठि तंत्रादिकं ज्ञानक्रियाजननद्वारेण तस्य मोक्षसंसाधकत्वादितरस्य तु पारंपर्येणापितदसाधकत्वा-दितिगाच्छार्थः। उक्तं फलद्वारमधुना योगद्वारमभिधित्सुराह। भव्वस्स मोक्खमग्गाहि, लासिणो ठि अगुरूवएसस्स। आइए जोगामिणं, वाल गिलाणस्स बाहारं / / व्याख्या।यदादीप्रतिज्ञातंशिष्यप्रदानेऽस्ययोग्योऽवसरोवाच्यइति। तत्राह। समस्तद्वादशांगाऽध्ययनकालस्यादौ प्रथममिदं षड्विधमावश्यक योग्यमुपदिशंति मुनयः शेषसमग्रश्रुत प्रदानकालस्यादौ प्रथममेवावश्यकप्रदानस्थाऽवसरइतिभावः कस्यपुनरिदमावश्यकंयोग्यमादिशंतिमुनयः इत्याह / भव्य स्यमुक्तिामनांग्यस्य जतोः स च कश्चिदूरभव्योऽसंजात.
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy