________________ आवस्सयाणुओग 489 अमिधानराजेन्द्रः भाग 2 आवस्सयाणुओग चारादीनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभि धास्थते इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवत्येवमत्राप्यावश्यकश्रुतस्कंध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुददायार्थः प्रतिपादितो भवति अत ऊर्द्ध पुनरेकैकमध्ययनं कीर्तयिष्यामीति गाथार्थः / तत्कीर्तनार्थमेवाह तद्यथा सामायिक चतुर्विंशतिस्तवो वंदनं प्रतिक्रमणं कायोत्सर्गप्रत्याख्यानं विशे० / आ. म. प्र.१ अ० // आवस्सयाणुओग-पुं. (आवश्यकानुयोग) आवश्यकव्याख्याने, अनु०॥ आ. चू०१ अ विशे कयपवयणप्पणामो, वोच्छं चरणगुणसंगहं सयलं। आवस्सयाणुओगं गुरुवएसाणुसारेणं / / व्याख्या / वोच्छमिति क्रिया वक्ष्येऽभिधास्येत्यर्थः / किमि-त्याह (आवस्सयाणुओगति) अवश्यं कर्तव्यमावश्यक सामायिकादिरूपं / क्वचिदावासयाणुयोगमितिपाठस्तत्राप्यासमंतात्ज्ञानादिगुणैः शून्यंजीवं वासयति तैर्युक्तं करोतीत्या-वासकं सामायिकादिरूपमेव तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधिप्रतिषेधाभ्यामर्थप्ररूपणमित्यर्थः किंविशिष्टः सन्नित्याह (कयपवयणप्पणामोत्ति) प्रोच्यते ऽने नास्मादस्मिन्वा जीवादयः पदार्था इति प्रवचनं / अथ वा प्रशब्दस्याव्य-यत्वेनाऽनेकार्थद्योतकत्वात्प्रगतं जीवादिपदार्थव्यापकं प्रशस्त मादौ वा वचनं द्वादशांगं गणिपिटकं आदित्वं चास्य विवक्षिततीर्थकरापक्षया द्रष्ट व्यं / नमस्तीर्थायेति वचनात्तीर्थकरेणापि तन्नमस्करणादिति / अथवा जीवादितत्वं प्रवक्तीति प्रवचनमिति व्युत्पत्तेादशांगंगणिपिटकोपयोगानन्यत्वाद्वाचतुर्विध-श्रीश्रमणसंघोऽपि प्रवचनमुच्यते / कृतो विहितो यथोक्तप्रवचन-स्य प्रणामो नमस्कारो येन मया सोऽहं कृतप्रवचनप्रणामःकिं-स्वरूपमावश्यकानुयोगमित्याह (चरणगुणसंगहति) चर्यते मुमुक्षुभिरासेव्यते इति चरण / अथवा चर्यते गम्यते प्राप्यते भवो-दधेः परकूलमनेनेति चरणं / व्रतश्रमणधर्मादयो मूलगुणाः गुण्यंते संख्यायंत इति गुणाः पिंडविशुद्ध्याधुत्तरगुणरूपाः चरणंच गुणाश्च चरणगुणाः अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवक्षितं। गुणशब्देन तु दर्शनज्ञाने ततश्च चरणं च गुणौच चरणगुणास्तेषां संगृहीतिः संग्रहश्चरणगुणसंग्रहहस्तं स च देशतोऽपि भवतीत्याह। सकलं परिपूर्ण आह / नत्वावश्यकानुयोगस्ता-वदावश्यकव्याख्यानं / चरणगुणसंग्रहस्तु ज्ञानदर्शनचारित्रसंगृहीतिरूपस्ततोऽत्यंतभिन्नाधिकरणत्वात्कथमनयोः सामानाधिकरण्यं सत्यं किंतु (सामाश्यं च तिविहं सम्मत्तसुअं तहाचरित्तं चेत्यादि) वक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत्संपूर्ण चरणगुणसंग्राहकः / किं पुनः सकलावश्यकानुयोगस्ततश्च संपूर्णचरणगुणसंग्रहयुक्तत्वादावश्यकानुयोगोऽपि संपूर्णचरणगुण संग्रहत्वेनोक्तो यथा दंडयोगा द्दण्डः पुरुष इत्यदोषः अथ वा चरणगुणानां संग्रहोयत्राऽवश्यकानुयोगोऽसौ चरणगुणसंग्रह इति बहुव्रीहिपक्षे प्रेर्यमेव नास्ति केवलमस्मिन् पक्षे सकलमिति विशेषणमावश्यकानुयोगस्य चरणगुणसंग्रहसंपूर्णत्वापेक्षयैव द्रष्टव्यमित्येतच कष्टगम्यमित्युपेक्षते आह। ननुयदि (सामाइयंचतिविह) मित्यादि वक्ष्यमाणवचनात्सामायिकस्य संपूर्ण-चरणगुणसंग्राहकत्वंतर्हि तदनुयोगस्य तदरूपत्वे किमायातं नैत-देवं सामायिकं हि व्याख्येयं अनुयोगगस्तु व्याख्यानं व्याख्ये-यव्याख्यानयोश्चैकाभिप्रायत्वा दिहाभेदेन विवक्षित्वाददोषः इत्यलमितिचर्यति अनेन च संपूर्णचरणगुणसंग्रहलक्षणेन स्वरूपविशेषणेनावश्यकानुयोगस्य महार्थतां दर्शयति भाष्यकारः / आह / ननु यदि त्वया आवश्यकानुयोगः स्वमनीषिकया वक्ष्यते तदाऽनादेय एवायं प्रेक्षावतां छद्मस्थत्वे सति स्वतंत्र-तयाभिधीयमानत्वाद्रथ्यापुरुषवाक्यवदिति परवचनमाशंक्यतदुपन्यस्तहेतोरसिद्धतां उपदर्शयन्नाह (गुरुवएसाणु-सारेणंति) गृणंति तत्वमितिगुरवस्तीर्थकरगणधरादय-स्तेषामुपदेशो भणनं तदनुसारेण तत्पारतंत्र्येणावश्यकानुयोगमहं वक्ष्ये नतु स्वमनीषिकया अतः स्वतंत्रयाऽभिधीयमान-त्वादित्यासिद्धो हेतुरिति भावः / यो हि छद्मस्थः सन्परम-गुरुपदशानपेक्षस्वतंत्रमेव वक्ति रथ्यापुरुषस्येव तस्य वचोऽनादेयमिति॥ वयमपि मन्यामहे के वलं तदिह नास्ति परमगुरूपदेशानुसारेणैवावश्यकानुयोगस्य मयाऽभिधीयमानत्वादिति / तदेव कृतप्रवचनप्रणामो गुरुपदेशनिश्रयसकलंचरणगुणसंग्रह-रूपमावश्यकानुयोगमहं वक्ष्ये इति पिंडार्थः / / आह / ननु श्रीमद्भद्रबाहुप्रणीता सामयिकनियुक्ति रिह भाष्ये व्याख्यास्यते। तत्कथमिदमावश्यकानुयोगोऽभिधीयते तदेवमभिप्रायापरिज्ञानात्तथाहि / सामायिकस्य षड्विधावश्य कैकदेशत्वादावश्यकरूपता तावन्न विरुध्यते / तन्नियुक्तिस्त तद्व्याख्यानरूपेव व्याख्यानयोश्चैकाभिप्रायत्वादेककत्वमित्यनं तरमेवोक्तं / तस्मात्सामायिकस्य तन्नियुक्तेश्च सर्वस्यावश्यकत्वात्तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता भाष्यस्य न विहन्यत इत्यलंविस्तरेण / अस्याश्च गाथायाः प्रथमपादेन विघसंघातार्थं मंगलेहतुत्वादिष्टदेवतानमस्कारः कृतः। शेषपादत्रयेण त्वभिधेयप्रयोजनसंबंधाभिधानमकारितत्रावश्यकानुयोग वक्ष्य इति ब्रुवता आवश्यकानुयोगोऽस्यशास्त्रस्याऽभिधेय इति साक्षादेवोक्तं प्रयोजनसंबंधौ तु सामर्थ्यादुक्ती तथाहि संपूर्णचरणगुणसंग्राहकत्वं दर्शयता ज्ञानदर्शनचारित्राधारताऽस्य शास्त्रस्य दर्शिता भवति / तद्पाणि शास्त्राणि पाठनश्रवणादिभिरनुशील्यमानानि स्वर्गापवर्गप्राप्तिनिबंधनानि भवंतीति प्रतीतमेव / अतः स्वर्गमोक्षफलावाप्तिरस्स शास्त्रस्य प्रयोजनमिति सामर्थ्यादुक्तं भवति / अभिधेयाऽभिधायकायोश्च वाचकलक्षण: संबंधोऽप्यदिभिहितो भवति / अस्यां च संबंधप्रयोजनाभिधानादिचर्यायां बह्वपि वक्तव्यमस्ति केवलं बहुषुशास्त्रेष्वतिचर्चितत्वेन सुप्रतीतत्वात्तथाविधसाध्यशून्यत्वाच नेहोच्यत। अनेन चाऽभिधेयाभिधानेन शास्त्रस्य श्रवणादौ शिष्य-प्रवृत्तिः साधिता भवति / अन्यथा हि न श्रवणादियोग्यमिदं निरभिधेयत्वात्काकदंतपरीक्षावदित्याशंक्य नेहकश्चित्प्रवर्तते / उक्तंच॥ सीसपवित्तिनिमित्तं, अभिधेयपओ अणाई संबन्धो। ओवत्तयाइं सत्थे, तस्सुन्नत्तं सुणिजिहरा॥ एवं मंगलाद्यभिधाने व्यवस्थापिते कश्चिदाह। नन्वर्हदादयएवेष्टदेवतात्वेन प्रसिद्धास्तत्किमिति तान्विहाय ग्रंथकृता प्रवचनस्य नमस्कारः कृतः / इत्यत्रोच्यते। नमस्तीर्थायति वच-नादर्हदादीनामपिवचनमेव नमस्करणीयं अपरं चाहदादयो-प्यस्मदादिभिः प्रवचनोपदेशेनैव ज्ञायते तीर्थमपि च चिरकालं प्रवचनावष्टंभेनैव प्रवर्तत इत्यादिविवक्षयाऽर्हदादिभ्योपि प्रवचनस्य प्रधानत्वात्ज्ञानादिगुणात्मकत्वाचेष्टदेवतात्वं नविरुद्धयत