________________ आवस्सयसुयखंध 488 अभिधानराजेन्द्रः भाग२ आवस्सयसुयखंध ध्ययनं श्रुत्वा तत् आवश्यकं श्रोतव्यमितीत्थंक्रमोऽतः कथं नंद्यध्ययनस्य प्रथमव्याख्यानाकरणं येन प्रस्तुत-शंका स्यादित्याशंक्याह। (तस्से) त्यादितस्य प्रथमं नदिव्या-क्यानकरणस्याऽत एवांगाऽनगप्रश्ननिर्णयवचनादाचार्योऽनियमं दर्शयति / पुरुषाद्यपेक्षयाऽन्यथापि नंधादिव्याख्यानकरणादिति / आह / ननुमंगलार्थ सर्वेषामपि शास्त्राणामादौ गंदिव्याख्यानम् कर्त्तव्यमेवेति कथं तदनियम इत्याह / नाणाभिहाणमित्तं, मंगल मिटुं नती एवरकाणं। इह सवत्थाणे जुञ्जइ, जं सावीसुं सुयक्खंधो॥ ज्ञानपंवकाभिधानमात्रमेव शास्त्रादौ मंगलमिष्टं नतु तस्या नंद्याः सर्वस्या अपि शास्त्ररूपाया इहास्थाने व्याख्यानं युज्यते तथाहि पथि प्रस्थितैर्मंगलभूतं दधिदूर्वाक्षतादिवस्तूनामभिधान-दर्शनादीन्येव मंगलतया गृह्यते नतु तद्भक्षणतद्गुणवर्णा दीन्यपि क्रियते / तथेहापि ज्ञानोत्कीर्तनमात्रमेव मंगलं युज्यते नतु नंदिव्याख्यानमिह तस्य स्थानत्वान्नह्यावश्यकशास्त्रारंभेशास्त्रांतरभूताया नंद्या व्याख्यानं युज्यते अतिप्रसंगान च वक्तव्यं सर्वशास्त्रांतरभूतैव नंदी यद्यत्स्मात्साविष्वक्पृथगेव श्रुतस्कंधतया सिद्धांते प्रसिद्धा श्रुतस्कंधत्वं चास्याः पदवाक्य समूहात्मकत्वेनैव द्रष्टव्यं नत्वध्ययनकलापात्मकं परिभाषितमेकाध्ययनरूपत्वेन रूढत्वादिति / ननु यदि नंदिव्याख्यानस्य स्थानमिदं तर्हि-किमितीत्थमादावेवं भवद्भिर्ज्ञानपंचकं विस्तरेण व्याख्यातमिति पौर्वापर्येण स्ववचननिरोध इत्यशंक्याह। इहसाणुग्गहमुइयं न उ नियमोयमहवा पवादोयं / दाइज्जइ कहणा, एकयाइ पुरिसादवि क्खाथ। इहावश्यकारंभे यद्विस्तरेण ज्ञानपचंकऽस्यादौ व्याख्यातं तत्सानुग्रह शिष्याऽनुग्रहमास्थायोदितमस्माभिर्नपुनरयं नियम एव ज्ञानोत्कीर्तनमात्रस्यैव नियमेन मंगलतयात्राऽभीष्टत्वादथवा कथनया कथनविधेरपवादोऽयं दृश्यते यथेह पुरुषाद्यऽपेक्षया कदा क्रमेणापि शास्त्राणि व्याख्यान्ते अन्यारंभेअथान्यद्वा व्याख्यायत इति तस्मादावश्यकश्रुतस्कंधस्याऽनुयोग इति स्थिते किमिदानी कर्तव्यमित्याह। आवस्सयसुयक्खंधो, नामं सत्थस्स तस्स जेभेया। ताइं अज्झयणाई,नासो आवस्सयाइणं ||1|| कप्पोपिहविहाणं,जहत्थ मजहत्थछउसूण्णत्ति। नामे चेव परिछाग,त्तं जइ होहि इ जहछं ||2|| इह प्रस्तुतशास्त्रस्यावश्यकश्रुतस्कंध इति नाम तस्यचावश्य कस्य ये सामायिकादयाषढ़ेदाः स्तान्यऽध्ययनान्यऽभिधीयते तत आवश्यकादिपदानामावश्यकं श्रुतस्कंधोऽध्ययनमित्येषां पदानां न्यासो निक्षेपः पृथक्कार्यःकुतइत्यस्मद्धेतोर्यतकिंचिन्नाम तावद्यथार्थ भवति यथा दीपो दहन इत्यादि / किंचित् त्वयथार्थं भवति यथापलाशो मंडप इत्यादि अपरं त्वर्थशून्यभवति यथा डित्यकपित्थइत्यादि यथार्थ च शास्त्राभिधानमिप्यते तत्रैव समुदायाविगतेरतो नाम्न्येव परीक्षाविचारणाक्रियते ततो-ग्राह्यमिदं यदि यथार्थ स्यादिति। विशे० // अथ सामायिकाद्यध्ययनानामर्थाधिकारर्दशनार्थं प्रस्ताव नामाह। किंपुण छक्कझयणं, जेणछलत्था हिगाराविणिउत्तं / सामाइयाइयाणां, ते य इमे तज्जहासंखं / आह किं पुनरिह कारणं येन षडध्ययनमिदमावश्यकं षडध्य यनानि तत्र तेभ्यः षडध्ययनमिति समासः अत्रोच्यते। येन षड्भिरर्थाऽधिकारैविनिर्युक्तं नियुक्तं। निबद्धं ते च षडाऽधिकाराःसामायिकादीनां षण्णामध्ययनानां यथासंख्यमेव द्रष्टव्या इति। विशे०॥ नन्वावश्यके किमिति बडध्ययनान्यत्रोच्यते षडाधिकारयोगात् के पुनस्ते इत्याशक्य तदुपदर्शनार्थमाह। आवास्सगस्स णं इमे अत्थाहिगारा भवंति / तंजहा / सावजजोगविरइ, उक्कित्ततणगुणवउयपडिवत्ती खलि अस्सय निंदण्णा, वणतिगिद्धं गुणधारणं चेव।। आवश्यकषडध्ययनस्य वक्ष्यमाणा अर्थाधिकारा भवंति / तद्यथा / सावजजोगगाहा व्याख्या। प्रथमेसामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावधयोगविरतिराधिकारः (उकितणत्ति) द्वितीये चतुर्विशतिस्तवाध्ययने प्रधानकर्मकारणत्वाल्लब्धबोधिविशुद्धिहेतुत्वात्पुनर्बोधिलाभफलत्वात्सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाश्च तीर्थकारणं गुणोत्कीर्तनार्थाधिकार // (गुणओयपडिवत्ति) गुणा मूलो-त्तरगुणरूपा त्रतपिंण्डविशुद्धयादयो विद्यते यस्य स गुणचांस्तस्य प्रतिपत्तिवंदनादिकं कर्तव्येति तृतीये वंदनाध्ययनेऽर्थधिकारश्वशब्दात्पुष्टालम्बने गुणवतोऽपि प्रतिपत्तिकर्तव्यति द्रष्टव्यं / उक्तं च। परियायपरिसपुरिसं,खेत्तं कालंच आगमंनाउं। कारणाजाए ताए, जाहारिहं जस्स संजोगं / / (खलियस्स य निंदणत्ते) स्खलितस्य मूलोत्तरगुणेषुप्रमादाचीर्णस्य प्रत्यागमसंवेगस्य जंतोर्विशुद्ध्यमानाध्यव-सायस्या कार्यमिदमिति भावयतो निंदाप्रतिक्रमणे अधि -कारः / व्रणति गच्छतीतिव्रणः / व्रणचिकित्सा कायोत्सर्गा-ध्ययनेऽर्थाधिकारः / इदमकुं भवति / चारित्रपुरुषस्ययोऽतिचा-रूपोभावव्रणस्तस्यदशविधप्रायश्चित्तं भेषजेन कार्योत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते (गुणधारणा चेवत्ति) गुणधारणा प्रत्या-ख्यानाध्ययने अर्थाधिकारः / अयमत्र भावार्थः / मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं संधारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणां करिष्यते च शद्वादन्येाधिकारा विज्ञेयाः / एवकारोऽवधारण इति गाथार्थः / तदेवं यदादौ प्रतिज्ञातमावश्यकं निक्षेपस्यामीति इत्यादि / तत्रावश्यक श्रुतस्कंधलक्षणानि त्रीणि पदानिनिक्षिप्तानि / सांप्रतं त्वद्ययनपदमवसरायात मपि निक्षेपूस्यते वक्ष्यमणिनिक्षेपानुयोगद्वार-ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्यमानत्वादत्रापि भणने च ग्रंथगौरवापत्तेरिति।। इदानीमावश्यकस्य यद्व्याख्यानं यच्च व्याख्येयं तदुपदर्शय-नाह। आवस्सयस्स एसो, पिंडत्थो वण्णिओ समासेणं। एत्तो एकेक्कं पुण, अज्झयणं कित्तइस्सामि ||1|| तं जहा। समाइयं 1 चउवीसत्थओ२ वंदणय 3 पडिक्कमणं काउसग्गो 5 पञ्चक्खाणं। ट्या. आवश्यक स्यावश्यक पदाभिधये स्य शास्त्रस्य एष पूर्वोक्तप्रकार-पिण्डादिसमुदायार्थो वर्णितः कथितः। समासेन संक्षेपेण / इदमत्र हृदयं 1 आवश्यक श्रुतस्कंध इति शास्त्र नाम पूर्व व्याख्यातं / तच्च सामर्थ्य ततश्च यथा सात्वर्यादा