________________ आवस्सय 485 अभिधानराजेन्द्रः भाग 2 आवस्सय हस्ती कथमप्याडलानस्तंभं भक्त्वा शून्यासनःस्वेच्छया तदा परिभ्रमति / एतेषु कारणेषु नागच्छेयुरपि वसतिं नवरमेतेषु कारणेषु मध्ये ग्लानत्वे विशेषः यदि ग्लानत्वमागाढमुपजातमे कस्यबहूनां वा तदा गुरूणां निवेदना कर्त्तव्या ।।व्य. 1 उ.।।। कालाद्यतिक्रमेणाऽवश्यके प्रायश्चित्तम्। तथा च महानिशीथे अ० एवं जेणं भिक्खू सुताइक्कमेणं कालाइकमेणं आवस्सगं कु व्वीया / तस्स णं कारणिगस्स मिछु काडं गोयमा ! पायछि उ वइसेज्जा जइणं आकरिणिगतेसिं तुणं जहाजो गं चउत्थाई॥ आवश्यके च प्रमादो न कार्यः / पं. भा० / माकुणहप्पमायं, आवस्सएहि संजमतवोतहाणेहिं। णिस्सारं माणुस्सं, दुल्लभलाभं वियाणेत्ता // (माकुण हप्पमायं) असानोनाः प्रतिषेधे माकुरुत कषाययोगा-दिभिः प्रमादं आवश्यकरणीयमावस्यकं। किंचित् तदाबश्यकं संयमतपोध्यानादिभिः / एष आवश्यकः तपएव उपधानंतपोपधानं किमर्था यस्मान्निः सारं मानुष्यं जलबुद् बुदसमानं कुशाग्रजलबिंदुसन्निभं चेत्यादि ततश्चैवं गुणं जातीयं दुर्लभं दुःप्रा-प्यमित्यर्थः / विविधमनेकप्रकारं वा ज्ञात्वा दिलुतो॥ पं. चू॥ आवश्यकप्रमादे प्रायश्चित्तम् / / से भयवं जेणं गणी किं चि आवस्सगं पमाएजा गोयमा ! जेणंगणा अकाराणिगे किंची खणमेगमवि पमाएसेणं अवदंउवइसेजाजओणं तुम महाकारणिगे वि संते गणी खणमेगमविणकिंचि णियमावस्सगं पमाए सेणं वंदे पूए दहव्वे जावणं सिद्धे बुद्धे पारगए खीणट्टकम्ममले नीरए उवइसेना सेसं तु महयाए बंधेणं सत्थाणे चेव भाणिहिह एवं पच्छित्ते विहि सोउणाणुढ़ती अदीणमणो जं जइय जहा थामंजे से आराहगे भणिए। महा०७ अ॥ सम्प्रति श्रावकस्य बव्हारंभरतस्याऽप्यावश्यके न दुःखांतो भवतीति . दर्शयितुमाह। आवस्सएण एएण, सावओ जइवि वहुरओ होइ। दुक्खाणमंतकिरियं, काही अचिरेण कालेणं // आवश्यकेनतेनेति षड्विधभावावश्यकरूपेण नतु दंत-धावनादिना द्रव्यावश्यकेण श्रावको यद्यपि बहुरजा बहु-बद्धयमानका बहुरतो वा विविधसावद्यारंभासक्तो भवति तथापीत्यध्याहाराद् दुःखानां शरीरमानसानां (अंतकिरियं) अंतक्रियां विनाशं करिष्यत्यचिरेण स्तोकेनैव कालेन-अत्र चांतक्रियायां अनंतरहेतुर्यथाख्यातचारित्रं तथापि परंपराहेतुरिदमपिजायते सुदर्शनादेरिवेति। ध०२ अधिः / / श्रावकस्याऽवश्यकम्॥ अविरुद्धो ववहारो, काले तह भोयणं च संवरणं। चे इहरागमसवणं, सक्कारो वंदणाईय|पंचा. 11 नत्वावश्यककरणमित्यसंगतं श्रावकं प्रति व्रतादिवत्तस्याऽगमने विधेयतया उपदिष्टत्वात्तथा ह्यसौ उपासक दशादी मूलागमेनोपदेशोज्ञापकं चोपलभ्यते तदुद्वाररूपे श्रावकप्रज्ञप्त्यादौ चतथेहैवच श्रावकप्रतिदिनक्रियां प्रतिपादयताऽचार्येण चिइवंदणमो इत्येतावदेवोक्तमय ब्रूषे। समणेण सावएणय, अवस्सकायव्वयं हवइ जम्हा।। अंतो अहो निसिस्सय, तम्हा आवस्सयं नाम॥ इत्यस्यामनुयोगद्वारगाथायां श्रावकस्य तदुपदिष्टमिष्टसिद्धौ हेतुः नैवं तत्र चैत्यवदनादिनैवावश्यकस्य गतार्थत्वाद्यतोयदवावश्यं कर्त्तव्यं तदेवावश्यकमवश्यकर्त्तव्यं च चैत्यपूजावंदनादिश्रावकस्य यदि पुनरिदं षविधावश्यकमवश्यकर्त्तव्यतया श्रावक-स्योपदिष्टम भविष्यत्तदा य एवषविधावश्यककारी सएव श्रावकोभविष्यन्नचैवमविरतानामपि सामायिककारिणां श्रावकत्वाभ्युपगमादिति / अत्रोच्यते / यदुक्तमुपासकदशादावमुक्तत्वात् श्रावकाणामावश्यकमयुक्तमिति / तदयुक्तमनुपदिष्टत्वस्या-सिद्धत्वात्तथाहि / यद्यप्युपासकदशादौ नोपदष्टिं तत्तेषां तथाप्यनुयोगद्वारेषु तदुपष्टिं तथाहि॥ जं इमंसमणे समणीवा सावए वा साविया वा तचित्ते तम्मणे ज़ाव उभओकालं छविहं आवस्सयं करेंति सेत्तं लोउत्तरिय भावावस्सयंति।। यचोक्तं / चैत्यवन्दनादि श्रावकस्याऽवश्यकमिति तदप्यसंगतं (मज्झयणछक्कवग्गो) इत्यादि तदेकार्थिकपदोपन्यासेन तस्य षड्विधत्वेन निश्चितत्वादुमास्वातिवाचके नाऽप्यस्थ समर्थितत्वात्तयाहि तेनोक्तं / सम्यग्दर्शनसंपन्नः षड्विधावश्य कनिरतश्च श्रावको भवतीति गम्यते। तथा अशठसमाचरित त्वादिजीत-लक्षणानामिहोपपद्यमानत्वेन जीताभिधानपंचमव्यवहारसम-र्थितत्यात्तथा / यदुक्तं (समणेण सावएण य) इत्यत्र गाथायां यदि षड्विधावश्यक विवक्षितमभविष्यत्तदा तत्कारिण एव श्रावका अभविष्यन्नान्ये इति / तदप्यसंगतं / श्रमणपक्षेऽप्यस्य दूषणस्य समानत्वात्तयाहि / य एव षड्विधमावश्यकं कुर्वन्ति स एव श्रमणाः स्युस्ततश्च कारणजाते प्रतिक्रमणकारिणां मध्यमतीर्थसाधू-नामश्रमणता स्यान्न चैवमय चरमतीर्थसाधूनाश्रित्येयं गाथोक्ता / सत्यं / केवलं यदि श्रावकाणां षड्विधाऽवश्यकप्रज्ञापनार्थापि स्यात्तदा किं दूषणमिति / अथ ब्रूषे षड्विधावश्यकमति-चारशुद्धिरूपं वर्तते।नच श्रावकाणामालोचनादि दश-प्रकारशुद्धेमध्यादेकापि प्रकल्पादिग्रंथेषूपलभ्यते / न च तेषामतिचारा घटते। संज्वलनोदय एव तेषामुक्तत्वादित्यत्रोच्यते / यद्यपि श्रावकाणां प्रकल्पा दिग्रंथेषु शुद्धिर्न दृश्यते / तथाऽप्यसौ श्रावकजीतकल्पादेः सका शादवश्याभ्युपगंतव्या / अन्यथोपासकदशासु यदुक्तं किल भगवान् गौतममुनिरानन्दश्रावकंप्रत्यवादीत्॥ तु मण्णं आणं दाएयस्स अट्ठस्स आलोयाहि पडिकमाहि निंदाहिगरिहाहि अहारिहंतवोकम्मंपायाच्छित्तं पडिवजाहीति / / तत्कथं घटेताऽतएव ज्ञापकादतिचारा अपि तेषां भवंतीति सिद्धं यच्छाचारा असंज्वलनोदयेऽपि भवन्ति / तथा प्रागुक्तं किंच यदीदं चैत्यवंदनादिकमावश्यकं स्यात्तदाऽतो अहोनिसिस्सय इति मुनि-वचनेन सन्ध्याद्वय एव श्रावकस्य तद्विधेयं स्यात् श्रूयते।पुनरेवं॥ दसणसुद्धिनिमित्तं, तिचालं देववंदणाइयंति अतः सन्ध्याद्वयकरणनियमः षड् विधावश्यकस्यैवोपपद्यते साधूनामिवेति किंच॥