________________ आवस्सय 484 अभिधानराजेन्द्रः भाग 2 आवस्सय आवस्सयं तु काउं, निवाघाएण होइ गंतव्वं / वायाएण उभयणा, देसं सव्वं अकाउणं / / व्याघातस्य स्तेनादिप्रतिबंधस्याऽभावोनियाघातेन भवति / गंतव्यं वसतिराचार्यः सममावश्यकं कृत्वा व्याघातो न पुनर्हेतु भूतेन भजनाविकल्पेन का भजनेत्यत आह / देशं वा आवश्यक-कृत्वा सर्व वावश्यकमकृत्वा संप्रति यैःकारणैः प्रतिबन्ध-स्तान्युपदर्शयति / तेणासावयवाला, गुम्मिय आरक्खिठवणपडीणीए। इत्थिनपुंसगसंसत्त, वासचिरकल्लकंटे य / / स्तेनाश्चौरास्ते संध्यासमयेऽधकारकलुषिते संचरंति / श्वापदानि चादुष्टानि भूयांसि तदा उदृतानि हिडते व्याला वा भुजंगमादयो वातादिपानाय भूयांसः संचरंति तच्छा गुल्मेन स समुदायेन संचरतीति गौल्मिका आरक्षिकाणामप्युपरिस्थायिनो हिंडिकाः पुररक्षकास्ते अकाले हिंडमानान् गृह्णति तथा ठवणत्ति। क्वचिद्देशे एवं रूपा स्थापना क्रियते / तथा अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयमिति प्रत्यनीको वा कोऽप्यंतराविघातकरणार्थं तिष्ठन् वर्तते स्त्रियो नपुंसका वा कामबहुलास्तदा उपसर्गययुः / संसक्तो वा प्राणजातिनिरयांतराले मार्गः / ततोऽधकारेणेर्यापथिकी न शुद्धयति / वर्ष वा यत्तत् संभाव्यते (वासचिरुवल्लोत्ति) कर्दमो वा पथि भूयानस्ति / ततो रात्रौ पादलग्नः कर्दमः कथं क्रियते (कंटत्ति) कंटका वा मार्गेऽतिबहवस्ते रात्रौ परिहर्तु न शक्यते / एतैर्व्याघातकारणैः समुपस्थितैः देशतः सर्वतो वा वश्यकमकृत्वा गच्छति तत्र देशतः कथमकृत्वेत्यत आह / / युतिमंगलकितिकम्मे, उस्सग्गो य तिविहकियकम्मे / तत्तो य पडिक्कमणे, आलोयणायाए किति कम्मो // स्तुतिमंगलमकृत्वा स्तुतिमंगलाकरणे चायं विधिः आवश्यके समाप्ते द्वे स्तुतीउचार्य तृतीयांस्तु तिमकृत्वा अभिशय्यां गच्छति तत्र च ग त्वाचेर्यापथिकिं प्रतिक्रम्य तृतीयां स्तुतिं ददति अथ वा आवश्यके समाप्ते एकांस्तुति कृत्वा द्वेस्तुती अभिशय्यां गत्वा पूर्वविधिनोधारयति / अथ वा समाप्ते आवश्यके अभिशय्यां गत्वा तत्र तिस्रः स्तुतीर्ददति / अथवा स्तुतिभ्यो यदवक्तितत्कृतिकर्म तस्मिन्नकृतेऽभिशय्यां गत्वा तर्यापथिकींप्रतिक्रम्य मुखवस्त्रिकां च प्रत्युपेक्ष्य कृतिकर्मकृत्वास्तुतीर्ददति (काउस्सगो य तिविहत्ति) त्रिविधे कार्योत्सर्गे क्रमेण कृते तद्यथा चरमकार्योत्सर्गमकृत्वा अभिशय्यांगत्वा तत्र चरमकायोत्सर्गादिकं कुर्वति / अच्छवा द्वौकार्योत्सर्गो चरमावकृत्वा यदि वा त्रीनपि कार्यासंगान् अकृत्या अथ वा कार्योत्सर्गेभ्योऽक्तिनं यत् कृतिकर्म तस्मिन्नकृते उपलक्षणमेतत् / ततो अक्तिने क्षामणेयदि वा ततोऽप्यक्तिने कृतिकर्मणि अकृते अथवा ततोऽप्यक्तिने प्रतिक्रमणे अकृते यदि वा ततोऽप्यक्तिने आलोचने अकृते अथवा ततोऽप्यक्तिने कृतिकर्माणि अकृते अभिशय्यांमुपगम्य तत्र तदाद्यावश्यकं कर्तव्यमिति / एवमावश्यकस्य देशतोऽकरणमुक्तमिदानीं सर्वस्याकरणमाह / काउस्सग्गमकाऊं, कितिकम्मालोयणं जहण्णेणं / गमणम्मी एसविही, आगमणम्मीविहीं वोत्थं / / यो देवसिकातिचारानुप्रेक्षार्थं प्रथमः कार्योत्सर्गस्तमप्यकृत्वा किमुक्तं भवति। सर्वमावश्यकमकृत्वाऽभिशय्यां गच्छति। किमेवमेव गच्छन्ति। उतास्ति कश्चन विधिरुच्यते / अस्तीति ब्रूमः / तथा चाह / कितिकम्मालोयणं जहण्णेणंति। जघन्येन जघन्यपदे सर्वमावश्यकम.. कृत्वा सर्वे गुरुभ्योवंदनं कृत्वा यश्च सर्वोत्तमोज्येष्ठः स आलोच्य तदनंतरमभिशय्यांगत्वा सर्वमावश्यकमहीनं कुर्वति। एषोऽभिसय्यायां गमनेऽभिसंज्जातः प्रत्यागमने पुनर्योविधिस्तमिदानी वक्ष्ये / / प्रतिज्ञातमेव निर्वाहयति। आवस्सगं अकाशं, निव्वाधाएण होइ आगमणं ! आघायम्मि उ भयणा, देशं सव्वं च काउणं / / यदि कश्चनापि व्याघातो न भवति ततोनियाघातेन व्याघाताभावेनावश्यकमकृत्वाऽभिशय्यातो वसतावागमनं भवति / आगत्य च गुरुभिः सहावश्यकं कुर्वति व्याघाते भजना कापुनर्भजनेत्यत आह / देशमावश्यकस्य कृत्वा सर्व वाऽऽवश्यकं कृत्वा तत्र देशत आवश्यकस्य करणमाह / / काउस्सग्गं काऊं, कितिकम्मालोयणं पडिक्कमणं / किइकम्मं तिविहं वा, काउस्सग्गं परिण्णाय // कार्योत्सर्गमाद्यं कृत्वा वसतावागत्य शेष गुरुभिः सह कुर्वति / अथ वा द्वौ कार्योत्सर्गो कृत्वा यदिवा त्रीनकार्योत्सर्गान् कृत्वा अथ वा कार्योत्सर्गत्रयानंतरं यत् कृतिकर्म तत्कृत्वा अथवा तदनंतरमालोचनमपि कृत्वा यदि वा तत्परं यत्प्रतिक्रमणं तदपि कृत्वा अथवा तदनन्तरं यत्कृतिकर्मा द्विभेदं क्षामणादक्तिनं परश्चेत्यर्थः / / तदपि कृत्वा पाठांतरं तिविहं ते विमूलकृतिकर्मापेक्षया त्रिविधं वा कृतिकर्म कृत्वा अथवा कायोत्सर्ग चरम पाण्मासिकं कृत्वा परिज्ञाप्रत्याख्यानं तामपि वा कृत्वा / अत्रायं विधिः / सर्वे साधवश्वरमकार्योत्सर्गक्सतावागत्य गुरुसमीपे वंदनकं कृत्वा सर्वोत्तमश्च ज्येष्ठः आलोच्य सर्वे प्रत्याख्यानं गृहति / अथवा सर्वमावश्यकं कृत्वा एकांस्तुतिं दत्वा शेषे द्वे स्तुती कृत्वा शेषं गुरुसकाशे कुर्वति॥ तदेवमुक्तं देशतः आवश्यकस्य करणमधुना सर्वतः कारणमाह / / थुति मंगलं च काऊं, आगमणं होति अभिनिसिज्जातो। वितियपदे भयणाऊ, गिलाणमादी उ कायव्वा / / अथवा प्रत्याख्यानं तदनंतरं स्तुतिमंगलं च स्तुतित्रया कर्षणरूपं तत्र कृत्वा अभिशय्यात आगमनं भवति / तत्रेयं समाचारी गुरुसमीपे ज्येष्ठ एक आलोचयति आलोच्य प्रत्याख्यानं गृह्णातीति शेषः ज्येष्ठस्य पुरत आलोचना प्रत्याख्यानं च कृतं वंदनकं च सर्वे ददति क्षामणं च / द्वितीयपदे अपवादपदे ग्लानादिषु प्रयोजनेषु भजना कर्तव्या। किमुक्तं भवतिग्लानादिकं प्रयोजनमुद्दिश्य वसतौ नागच्छेयुरपीतिग्लाना दीन्येव प्रयोजनान्याह // गेलण्णवासमहिता, पदुट्ठ अंते उरे निवेअगणी // अहिगरणहत्थि संभम ण, गेलण्णनिवेयणा नवरि // ग्लानत्वमेकस्य बहूनां साधूनां तत्राऽभवत् तत्ः सर्वेऽपि साधवस्तत्र व्याप्तीभूता इति न वसतावागमनं अथवा वर्ष पतितुमारब्धं मिहिका वा पतितुं लग्ना यद्वा (पउत्ति) प्रविष्टाः कोऽप्यंतराविरूपकरणाय तिष्ठति / अंतः पुरं वा तदानीं निर्गतुमारब्धं / तत्र च राज्ञा उद्घोषितं यथा पुरुषेण न केनापि रथ्यासु संचरितव्यं / राजा वा तदा निर्गच्छति। तत्र हयगजपुरुषादीनां संमर्दः अनिकायोबांतराले महान् उत्थि तोऽधिकरणं वा गृहस्थेन समं कथमपि जात वृहद्वृषभा स्तदुपशमयितुं लग्ना हस्तिसभ्रमो वा जातः / किमुक्तं भवति /