________________ आवस्सय 478 अभिधानराजेन्द्रः भाग 2 आवस्सय पूर्वोक्तलक्षणं नघटते। तदुभाभ्यांव्यतिरिक्तं भिन्नं द्रव्या-वश्यकमुच्यते। तच त्रिविधं प्रज्ञप्त। तद्यथा। लौकिकंकुप्रावच-निकं लोकोत्तरिकम्॥ तत्र प्रथमभेदं जिज्ञासुराह॥ से किं तं लोइ दवावस्सयं दवावस्सयं जे इमे राईसरतलवरमाडं विअकोडुं बिअइम्भसेहिसेणावइसत्थवाहप्पभितओकल्लंपाप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलिअंमि अह पद्धं रए पभाए रत्तासोगपगासकिं सुअसुमुहगुंजद्धरागसरिसे कमलागरनलिणि संडवोहए उट्ठिअंमि सूरे सहस्सरस्सिमिदिणयरे ते असा जलंते मुहधोअणदंतपक्खालणतेल्लफणिहसिद्धत्थयहरि आलिअ अद्दागधूवपुफ्फगं-धमल्लतंबोलवत्थाइ आई हव्वावस्सयाई काउंततो पच्छा रायकुलं वा देवकुलं वा आराम वा उज्जाणं वा सभं वा पटवं वा गच्छति से लोइअं दव्वावस्सयं // लोइयमित्यादि / / लोके भवं लौकिकं शेषं तथैव अत्र राज श्वरा तलवरादयः प्रभातसमये मुखधावनादि कृत्वा तत पश्चाद्राजकुलादौ गच्छति। तत्तेषां सम्बंधिमुखधावनादि लौकिकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकं मिति समुदायार्थः।। (कल्लं पाउप्पभायाए) इत्यादि कल्यमिति विभक्तिव्यत्य येन सामान्येन प्रभाते प्रभातस्यैव विशेषावस्थाः प्राह इत्यादि / प्रादुः प्राकाश्ये ततश्च प्रकाशप्रभातायां रजन्यां किं चिदुपलभ्यमानप्रकाशायामिति भावः / तदनतरं सुविमलायां तस्यामेव किचित्परिस्फुटतरप्रकाशायान्। अथशब्द आनंतर्ये तदनंतरं पांडुरे प्रभाते कथं भूत इत्याह / फुल्लोत्पलकमलकोमलोन्मीलिते फुल्लं विकसितं तच तदुत्पलंच फुल्लोत्पलं कमलो हरिणविशेषः फुल्लोत्फलं च कमलश्च फुल्लोत्पलकमला तयोः कोमलमकठोरं दलानां नयनयोश्चोन्मीलितमुन्मीलन यत्र प्रभाते / तद्यथा / अनेन च प्रागुक्तायाः सुविमलतायाः वक्ष्यमाणसूर्योदयस्थ चांतरालभविनी पूर्वस्थादिश्यरुणप्रभावस्थामाह। तदनंतरम् (उहिए सूरिए त्ति) अभ्युद्गते आदित्ये कथं भूते इत्याह / रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे। रक्ताशोकप्रकाशस्य पुष्पितं पलाशस्य शुकमुखस्य गुंजार्द्धस्य च रागेण सदृशो यः सेतथा तस्मिन् आरक्त इत्यर्थः / तथा कमलाकरनलिनिखंड बोधके कमलानामाकरा उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखंण्डानि तेषां बोधको य स तथा तस्मिन् पुनः किंभूते तस्मिन्नित्याह / / सहस्त्ररश्मौ दिनं करोतीति दिनकरस्तस्मिन् तेजसा ज्वलति। तत्रैवैते भावाः सर्वेऽपिसंतीतिज्ञापनार्थ सूर्यस्य विशेषणबहुत्वं अनेन चोत्तरोत्तरकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्वा नामभिमतमावश्य-करणसमयमाह। तथाहि / के चित्प्रकृष्टोद्यमिनः किं चित्प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वति / मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा। जघन्योद्यमिनस्तु समुद्गते सवितरीति (मुहधोवणेत्यादि) मुखधावनं च दंतप्रक्षालनं च तैलं च फणिहश्च सिद्ध्यर्थश्च हरितालिका च आदर्शश्च पुष्पाणि च माल्यं च गंधाश्च तांबूलंच वस्त्राणि च तान्यादिर्येषां स्नानाभरण परिधानादीनां तानि फणिहः कंकतकस्तं मस्तकादौ व्यापारयति। सिद्धार्थाः सर्षपाः। हरितालिका दूर्वा एतद्द्वयं मंगलार्थं शिरसि प्रक्षिपंति / आदर्शेषु मुखादि निरीक्षते वस्त्रादिधूपयंति अग्रथितानि पुष्पाणि तान्येवग्रथितानि माल्यम् अथवा विकसितानि पुष्पाणि वा तान्येवाविकसितानि माल्यमेतेषां च मस्तकादिषूपयोगः / शेषस्वरूपत उपयोगतश्चप्रतीतमेवएतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद्राजकुलादौ गच्छति तत्र रमणीयतातिशयेन स्त्री-पुरुषमिथुनानि यत्रारमंति स विविधपुष्पजात्युपशोभित आरामः वस्त्राभरणादिसमलंकृतविग्रहाः संति हिताशनाद्याहारा मदनोत्सवादिषु कीडार्थ लोका उद्याति यत्रतचम्पकादितरुखण्डमण्डितमुद्यानं भारतादिकथाविनोदेन यश्च लोकस्तिष्ठति सा सभा शेषं प्रतीतम् / अत्राह / ननु राजादिभिः प्रभाते अवश्यं क्रियत इति व्युत्पत्तिमात्रेणावश्यकत्वं भवतुमुखधावनादीनि भावावश्यककारणं न भवन्ति। सत्यं / किंतु भूतस्य भाविनो वेत्याद्येव द्रव्यलक्षणं मतंव्यं। किं तर्हि (अप्पाहणे वि दव्वसद्दो) तीतिवचनादाह / अप्रधानवाचकोऽपि द्रव्यशब्दोऽवगंतव्यः / अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजादिमुखधावनादीनि ततश्च द्रव्यभूतान्यावश्यकानि द्रव्या-वश्यकानि एतानीत्यदोषः नो आगमत्वं चेहाप्यागंमाभावा-नोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरणे निगमयन्नाह / / (सेत्तं लोइय) मित्यादि / तदेतज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यक मित्यर्थः / उक्तो नो आगमतो द्रव्यावश्यकांतर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तः द्रव्यावश्यक-प्रथमभेदः द्वितीयभेदनिरूपणार्थमाह // सं किंतं कुप्पावयणि दवावस्सयं दवावस्सयं जे इमे चरगचीरिगचम्मखंडिअभिक्खोडपुंडरं गगोअमगोवत्तिअगिहिधम्मधम्मचिंतग अविरुद्धवैनयिक-वुड सावगप्पमित्तओ पासंडत्था कल्लंप्पाउप्पभाए जाएजा वते असा जलं ते इंदस्स दाखंदस्स वारुहस्सवा सिवस्स वा वेसमणस्स वादेवस्स वा नागस्स वा भूअस्स वा मुगुदस्स वा अजाए वा कोट्टकिरिआए वा उवले-वणस्स मञ्जण आवरिस्सण्ण धूवपुप्फगंधमल्लादिआइंदव्वावस्सयाई करेंति सेत्तं कुप्पावयणिअंदव्वावस्सयं / / से किंतं कुप्रावचनिकं द्रव्यावश्यकमत्र निर्वचनं (कुप्पावयणियं दव्वास्सयंत्ति) इमे इत्यादि कुत्सितं प्रवचनं येषां ते कुप्र-वचनास्तेषामिदं कुप्रावनिक द्रव्यावश्यकं किं पुनस्तदित्याह / जे इमे इत्यादि।। एते चरकचीरिकादयः प्रभातसमये इंद्रस्कं-दादेरुपलेपनादि कुर्वति तत् कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः / / देवताक्षितीशमातापितृगुरूणामविरोधेन विनयकारित्वा-दविरुद्धा वैनयिकाः पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रिया-वादिनो विशुद्धाः सर्वपार्षडिभिः सह विशुद्धचारित्वादत्राह ननुयद्येते पुण्याधनभ्युपगमपराः कथंतर्वेषां वक्ष्यमाणामिंद्राधुपलेपनं संभवति पुण्यादिनिमित्तमेव तस्य संभवात्सत्यं किं तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषः।। प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः पाषंडं व्रतं तत्र तिष्ठंतीति पाषंड स्थाः / (कल्लं पाउप्पमायाए) इत्यादिपूर्ववद्या