SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आवस्सय 477 अभिधानराजेन्द्रः भाग 2 आवस्सय कालभावि वस्त्वेकत्वग्राहिनयानुसारिणामेवं वादिनां सम्मवाद्यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते लेष्टवादिदर्शने पुनर्नेत्थंभूतः प्रत्यय कस्याऽपि समुत्पद्यत इति। न तेषां तत्प्रसंगस्तेनैव करचरणोरुग्रीवादिपारणोमनानन्तर-मेवावश्यककारणत्वेन वयावृतत्वात्तदैव तथाविधप्रत्ययजनकं द्रव्यावश्यकं लेष्टवादय इतिभाव इति समुदायार्थः / इदानीम वयवार्थ उच्यते। तत्र शय्या महती सर्वांगप्रमाणा तां गतंशय्यास्थितमित्यर्थः। संस्तारोलघुकोऽर्द्धतृतीयहस्तमान स्वंगतं तत्रस्थमित्यर्थः / यत्र साधवस्तपःपरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञानशनं प्रतिपन्नपूर्वाः प्रतिपद्यते प्रतिः पत्स्यन्ते च तत्सिद्धशिलातलमुच्यते / क्षेत्रगुणतो यथा भद्रकदेवतागुणतो वा साधूनामाराधनाः सिध्यंतिाश तत्रेति कृत्वा अन्येऽप्याचक्षते। यत्रमहर्षिः कश्चित्सिद्धस्तत् सिद्धशिलातलं तद्गतं तत्र स्थितं सिद्धशिलातलगतम्। इह निसीहयाग तं चेत्यादीन्यपि पदानि वाचनांतरे द्रश्यते तानि च सुगमत्वात् स्वयमेव भावनीयानि। नवरं नैषेधिकी शवपरिस्थापनभूमिः अपरं चात्रान्तरे (पासित्ताण कोइ भणिज्जेति) ग्रंथः। क्वचिद् दृश्यते स च समुदायार्थकथनावसरणे जित एव यत्र तुन श्यते तत्राध्याहारो द्रष्टव्यः। अहो शब्दो दैन्यविस्मयामंत्रणेषु वर्तते / स चेह त्रिष्वपि घटते तथाह्यनित्यशरीरमिति दैन्ये आवश्यकं ज्ञातमिति विस्मयेऽन्यं विपार्श्वस्थितमामंत्रयमाणस्थामंत्रणे अनेन प्रत्यक्षतया द्रश्यमानेन शरीरमेव पुद्रलसंघातत्वात् समुच्छ्यस्तेन जिनदुष्टन तीर्थंकराभिमतेन भावेन कर्मनि रेणाभिप्रायेण अच्छवा भावेन तदावणकर्मक्षयोपशमलक्षणेन आवश्यकपदाभिधेयं शास्त्रम् (आधवियंति) प्राकृतशैल्या च्छांदसत्वाच गुरोः सकाशाद् गृहीतं प्रज्ञापितं सामान्यतो विनयेभ्यः कच्छितं प्ररूपितं तेभ्य एव प्रतिसूत्रमर्छकच्छनतः / दर्शितं प्रत्युपेक्षणादिक्रियादर्शनतः / इदं क्रिया एभिरक्षरैरत्रोपात्ता / इत्छं च क्रियते इत्येवं विनेयेभ्यः प्रकटितमितिभावः। निदर्शितं कच्छंचिदगृह्णतः परयाऽनुकम्पया निश्चयेन पुन-पुन दर्शितं / उपदर्शितं सर्वनययुक्तिभिः आह। नन्वनेन शरीरसमुच्छ्रायेणाऽवश्यकमागृहीतमित्यादि नोएपद्यते गृहणप्ररूपणादीनां जीवधर्मत्वेन शरीरस्थाऽघटमानकत्वा सत्यं / किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारदित्च्छ-मुपन्यास इत्यदोषः / पुनर प्याह। ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवंति तथापि कथं तस्य द्रव्यावश्यकता यत् आवश्यकस्य कारणमेव द्रव्यावश्यकं भवितुमर्हति भूतस्य भाविनो वेत्यादिपूर्वोक्तवचनात्। कारणं चागमस्य चेतनाधि-ष्ठितमेव शरीरं नत्विदं चेतनारहितत्वात्तस्यापि तत्कारणत्वेऽति-प्रसंगात्सत्यं। किंत्वतीपर्यायानुवृत्यभ्युपगमपरतयानुवृत्यातीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकताऽ-स्योच्यत इत्यदोषः / स्यादेवं / यद्यत्राथैकः कश्चिददृष्टान्तः स्यादिति विकल्पात् प्रच्छति यथा कोऽत्रदृष्टातं इति प्रष्टेसत्याह। यच्छा अथं घृतकुम्भ आसीत् / अर्थ मधुकुम्भ आसीदित्यादि। एतदुक्तं भवति / यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधार पर्यायातिक्रांतेऽप्ययं मधुकुम्भोऽयं च घृतकुंभ इति व्यपदेशो लोके प्रवर्तते / तथा आवश्यककारणत्वपर्यायऽतिक्रांतेऽपि पर्यायानुवृत्या द्रव्यावश्यकमिदमुच्यत इति भावः। निगमयन्नाह। (सेत्तमित्यादि) तदेतत् ज्ञशरीरद्रव्यावश्यकम्। उक्तोनो आगमतो द्रव्यावश्यकप्रथमभेदः॥ द्वितीयभेदनिरूपणायमाह। से किंतं भविअसरीरदट्वावस्सयं जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव अत्तएणं सरीरसमुस्सएणं जिणदिद्वेणं भावेण आवस्सयतिपयंसेअकाले सिक्खिस्सतिन ताव सिक्खतिजहा को दिटुंतो अयं महकुभे भविस्सइ अयं घयकुंभे भविस्सइ सेत्तं भविअसरीरदव्वावस्सयं / / अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह (भवियसरीर दव्वावस्सयं जे जीवे) इत्यादि / विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायाहस्तद्योग्य इत्यर्थः / तस्य शरीरं तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं किं पुनस्तदित्यत्रोच्यते / यो जीवो योनिजन्मभिनिष्क्रांतोऽनेन च शरीरसमुच्छ्यणजिनोपदिष्टन भावेन आवश्यकमित्येतत्पदं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते यजीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः सांप्रतमवयवार्थ उच्यते। तत्र यः कश्चिजीवो जंतुर्योन्या योषिदवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन जन्मसमयेन निष्क्रांतो न पुर्नगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रांतः / अनेन च शरीरमेव पुद्गलसंघातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद्वा समुच्चयस्तेन / आत्तेनआदत्तेन वा गृहीतेन प्राकृतशेलीवशादात्मीयेन वा जिनोपदिष्टनेत्यादि पूर्ववत् (सेयकालित्ति) छांदसत्वादागामिनि काले शिक्षिष्यते अध्येष्यते / सांप्रतन्तु न तावदद्यापि शिक्षते तज्जीवाधिष्ठितशरीरं भव्यशरीरद्रव्यावश्यकं नो आगमत्वं चाप्या गमाभावमाश्रित्य मन्तव्यं / तदांनी तत्र वपुष्यागमाभावान्नो शब्दस्य चात्राऽपि सर्वनिषेधवचनत्वात् / अत्राह / नन्वावश्यकस्य कारणं द्रव्यावश्यकमुच्यते / यदि त्वत्र वपुष्यागमाभावः / कथं तर्हितस्य तं प्रतिकारणत्वं न हि कार्याभावे वस्तुः कारणत्व युज्यते अतिप्रसंगात्। ततः कथमस्य द्रव्यावश्यकता। सत्या किन्तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरितन-यस्तदनुवृत्त्यास्यद्रव्यावश्यकत्वमुच्यते। तथा च तद्नुसारिणः पठंति भाविनिभूतवदुपचार इति अत्रार्थे दृष्टांत दिदर्शयिषुः प्रश्नं कारयति / यथा कोऽत्र दृष्टांत इति निर्वचन माह। यथायं मधुकुंभो भविष्यतीत्यादि / एतदुक्तं भवति यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोके ऽयं मधुकुं भो धृतकुंभो वेत्यादिव्यपदेशो दृश्यते / तथास्याप्यावश्यक कारणत्व पाये भविष्यत्यपि तदस्तित्वपरतयानुवृत्या दृव्यावश्यत्वमुच्यते इति भावः। निगमयन्नाह / सेत्तमित्यादि तदेतद्भव्यशरीरद्रव्या-वश्यकमिति / उक्तो नो आगमत दृव्यावश्यक द्वितीयभेदः।। तृतीयभेदनिरूपणार्थमाह // से किं तं जाणयसरीरभविअसरीरवइरित्तं दवावस्सयं दवावस्सयं तिविहं पणत्तं / लोइअंकुप्पावयणि लोउत्तरिक अथ किं तत् ज्ञशरीरभव्यं शरीरव्यतिरिक्तं द्रव्यावश्यक निर्वचनमाह / / (जाणगशरीरभवियसरीरवइरित्ते दवावस्सए तिविहे) इत्यादि यत्र ज्ञशरीर भव्यशरीरयोः संबधि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy