SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आवस्सय 476 अमिधानराजेन्द्रः भाग 2 आवस्सय मान्यमेवाभ्युपगच्छति न विशेषानभिदधाति च सामान्या-द्विशेषाद् व्यतिरिक्ताः स्युः / अव्यतिरिक्ताःस्युः अव्यतिरिक्ता वा यद्याद्यः पक्षः। तर्हि न सत्यमी निःसामान्यत्वात् खरबिषाण वत्। अथापरः पक्षस्तर्हि सामान्यमेव तेतद् व्यतिरिक्तत्वात्सा मान्यस्वरूपवत्तस्मात्सामान्यव्यतिरेकेणा विशेषासिद्धेयानि का निचिद्दव्यावश्यकानि तानि तत्सामान्याव्यतिरिक्तत्वादेकमेवं संग्रहस्य द्रव्यावश्यक मिति (उज्झसुयस्से)त्यादि। ऋज्वतीतानागतपरकीयपरिहारणमांजलवस्तु सूत्रयत्य-भ्युपगच्छतीति। ऋजुसूत्रः। अयं हि वर्तमानकालभाव्य वक्त अभ्युपगच्छतिनातीत विनष्टत्वान्नाऽप्नागत मनुत्पन्नत्वाद्वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधुकत्वात् स्वधनवत्परकीयन्तु नेच्छति स्वकाया-प्रसाधकत्वात्। परधनवत्तस्मादेको देवदत्तादिरनुपयुक्तोऽस्यमत्ते आगमत एकं द्रव्यावश्य / कमिति (पुहत्तं त्ति) पुहत्तंनिच्छइति। अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ किं तर्हिवर्तमानकालीनं स्वत्वमेवंचाभ्युपैति तच्चैकमेवति (तिण्हं सद्दनयाण) मित्यादि शब्दप्रधाना नयाः शब्दनयाः शब्दसमभिरूद्वैवंभूतास्ते हि शब्दमेव प्रधानमिच्छतीत्यर्थन्तु गौणं शब्दवासनैवार्थप्रतीतिस्त्रयाणां शब्दनयानां ज्ञापकोऽथवानुपयुक्त इत्येतदेवतुन सम्भवतीदमित्यर्थः। (कम्हेति) कस्मा-देवमुच्यते इत्याह / यदिज्ञापकस्तहनुपयुक्तो न भवति ज्ञानस्योपयोगरूपत्यादिदमत्र हृदयं / आवश्यकशास्त्रज्ञस्तत्रा चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निोतमेव स्वामी न प्रतिपद्यते यद्यावश्यकशास्त्र जानाति कथमनुपयुक्तोऽनुपयुक्तश्चेत् कथं जानाति ज्ञानस्योपयोगरूपत्वात यदप्याग मकारणादात्मदेहादिकमागमत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते / शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात्तस्मादेतन्मते द्रव्यावश्य-कस्यासंभव इति निगमयन्नाह (सेत्तमिप्यादि) तदेतदागमतो द्रव्यावश्यकन्तेनउक्तम् आगमतो द्रव्यावश्यकमिदनिम्॥ इदानीं ना आगमतस्तदुच्यते॥ से किं तं नो आगमओ दव्याव-स्सय दव्वावस्सय तिविहं पण्णत्तं तंजाणयं सरीर दव्यावस्सयं / / टी० अथ किंतनो आगमतोद्रव्यावश्यकामति प्रश्नः / उत्तरमाह नो आगमउ दव्वावस्सयं तिविहं पण्णत्तमित्यादिनो आगमत इत्यत्रनो शब्दे आगमस्य सर्वनिषेधे देशनिषेधेवा वर्तते यत उक्तं पूर्वमुनिभिः / / आगमसव्वनिसेहे नोसहोअहंवदेसपडिसेहे। सव्वे जहण्णसरीरं भव्वस्स य आगमाभावा॥ व्याख्या। आगमस्यावश्यकादिज्ञानस्य सर्वनिषेधे वर्ततेनोशब्दोऽथवा तस्यैव देशप्रतिषेधे वर्तते / तत्र (सव्वेत्ति) सर्वनिषेधउदाहरणमुच्यते यथेत्युपदर्शने (सरीरति) तस्य जानतःशरीरं ज्ञशरीरं नो आगमत इह द्रव्यावश्यकं भव्यस्य च योग्यस्य यच्छशरीरं तदपि नो आगमत इह द्रव्यावश्यकं कुत इत्याह / आगमस्यावश्यकादिज्ञानलक्षणस्य सर्वथा अभावा-दिदमुक्तं भवति / ज्ञशरीरं भव्यशरीरं चानन्तरमेव वक्ष्यमाणस्वरूपं नो आगमतः सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते। नोशब्दस्याऽत्र पक्षे सर्वनिषेधवचनत्वादितिगाथार्थः। देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणम् / यथा / किरियागमुच्चरंतो, आवासं कुणई भावसुन्नेउ। किरियागमा न होई, तस्स निसेहो भवेदेसे। व्या.। क्रियामावर्तादिकं कुर्वन्नित्यध्याहार आगम च वंदनकसूत्रादिकमुचारयन् भावशून्यो य आवश्यक करोति सोऽपि नी आगमत इह द्रव्यावश्यकमितिशेषः / अत्र च क्रि यावर्त्तादिकागमो न भवति जडत्वागमस्य च ज्ञानरूपत्वादतस्तस्यागम-स्य देशे क्रियालक्षणे निषेधो भवति / क्रियाआगमो न भवतीत्यर्थः अतोनो आगमतइतीह। किमुक्तं भवति / देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिति गाथार्थः / / तदेवं नो आगमतः। आगमाभावमाश्रित्व द्रव्यावश्यक त्रिविधं प्रज्ञप्तं तद्यथा ज्ञशरीरद्रव्यावश्यकं 1 भव्यशरीरद्रव्यावश्यक 2 ज्ञशरीरभव्यशरीरव्यतिरित्तं द्रव्यावश्यकम्।३तत्राद्यभेदंवि-वरीषुराह॥ सेकिंतं जाणयसरीरदव्वावस्सयं जाणयसरीरदव्वा-वस्सयं आवस्सयस्स पयत्थाहिगारं जाणयस्स जं सरीरयं ववगतचुतचावितचत्तदेहं जीवविप्पजठं शिजागतं वा संच्छारयगतं वा निसीहिआगतं वा सिद्धि सिलातलगतंवापासित्ताणं कोइभणेचा अहोणंइमेणं सरीर-समुस्सएणं जिणदितुणं भावेणं आवस्सएत्ति पयं आधविरं पण्णविअं परूविरं दंसि निइंसि उवदंसि जहा को दिटुंतो अयं घयकुंभे आसी अयं महुकुंभे आसीसेत्तं जाणयसरीरदव्वास्सयं॥ टी. / अथ किं तत् ज्ञशरीरद्रव्यावश्कमिति प्रश्ने निर्वचनमाह। (जाणयसरीरदव्वास्सयं आवस्सत्तीत्यादि) ज्ञातवानिति ज्ञःप्रतिक्षण शीयत इति शरीरं ज्ञस्यशरीरं ज्ञशरीरं तदेव अनु-भूतभवत्वाद् द्रव्यावश्यकं किं तदित्याह। यच्छरीरकं संज्ञापकं च वपुरित्यथः। कस्य संबधीत्याह / आयस्सएतीत्यादि आवश्य-कमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः। तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गतार्था अधिकारा गृह्यन्तेतस्य तेषांवा वा ज्ञातु संबंधि कथं भूतं तदिदं / ज्ञशरीरं द्रव्यावश्यकं भवती-त्याह व्यपगतच्युतं त्यक्तदेह जीवविप्रमुक्तमित्य क्षरयोजना / इदानीं भावाथः कश्चिदुच्यते तत्र / व्यपगतचैतन्यपर्यायाद-चेतन्यलक्षणं पर्यायान्तरं प्राप्तमत एव च्युतं उच्छवासनि स्वासजीवितादिशविधप्रमाणेभ्यः परिभ्रष्टम् / अचैतन्यं श्वासाद्ययोग्यत्वादन्यथा लेष्ट्रवादीनामपि तत्प्रसंगातेभ्यश्च परिभृशस्वभावादिभिः कैश्चित् स्वभावत एवा भ्युपगम्यते / तदपोहार्थमाह / च्यावित आयुःक्षयण तेभ्यःपरिभसितं / ननु स्वभावतस्तस्य सदावस्थितत्वेन सर्वदा तत्प्रसंगादेवं च सति कथं भूतं तदित्याह। त्यक्तदेह दिह उपचते त्यक्तो देह आहारपरिणामजनितोपचयो येन तत्त्यक्तदेहं / अचेत नस्याहार-ग्रहणपरिणत्योरभावात् / एवमुक्तेन विधिना जीवेनात्मना विधमनेकधा प्रकर्षण मुक्तं जीवविप्रमुक्तकं किं तदेतदावश्यक / ज्ञस्य शरीरमतीता वश्यकभावस्य कारणत्वाद्रव्यावश्यकम्।अस्य चनो आगमत्वमागमस्य तदनीं सर्वथा भावान्नो शब्दस्य चात्र पक्षे सर्वनिषेध वचनत्वादिति भावः / ननु यदि जीवविप्रमुक्तमिदं कथं तहस्य द्रव्यावश्यकत्वं लेष्ट्रवादीनामपि तत्प्रसंगात्तत्पुद्गलानामपि कदाचिदावश्यकवेतृभिर्गृहीत्वा मुक्तत्वसंभवादित्याशंक्याह / (सेज्जागत) मित्यादि यस्मादिदं शय्यागतं वा संस्तारगतं च नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपि ब्रूयादहोअनेन शरीरसमुच्छ्रायेण जिनदृष्टितभावेन आवश्यकमित्येतत्पदे गृहीतमित्यादि यावदुपदर्शितमिति तस्मादतीतवर्तमान
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy