________________ आवस्सय 475 अभिधानराजेन्द्रः भाग 2 आवस्सय विधफलशून्या एव सपद्यन्ते उपयुक्तस्य तु मतिवैकल्पादितः सदोषा अप्यमी कर्ममलापगमार्यवेत्यलं विस्तरेण / / णमिति पूर्ववत् / जस्सत्ति यस्य आवस्सएति पयंति / आवश्यकपदाभिधेयंशास्त्रमित्यर्थः। ततश्च यस्य कस्यचिदा वश्यकशास्त्र शिक्षितं जितं यावत्। वाचनोपगतं भवति (सेणं तत्थेति। सजन्तुस्तत्रावश्यकशास्त्रे वाचनाप्रच्छना परिवर्तनाधर्म-कथभिर्वतमानोऽप्यावश्कोपयोगे अवर्तमान आगमतः आगम-माश्रित्य द्रव्यावश्यकमिति समुदायार्थः / अत्राह / नन्वागममाश्रित्य द्रव्यावश्यक मित्यागमरूपमिदं आवश्यकमित्युक्तम् भवति। एतच्चायुक्तं। यतः आगमो ज्ञानं ज्ञानं च भाव एवेति। कथमस्य द्रव्यत्वमुपपद्यते। सत्यमेतरिकत्वागमस्य कारणमात्मा तदधिष्ठितो देहशब्दश्वोपयोग शून्यसूत्रोचारणरूप इहास्ति नतु साक्षादागमः। एतच त्रितयमागमकारणत्वात्कारणे कार्यो-पचारादागम उच्यते / कारणं च विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः / अनु०॥ शिक्षितादिपदानां व्याख्या शिक्षितादि शब्दे।। उदात्तादिघारविकलं प्रतिपूर्णघोषं / अत्राह। घोष सममित्युक्तमेव तत्क इह विशेष इत्युच्यते / धोषसममिति / शिक्षाकालमधिकृत्योक्तं / / प्रतिपूर्ण घोषं तु परावर्तनादि कालमधिकृत्येति विशेषः / / तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति / स जंतुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया प्रच्छन्नयार्थादेर्गुरु प्रति प्रश्नलक्षणयापरावर्तनया पुनः पुनस्सूत्रार्थाऽभ्यासलक्षणया धर्मकथयाहिंसादिधर्मप्ररूप-णस्वरूपया। वर्तमानोऽप्यनुपयुक्तत्वादिति साध्याहारमागमतो द्रव्यावश्यकमित्यनेन सम्बंधः / ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपिद्रव्यावश्यकं भवति। तथानुत्प्रेक्षयाऽपि तत्र वर्तमानस्तद्भवति नेत्याह। (नो अणुप्पेहाएत्ति) अनुप्रेक्षया ग्रन्थार्थानुचिंतनरूपया तत्र वर्तमानो नद्रव्यावश्यकमित्यर्थः / अनुप्रेक्षायामुपयोगमन्तरेणाऽभावादुपयुक्तस्य च द्रव्यावश्यकत्वायोग्यादितिभावः / अत्राह परः। (कम्हति) ननुकस्माद्वावाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं कंस्माचानुप्रेक्षया तत्र वर्तमानो न तथेति प्रच्छकाभिप्रायः / एवं प्रष्टसत्याह / (अणुवओगोदव्य) मिति कृत्वा उपयोजनउपयोगोपि जीवस्य बोधरूपोव्यापारः / सचेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते / न विद्यते सो यत्र सोऽनुपयोगः पदार्छः / सविवक्षितो पयोगस्य कारणमात्रत्वात् द्रव्यमेव भवतीति कृत्वाऽस्मात्कारणादनन्तरोक्तमुपपद्यत इति शेषः / एतदुक्तम् / भवत्युपयोगपूर्वका अनुपयोगपूर्वकाश्चवाचना प्रच्छनादयः संभवत्येव तत्रेह द्रव्यावश्यकचिन्ता प्रस्तावादनुपयोगपूर्विका गृह्यते / अतएव सूत्रेणाऽभिहितस्याऽप्यनुपयुक्तस्याध्याहारस्तत्रकृतोऽनुपयोगस्तुभावशून्यता तच्छून्यं वस्तु द्रव्यमेव भवतीत्यतोवाचनादिभिस्तत्रवर्तमानोऽपि द्रव्यावश्यकम् / अनु-प्रेक्षा तूपयोगपूर्विकैव संभवत्यतस्तत्र वर्तमानो न तथेति भावार्थः / अत्राह। नन्वागममतोऽपयुक्तो वक्ता द्रव्यावश्यक मित्येतावचेष्टसिद्धेः शिक्षितादिश्रुतगुणकीर्तनमनर्थकम् / अत्रोच्यते। शिक्षिता गुणोत्कीर्तनं कुर्वन्निदंज्ञापयति। यदुतैवं भूतमपि निर्दोष श्रुत-मुचारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति किं पुनः सदोषमुपयुक्तस्यतु स्खलितादिदोषदुष्टमपि निगदतः श्रुतमेव भवति / एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथा सुत्तं अत्थो व जिणमए किंचि आसज्जसोयारं नए नय-विसारओपूया) इति वचनात् इदमपि द्रव्यावश्यकं न यैश्चिन्त्यते तेच मूलभेदानाश्रित्य नैगमादयः सप्त तदुक्तं / / निगमसंगहववहा, उज्जसुए चेव होई वोधव्वे / / सद्दयसमभिरूळे, एवं भूते य मूलनया / / तत्रनैगमस्तावत्कियंति द्रव्यावश्यकानीच्छतीत्याह / / नैगमस्सुणं एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं दोण्णि अणुवउत्ता आगमउं दोण्णि दवावस्सयाइ तिण्णि अणुवउत्ता आगमओ तिणि दव्वावस्सयाई एवजावइआ अण्णुवउत्ता आगमओ तावइ आई दवावस्सयाई एवमेव बहारस्संवि संगहस्सणं एगो वा अणेगो वा अणुवउत्तो वा अणुवउत्तावा। आगमओ दवावस्सयं दव्वावस्सयाणि वा उज्जुसुअस्स एगे अणुवउत्तो आगमतो एग दवावस्सयं पुहुत्तं नेच्छा तिण्हं सहानयाणंजाणए अणुवउत्ते अवत्थु कम्हा जइजाणइ अणुवउत्ते न भवति सेत्तं / आगमउं दवावस्सयं / टी. निगमस्सेत्यादि / सामान्यविशेषादि प्रकारेण नैकोऽपितु बहवो गमा वस्तुपरिच्छेदो यस्यासौ निरुक्तविधिना ककारस्य लोपाद् नैगमसामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युगमपर इत्यर्थः / तस्य नैगमस्यको देवदत्तादिरनुपयुक्त आगमत एक द्रव्यावश्यकं द्वौ देवदत्तपज्ञदत्तावनुपयुक्तौ आगमतो द्रव्यावश्यके वयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि। किं बहुना। एवं यावन्तो देवदत्तादयोऽनुप-युक्ताः तान्यतीतादि कालत्रयवर्तीनि नैगमस्याऽगमतो द्रव्यावश्यकानिएतदुक्तं भवति। नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव नं पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव / ततो विशेषत्वादित्यस्येह प्राधान्येन विवक्षितत्वाद्यावन्तः के चन देवदत्तादिविशेषा अनुपयुक्ता स्तावन्ति सर्वाण्यप्यसौ द्रव्यावश्यकानि न पुनः संग्रहवत्सामान्यवादित्वादेकमेव च (ववहारस्सतित्ति) व्यवहरणं वयवहारो लौकिकप्रवृत्ति-रूपस्तत्प्रधानो नयोऽपि व्यवहारस्तस्याप्येवमेव। नैगमवदेको देवदत्तादिर-नुपयुक्तोऽथागमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यमिदमुक्तं भवति / व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्था-नभ्युपगच्छति न शेषान् / लोकव्यवहारे च जलाहरणव्रण पिंडीप्रदानादिकेघटनिव्वादि विशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तंतत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यते-ऽसौ न सामान्य व्यवहारानु पकारित्वाद्विशेष व्यतिरेकेणा-ऽनुपलभ्यमानत्वाचैत्यतो विशेषादिनैगममतसाम्येनातिदृिष्टः / अत्र चातिदेशेन चेष्टार्थ सिद्धेग्रंथलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयं (संग्रहस्सेत्यादि) सर्वमापि भुवनत्रनाऽन्तर्वर्तिवस्तूनि कुरुवं संगृह्णाति सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेको वा अनुपयुक्तोऽनुपयुक्ता वा यदा गमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा तत्किमित्याह (सऐगत्ति) तदेकं द्रव्यावश्यकम् इदमत्र हृदयं / संग्रहनयः सा