________________ आवस्सय 479 अमिधानराजेन्द्रः भाग 2 आवस्सय वत्तजसाज्वलतीति। इंदस्स वेत्यादि। तत्रंद्रः प्रतीतः स्कन्दः कार्तिकेयः रुद्रो हरः शिवस्त्वाकारविशेषधरः स एव व्यंतरविशेषो वा वैश्रवणो यक्षनायकः देवःसन्मान्यः नागो भवन पतिविशेषः यक्षभूतो व्यंतरविशेषो मुकुंदो बलदेवः आर्याप्रशांतरूपा दुर्गाऽस्यैव महिषारूढा। तत् कुट्टनपरा कौट्टक्रिया अत्रोपचारादिंद्रादिशब्देन तदायतनमप्युच्यते / अतः तस्येंद्रादिरूपोपलेपनसम्मा-र्जनवर्षणपुष्पधूपगंधमाल्यादीनि द्रव्यावश्यकानि कुर्वति। तत्र लेपनं छगणादिना प्रतीतमेव / सम्मानं दंडपुंछनादिना / वर्षणं गंधोदकादिना। शेषं गतार्थम् // तदेवं य एते चरकादय इंद्रा-देरुपलेपनादि कुर्वति तत कुप्रावचनिकं द्रव्यावश्यकम्। अत्र द्रव्यत्वमावश्यकत्वं नो आगमत्वं च लौकिकद्रव्यावश्यकोक्त-मिव भावनीयं निगयन्नाह (सेत्तमित्यादि) तदेतत् ज्ञशरीर भव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः / उक्तो नो आगमतो द्रव्यावश्यकांत्तर्गतज्ञशरीरभव्यशरीरव्यति-रिक्तद्रव्यावश्यकद्वितीयभेदः ||अथातृतीयभेदनिरूपणार्थमाह / / से किं तं लोगुत्तरिअं दवावस्सयं जं इमे समणगुणमुक्कजोगीछक्कायनिरणुकंपा हयाइव उदमा गया इव निरंकुशघट्टा मट्टा तु प्पट्टा पांडुरपडपाउरणा जिणाण-मणाणाए सच्छंदविहरिऊणं इभउकालं आवस्सयस्स उवट्टावयति सेसं लोगुत्तरिअंदवावस्सयं सेत्तं जाणय सरीरभवि असरीवतिरित्तं दव्वावस्सयं सेत्तंनो आगमतो दव्वावस्सयं / सेत्तं दव्वावस्सयं / / अथ किं तल्लोकोत्तरिकं द्रव्यावश्यकमत्र निर्वचनमाहा लोकस्योत्तराः साधवः अथवालोकस्योत्तरं प्रधानं लोकोत्तरं जिनशासनं तेषु तस्मिन्वा भवंति लोकोत्तरिकं द्रव्यावश्यकमिति व्याख्यातमेव किं पुनस्तदित्याह। जे इमेत्यादि / य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामनाज्ञया स्वच्छंदविरुद्धतयोभयकालमावश्यकाय प्रतिक्रमणायोपतिष्ठं ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरकं द्रव्यावश्यकमिति समुदायार्थः / इदानीमवयवार्थ उच्यते। तत्र श्रमणाः साधवस्तेषां गुणा मूलोत्तरगुणरूपास्तत्र जीववध-विरत्यादयो मूलगुणाः पिंडविशुद्धयादयस्तूत्तरगुणास्तेषु मुक्तो योगो व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात् श्रमणगुणमुक्ता योगिनः एते च जीववधादिविरतिमुक्ता व्यापारा अपि मनसा कदाचित्सानुकंपा अपि स्थुरित्याहा षट्सुकायेषु पृथिव्यादिषु विषये निर्गता अपगता अनुकंपा मनसा दया येभ्यस्ते तथा निर-नुकंपाः तीच्चत्तमव हया इव तुरगा इव उद्दा माश्चरणनिपात-जीवोपम निरपेक्षत्वात्तदचारिण इत्यर्थः / / किमपीत्येवं भूतास्ते इत्याह / यतो गजा इव दुष्टद्विरदा इव निरंकुशा गुर्वाज्ञाव्यति-क्रमचारिण इत्यर्थः / अत एव घट्टति येषां जंघे श्लक्ष्णीकरणार्थ फेनादिना घृष्टे ति भावतस्तेऽवयवावयविनोरभेदोपचारात्घृष्टास्त-था मट्ठति। तैलोदकादिना येषां केशाः शरीरं वा मृष्ट ते तथैव मृष्टा अथवा केशादिषु मृष्टं विद्यते येषांते मृष्टवन्तो वत् प्रत्ययलोपा-न्मृष्टाः तथा। (तुप्पोटुंति) तुप्रामूक्षिता वदनेन वा वेष्टिताः शीतरक्षादि निमित्तमोष्ठा येषां ते तुप्रौष्ठा तथा मलपरीषहासहिष्णुतादूरीकृतत्वात्पांडुरो धौतपटः प्रावरणं येषां ते तथा जिनानामनाज्ञया स्वच्छंद विरुद्धतीर्थकराज्ञा बाह्या स्वस्वरु-याविविधचेष्टाः / कृत्वा तत्रोभयकालं प्रभातसमयेऽस्तमयसमयेचचतुर्थ्यर्थेषष्ठीति कृत्वा आवश्यकाय प्रतिक्रमणायोपतिष्ठते तत्तेषामावश्यकम अत्र द्रव्यावश्यकत्वं भावशून्यत्वातृ फलाभावत्वादप्रधानतया अवसेयं / नो आगमतो देशे क्रियालक्षण आगमानावान्नोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति अत्र चलोकोत्तरिके द्रव्यावश्यके उदाहरणं। वसंतपुरे नगरे अगीता-सिंविग्ने गच्छे एकोविचरति तत्र श्रमणगुणमुक्तयोगीसं विनाभासः साधुरेकः प्रतिदिनं पुरः कर्मादिदोषदुष्टमनेषणी यं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति। तस्य गच्छाचार्ये गीतार्थत्वात्प्रायश्चित्तं प्रयच्छन् भणति पश्यत अहोकथमसौ भावमगोपयन् अशठतया सर्व समालोचयति। सुखं हि आसेवना क्रियते दुःखं चेत्थमालोचयितुं तस्मादेष अशठतयेव शुद्धोसौ तथा च तं प्रशस्यमानं दृष्ट्वा अन्येऽप्य गीतार्थश्रमणः प्रशंसंति चिंतयंति च गुरोश्चेदिच्छया भाव्यस्यहि दोषासेवना-यामसकृत्यपतितायामपि न कश्चिद्दोषः। आलोचनाया एव साध्यत्वादित्थं चान्यदा तत्र संविग्रगीतार्थः कश्चिदायातस्तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तस्त्व मित्थमस्य प्रशंसा कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे / तथाहि गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वन्हिना प्रदीपयति तथा विवेकतया तत्र नरपतिलोके श्लाघमाणः अहो धन्योऽयं वणिग् भगवंतं हुतभुजमित्थमौदार्थभक्तयतिशयाद्रत्नस्तप्पयति। अन्यदा च प्रबलपवनपटल-प्रेरितस्तत्प्रदीपितदहनः सराजप्रासादसमस्तमपितन्नगर दहतिस्स। असाच राज्ञादंडितो नगराच्च निष्कासितस्तदेवं राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरं लोकश्च नाशित स्तथा त्वमपि अस्याऽविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि यदि पुनरेनमेक शिक्षयसि तदा तथाविध न पइव त्वंपरिकारानिरपायतामनु भवसि।तथा ह्यन्येन केनचिद्राज्ञा तथैव कुर्वन् कश्चिद्वणिगाकर्णितस्तेभ्यो नगरदाहापायदर्शनातक्षितोशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्यदण्डितो निष्कासितश्च एव त्वम-पीत्याधुपनयोगतार्थः / इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तत तावत्तेन गीतार्थसाधुना शेषसाधवोभिहिता एष गणाधिपो महानिर्द्धमतास्पदमगीतार्थो यदिन परित्यज्यते तदा भवतां महते अनर्थाय प्रभवतीति तदेवं तत्साध्वावश्यकप्रकार सर्व लोकोत्तरिक द्रव्यावश्यकमिति निगमयन्नाह (सेतमित्यादि) तदेतल्लोकोत्तरिक द्रव्यावश्यकं एतद्गणनेज्ञशरीरभव्यशरीख्यतिरिक्तं त्रिविधममि द्रव्यावश्यक समर्थितं भवत्यतस्तदपि निगमयति / सेत्तमित्यादि। एतत्समर्थेन नो आगमतो द्रव्या-वश्यकस्य प्रभेदस्य समर्थितत्वात्तदपि निगमयति / सेत्तं नो आगमतो इत्यादि एतत्समर्थने च यत्प्रक्रांतं। द्रव्यावश्यकं तस्योत्तरः भेदमप्यवसितमतो निगमयति सत्वं दव्वावस्सयमिति तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः। उक्तं सप्रपंचं द्रव्यावश्यकम्।। साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह / / सेकिंतं भावावस्सयं भावावस्सयं दुविहं पण्णतं तंजहा आगमतो अनो आगमतो अ॥ टी।। अथ किं तद् भावावश्यक मित्यत्र निर्वधनमाह || भावावस्स्यं दुविहमित्यादि वक्त विवक्षितपरिणामस्य भवनभावं