________________ आलोयणा 457 अभिधानराजेन्द्रः भाग 2 आलोयणा नामेव सकाश आलोचयंति इति केचिद्व्याचक्षते तत्तुन युज्यते यस्मात् लघुस्वकदोषाः सपक्षेऽपि। किमुक्तं भवति। श्रमण्योऽपि स्वकलघुदोषतस्तुच्छत्वरूपस्वक दोषतः परिस्रावित्वं कुर्युः परिभवं वा समुत्पादयेयुस्तस्मान्मैथुनमपि श्रमणानामेवांतिके विकटनीयं / असती कडजोगी, पुण मुत्तूणं संकियाइं ठाणाई॥ आइण्णो धुवकम्मिय, तरुणीथेरस्स दिट्ठिपहे ||2|| आर्यरक्षितकालेऽपि यदिसंयत्या मूलगुणापराध-आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते / तस्याऽसति अभावं यः कृतयोगी कृतः सूत्रतोऽर्थतश्च छेदग्रंथधरः स्थविरस्तस्य समीपे आलोचयति नवरं शंकितानि स्थानानि वक्ष्यमाणानि शून्य गृहादीनि मुक्त्वा किंत्वाचीणे उचिते प्रदेशे आलोचयितव्यं यत्र धुक्कर्मिको दृष्टिपथेवर्तते दृष्ट्या पश्यति न तु शृणोति / तत्र जवनिकांतरिता आलोचयति / तरुणी थेरस्येत्येष तृतीयभंग उपात्तः / स च शेषभंगानां त्रयाणामप्युपलक्षणं / तं चेमे। स्थविरा स्थविरस्यालोचयतिर स्थविरा तरुणस्या-लोचयतिर तरुणी स्थविरस्यालोचयति 3 तरुणी तरुणस्य 4 यदुक्तं मुक्त्वा शंकितानि स्थानानि // संप्रति तान्येवोपदर्शयति॥ सुण्णघरदेउलउजाण, रण्णपच्छाण्णुवस्सयस्संतो। एयंविवजे ठायंति, तिण्णिचउरोहवा पंच ||1|| शून्यगृहं देवकुलं उद्यानमरण्यं प्रच्छन्नं च स्थानम् तथा उपाश्चयस्याऽतर्मध्ये एतद्विवर्जे एतद्विरहिते प्रदेशे आलोचनानिमित्तं तिष्ठति। ते च जघन्यतस्त्रया यदि वा चत्वारोऽथवा पंचते च त्रिप्रभृतयो वक्ष्यमाणभंगकानुसारेण प्रतिपत्तव्याः भंगकानेवाह / / थेरतरुणेसु भंगा, चउरो सव्वत्थपरिहरे दिहिं।। दोण्हपुण तरुणाणं, थेरे थेरी यप्रचुरसं // 2 // स्थविरतरुणेषु भंगाश्चत्वारस्ते च प्रागेवोपदर्शिताः / स्थविरा स्थविरस्यालोचयंतीत्यादि // तत्र यदि जवनिकाया अवकाशो नास्ति ततः सर्वत्र चतुर्वपि भंगेषुदृष्टि परिहरेत्। भूमिगत दृष्टिका सति आलोचयेत् यथा आलोचनाहः शृणोति तत्र चतुर्भगे द्वयोः स्थविरः स्थविरा च प्रत्युरसमिति / प्रत्यासन्नौ सहायौ दीयेते / येन परस्परं तौ दृष्टिं न बधोतोनापि मुख विकारं कुरुतः। एवमस्मिन् चतुर्थे भंगे चत्वारो भवंति // थेरो पुण असहाओ, निग्गंथी थेरिया वि ससहाया। सरिसवयं च विवजे, असती पंचमं कुजाशा तृतीयभंगे पुनःस्थविरोऽसहायोऽपि भवतु / तरुण्यः पुनः स्थविरासहाया दीयते। द्वितीयभंगे निग्रंथी स्थविराऽपि ससहाया कर्तव्या | तरुणस्याऽलोचनार्हस्य सहायोऽस्तु वान वा कश्वि-घोषः। एवं तृतीये द्वितीये च भंगे त्रयो जना भवंति। तथा सदृशवयो नियमतः सहायानां विवर्जयेत् तद संभावे सदृशवया अपि भवेत्। तत्र प्रथमभंगे चतुर्थभंगे वा सदृशवयः सहायसभवे पंचमक्षुल्लकक्षुल्लका वा पटुकां कुर्यात्॥ ईसिं अण्णोयताविया, उ आलोचयए विवक्खंमि। सरिपक्खे उकुड्ड, पंजलिचिठोवणुण्णातो।। विपक्षे श्रमणस्य समीपे श्रमणी आलोयति ईषत् अवनता ऊर्ध्वस्थिताः सदृशपक्षे पुनः श्रमणः श्रमणस्य पार्चे पुनरुक्कु-डुका / कुतप्रांजलि- रालोधयति / अथ सोऽर्शव्याधिपीडितस्ततो-ऽनुज्ञापनांकृत्वां अनुज्ञातः सन् निषधामुपविष्टमालोचयति।। दिट्ठीए हों तिगुरुगा, सविकाराओ सरत्तिसा भणिया। तस्स विवडितरागे, तिगिच्छजयणाएकायव्वा / / यो दृष्ट्या दृष्टिं बधाति तस्य दृष्टौ सविकारायां भवंति प्रायश्चित्ततथा चत्वारो गुरुकास्तत्र ये ते द्वितीयका दत्तास्य यदि एकतर पश्यति तत आलोचनातोऽपसारयंति यथा अपसर-तापसरत यूयं न किमप्यालोचनया प्रयोजनमिति / अथ सा निग्रंथ / स्वभावत एवोरालशरीरा सविकारा दृष्टा अपसरेति भणिता सति अपसृता तथापि तस्याऽलोचनाचार्यस्य यदि तस्या उपरि विवर्द्धितो रागस्तर्हि तस्मिन् सति यतनया चिकित्सा कर्तव्या॥ तामेवयतनामाह / / अण्णेहिं पगारिएहि, जाहो नियतेउं से न तीरति अ॥ घेत्तूणामरणाइति, गच्छजयणाए कायव्वा / / यदा अन्यैः प्रकारैस्तं भावं निवर्तयितुं न शक्नोति तदा तस्याः संयत्या आभरणानि वस्त्राणि गृहीत्वा यतनया चिकित्सा कर्तव्या॥ एतामेवाह / / जारिसवएहि ठिया, तारिसएहितमस्सतीचरिया। संभलिविणोयकेयण, वेलवणं चिहुरगंडेहिं / / यादृशैः सचित्रैर्वस्त्रैः प्रावृतेः सा संयती उपविष्टा दृष्टा तादृशैर्वस्त्रैस्तमोऽधकारमस्यास्तीति तमस्वती रात्रिस्तस्यां तरुणसाधुर्वरितः प्रावृतः क्रियते ततः संभलीति दूती प्रेष्यते ततो विनावितृको नरविहीनो यओको निवासो गृहमित्यर्थः। तत्र केतनं संकेतो दीयते दत्वा च स तत्र स्थितस्तावत्तिष्ठति / यावत्स तरुणसाधुः संयतीनेपथ्योपेत आगच्छति / तस्मिंश्चागते चिकुरेषु केशेषु गंडयोश्व विलेपनं क्रीडनं करोति तत्र यद्येता वता शुक्रनिपाततस्तिष्ठति ततः सुंदरं / अथ नोतर्हि संयत नेपथ्योऽपसार्यते प्रकारांतरमारभ्यते॥ तदेव प्रकारांतरमाह। अहवा वि सिद्धपुत्तिं, पुटिव गमेऊण तीए सिबएहि आवरियकालियाए, सुण्णागरादिसंमेलो। अथवेति प्रकारांतरद्योतने पूर्व सिद्धपुत्रीं गमयित्वा तस्याः सयत्याः शिवायैरावृत्य कालिकायां कृष्णायां रात्रौ शून्यगृहा दिषु तथा सह तस्य मेलः संगमः कर्तव्यः। व्य०॥ सा चोलाचनाऽऽचाऱ्यांशिष्यभावे भवति तत्र च शिष्या चाव्णामियं मय्यादा सामाचारि पच्छित्तशब्दे॥ सम्प्रतियादृशा उत्सर्गत आलोचनास्तिानभिधित्सुराह|व्य०५ उ०|| गीयत्था कयकरणा, पोढा परिणामिया य गंभीरा। चिरदिकिखया य बुढा, जईगं आलोयणा जोगा।। गीतार्थः सूत्रार्थतदुभयनिष्णातत्वात् कृतकरणा अनेक वारमालोचनायां सहायीभवनात् प्रौढाः समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चात्कर्तुमशक्यत्वात् परिणामिकावाऽपरिणामिका वा गंभीरामहत्यप्यालोचक स्य दोषे श्रुते अपरिश्राविणश्चिरं दीक्षिताः प्रभूतकं प्रवृजिता वृद्धाः श्रुते न