________________ आलोयणा 452 अभिधानराजेन्द्रः भाग 2 आलोयणा भाविष्यति कालो यत्र दुर्लभो गीतार्थः आलोचनार्हस्तत एष्यन्त कालमधिकृत्य दुर्लभं गीतार्थं चाश्रित्य तथा जंघाबलपरिहान्या रोगातंकेण वाजातोऽपराक्रम आलोचकस्ततस्तं वा प्रतीत्य सूत्रमधिकृतं प्रवृत्तं यावद्दिशादिसूत्र / अत्र पर आह / ननुपूर्व-मेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि / यथा एकाकि विहारे दोषाः / तदनंतरं पार्श्वस्थादिविहारोऽपि प्रतिषिद्धः / ततो नियमाद्च्छे वस्तव्यमिति नियमितं / एवं च नियमिते कथमेकाकी जातो येनोच्यते यत्रैवात्मन आचार्योपाध्यायान्पश्येत्तत्रैव गत्वा तेषामंतिकं आलोचयेदित्यादि। अत्र सूरिराह॥ सुत्तमिणं कारणियं, आयरियादीण जत्थ गच्छंमि। पंचएहं हो असती, एगो व जहिं न वसियध्वं / / सूत्रमिदमधिकृतं कारणिकं कारणे भवं कारणिकं कारणे सत्येकाकिविहारविषयमित्यर्थः / इयमत्र भावना। बहूनि खल्वशिवादीनि एकाकित्यकारणानि ततः कारणवशतोयो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोषः अशिवादीनि तु कारणानि मुक्त्वा आचार्यादिविरहितस्य न वर्त्तते वस्तुं तथा चाह / यत्र गच्छे पंचानामाचार्योपाध्यायगणा वच्छेदिप्रवृत्तिस्थ-विररूपाणामसदभावो यदिवा यत्र पचानामन्यतमोऽप्येकोन विद्यते। तत्रनवस्तव्यमनेकदोषसम्भवात्ता नेव दोषानाह। एवं असुभगिलाणे परिण्णकुलकज्जमादिवग्गउ / अण्णस्सतिसल्लस्सा जीवियथाते चरणघातो॥ एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृत-कस्थापनादौ अपरोल्हानप्रयोजनेष्वन्यः परिज्ञायां कृत-भक्तप्रत्याख्यानस्य देशनादौ अपरः कुलकार्यादौ व्यग्र इति। अन्यस्य पंचमस्याऽप्यंत्यावस्थाप्राप्तस्य आलोचनाया असंभवेनसन्यस्य सतो जीवनाशे चरणव्याघातवरणगात्रभ्रंशश्चरणभ्रंशे च शुभगतिविनाशः / अत्र पर आह।। एवं होइ विरोहो आलोयणापरिणतोउ सुद्धोउ। एगतेण पमाणं परिमाणो वीन, खलु अम्हं॥ नत्येवं सति परस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते / सशलयस्य सतो जीवितनाशे चरणभंशः / प्राक्त्वेवमुक्तमदत्तलोचनेऽप्यालोचनापरिणामपरिणतः शुद्ध इति ततो भवति परस्परविरोधः / अत्र सूरिराह (एगते णेत्यादि) न खल्वस्माकं स्वशक्त्यनिगूहनेन यथाशक्तिप्रवृत्तिविरहितः केवलपरिणामः एकांतेन प्रमाण तस्य परिणामाभासत्वार्तिकतु सूत्रं प्रमाणीकुर्वतो यथाशक्तिप्रवृत्तिसमन्वितः। नचैकाद्यभाव गच्छे वसन् सूत्रमनु-वर्तते। ततस्तस्य तात्विकपरिणाम एव नेति सशल्यस्य जीवितनाशे चरणनाशः / पुनरपि भक्तव्यांतरं विवक्षुः प्रश्नमुत्थापयाति। चोयग किं वा कारण, पवण्ह सती तहिं न वासियव्वं / दिटुंता वाणियए, पिंडियआत्थे वसिउकामो ||शा चोदक आह॥ यत्रपंचानां परिपूर्णानामसदभावः तत्र न वस्तव्यमित्यत्र किंवाकारणं को नाम दोषः // सूरिराह / / अत्र अधिकृतार्थे वाणिजोपीडितार्थेन वस्तुकामेन दृष्टान्तः / / उप-मागाथायां सप्तमी तृतीयार्थे / / इयमत्र भावना / / कोऽपि वणिक् तेन प्रभूतार्थे पीडितस्ततः सोऽचिंतयत् कुत्र मया वस्तव्यं यत्रैनमर्छ परिभुजेऽहमिति ततस्तेन परिचिंत्येदं निश्चिक्ये॥ तत्थ न कप्पइ वासो आहारो जच्छ नत्थि पंच इमे। राया वेज्जाधणिमं नेवइया रूवजक्खा य॥ तत्र गमनं कल्पते वासो यत्रेमे वक्ष्यमाणाः पंच नाधाराः। केते इत्याह। राजा नृपति वैद्यो भिषक् अन्ये च धनवन्तो नैतिका नीतिकारिणो रूपयक्षाः धर्मपाठकाः कस्मादिति चेदत आह॥ दविणस्स जीवियस्सव, वाघातो होज जत्थ नत्थेतो। वाघाए एगतरस्स, दव्यसंघाडणा अफला॥ यत्र नसंत्थेते राजादयः परिपूर्णाः पञ्च नियमतो द्रविणस्य धनस्य जीवितस्य वा व्याघातो भवेत् वैद्येन विना जीवितस्य राजादिभिर्विना धनस्य व्याघातो चैकस्य धनस्य जीवितस्य वा द्रव्यसंघाटना द्रव्योपार्जना विफला परिभोगस्थासम्भवादथवा॥ रण्णा जुवरण्णा वा, महरयय अमचतहकुमारेहि। एएहिं पडिग्गहियं, वसेज्ज रजं गुणविसालं।। राज्ञा युवराजेन महत्तरकेनामात्येन तथाकुमारैरेभिः पंच परिगृहीत राज्यं गुणविशालं भवति गुणविशालत्वात् तद्व सेत् आ-चार्योपाध्याप्रवर्तिस्थविरगीतार्थान् प्रतिपाद्यव्य, उ०१ एवमाचार्यपंचकसमेते गच्छे वस्तव्यं / यदि पुनः किं चिदपराधं प्राप्तो भवति गच्छश्च पंचकपरिहीनस्तदायं दृष्टांतः। जह पंचकपरिहीणं, रज्जडंमरभयवोरउदिवगं / उग्गहियसगडपिडगं, परंपरवचए सामि।। यथा राज्यं राजादिपंचकपरिहीनं संतं डमरं स्वदेशोत्थो विप्लवः भयं परचक्रसमुत्थं तस्कराश्चौरास्तैरुद्विग्नमुपगतं परित्यज्य आत्मीयं चशकटपिटकमुद्गृह्य परंपरंस्वामिनं द्राग्व्रजति यत्र स्वास्थ्यं लभते। इयपंचकपरिहीने, गच्छे आसन्नकारणे साहू। आलोयणमलहंतो, परंयाव बसिद्धे // इत्येवमनेन दृष्टांतप्रकारेण पंचकपरिहीने आचार्यादिपंचक विरहिते गच्छेप्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रामुक्तेन आयुयाघातादिरूपेण निजाचार्यादीनामंतिके आलोचना मलभमानः सूत्रोक्तया नीत्या परंपरमन्यसांभोगिकादिकं तावद्ब्रजति यावत् सिद्धान् गच्छति एतदेव सविशेषमाह। आयरिए आलोयण, पंचण्हं असति गच्छे वहियाजो। वोचत्थेचउलहुगा, गीयत्थे हों ति चउगुरुगा। आचार्येआचार्यसमीपे आलोचनादातव्या / गच्छे पंचानामाचार्यादीनामसति गच्छादहिगंतव्यं इयमत्र भावना / प्रायश्चित्तस्यानमापनेन साधुना नियमतः स्वकीयानामाचार्याणां समीपे आलोचयितव्यं तेषामभावे उपाध्यायस्य तस्याऽप्यभावे प्रवर्तिनस्तस्थाऽभावे स्थविरस्य तस्याऽप्यभावेगणावच्छेदिनः अथ स्वगच्छेपंचानामप्यभावस्ततो बहिरन्यस्मिन्सांभोगिकानामाचार्यादीनामभावे संविनानामसांभोगिकानां समीपे गंतव्यं तत्राप्याचार्यादिक्रमेणालोचना प्रदातव्या। यदा पुनरुक्तक्रमोल्लंघनेनालोचनां प्रयच्छति तदा प्रायश्चित्तं चतुलघु / तथा चाह (वावुच्छे चउलहुगा) इति व्यत्यस्ते विपर्यासे उक्तक्रमोल्लंघने इत्यर्थः / चत्वारो लघुकाः लघुमासा यदि पुनरुक्तक्रममुल्लंघयन् अगीतार्थसमीपे आलो चयति / तद