________________ आलोयणा 453 अभिधानराजेन्द्रः भाग 2 आलोयणा प्रायश्चित्तं चतुर्गुरु। एतदेवाह (गीयत्थे होति चउगुरुगा) तदेवं संविनानां संभोगिकात् यावत् विधिरुक्तः। संप्रति शेषान्प्रति विधिमाह / / संविग्गे गीयत्थे, सरूविपच्छाकडे य गीयत्थे। पडिकंते अन्भुट्ठिय, असती अन्नत्थ तत्थेव / / संविग्ने अन्यसांभोगिकलक्षणे असति अविद्यमाने पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यं तस्मिन्नपि गीतार्थे पार्श्वस्थे असति सारूपिकस्य वक्ष्यमाणस्वरूपस्य गीतार्थसमीपे तस्मिन्नपि सारूपिके असति पश्चात्कृतस्य गीतार्थसमीपे आलोचयितव्य! एतेषां च मध्ये यस्य पुरत आलोचना दातुमि-ष्यते। तमभ्युत्थाप्य तदनंतरस्य पुरत आलोचयितव्यं / अभ्युत्थानं नामवंदनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारोपणा / / तथा चाह / (पडिक्वंते अब्भुठ्ठिएत्ति) अभ्युत्थिते वंदनाप्रतीच्छनादिकं प्रति कृताभ्युपगमेऽतिक्रांतो भूयात् नान्यथा अथ ते पावस्थादय आत्मानं हीनगुण पश्यंतो नाभ्युत्तिष्ठति तत आह (असतित्ति) असति अविद्यमाने अभ्युत्थाने पावस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वा लोचयनीयमितरस्य तु पश्चात्कृतस्य इत्वरसामायिकारोपणं लिंगप्रदान च कृत्वा यथाविधि तदंतिकमालोचनीयं (अन्नत्थ तत्थवत्ति) यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठत्ति। तदा तेनान्यत्र गंतव्य येन प्रवचनलाघवं न भवति / तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वहति मासा-दिमुत्कर्षतः षण्मासपर्यवसान यदिवा प्रागुक्तस्वरूपंपरिहारतपः। अथस नाऽभ्युत्तिष्ठतिशुद्धंच तपः। तेन प्रायश्चित्तं दत्त ततस्तत्रव तपो वहति / एतदव असति इत्यादिकं व्याख्यानयति॥ असतीए लिंगकरणं, सामाइय इत्तरं च कितिकम्म। तत्थेवय सुद्धतवो, गवेसणा जाव सुहदुक्खे॥ असती अविद्यमाने पश्चात्कृतस्याऽभ्युत्थाने गृहस्थात्त्वात् लिंगकरणं इत्वरकाल लिंगसमर्पणं तथा इत्वरमित्वरकाल सामायिकमारोपणीयं। / ततस्तस्यापि निषद्यामारचय्य कृति कर्म वंदनकं कृत्वा तत्पुरत आलोचयितव्यं / तदेवमसतीति व्याख्या-तमधुना तत्त्येवत्ति व्याख्या। यदि पार्श्वस्थादिको नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्तं तथा दत्तं ततस्तत्रैव तत् शुद्धं तपो वहति यावत्तपो वहति / तावत्तस्यालोचना प्रदायिनः सुखदुःखे गवेषयति / सर्वमुदंतं वहतीत्यर्थः / पश्चात्कृतमेव विधिमाह // लिंगकरणं निसेज्जा, कितिकम्ममणिच्छत्तो पणामो य। एमे व देवयाए, न वरं सामाइयं मुत्तुं // पश्चात्कृतस्येत्वरकालसामायिकारोपणपुरस्सरमित्वरकालं लिंगकारणं रजोहरणसमर्पणं तदनंतरं निषद्याकरणंततः कृतिकर्मवंदनकं दातव्यं / अथसवंदनकं नेच्छति। ततस्तस्य कृतिकर्ममनिच्छतः प्रणामो वाचा कायेन प्रणाममात्र कर्त्तव्यं पार्श्वस्थादेरपि कृतिकानिच्छायां प्रणामः कतर्व्यः / एवमेव अनेनैव प्रकारेण देवताया अपि सम्यक्तवभावितायाः पुरतः आलोचयति ते वरंसामायिकारोपणलिंगसमर्पणं न च कर्तव्यमविरतत्वेन तस्यास्तद्योग्यताया अभावात्। यदुक्तं (गवेषणा जाव सुहदुक्खे) इति तद्व्याख्यानयति॥ आहारउवहिसेजा, एएसणमादीसु होइजइयव्वं / अणुमोयणकारावण, सिक्खत्तिपयम्मितो सुद्धो। आहारः पिंड उपधिपात्रनिर्योगादिः शय्या वसतिरेषणाशब्दः प्रत्यकमभिसंबध्यते। आहारैषणायामुपध्येषणायां शय्यै-षणायामादि शब्दाद्विनयवैयावृत्यादिषु च भवति / तेन यतितव्य कथमित्याह / अनुमोदनेन कारापणेन च। किमुक्तं भवति / यदि तस्याऽलोचनार्हस्य कश्चिदाहारादीनुत्पादयति / ततस्त-स्यानुमोदनाकरणतः प्रोत्साहने यतते / अन्यथाऽन्यः कश्चिन्नो-त्पादयति ततः स्वयमालोचक आहारादीन् शुद्धानुत्पादयति / अथ शुद्धं नोत्पद्यते / ततः श्राद्धात् प्रोत्साहाकल्पि-कानप्याहारादीन् यतनया उत्पादयतीति / अथाकल्पिका नाहारादीनुत्पादयतः तस्य महती मलिनतोपजायते / अथ चस शुद्धिकरणार्थं तदति-कमागतस्ततः परस्परविरोधः अत्राह (सिक्खत्तिपयम्मितो सुद्धो) यद्यपि नाम तस्यालोचनाहस्थाथायाकल्पिकानप्या हारादीनुत्पादयति / तथाप्या-सेवनाशिक्षा तस्याऽतिके क्रियते / वितिपदे अपवादपदे स तथा वर्तमानः शुद्ध एव एतदेव भावयति॥ चोइयसे परिवार, अकरेमाणे भणाइ वा सढे। सव्वोच्छित्तिकरिस्स उ, सुयभत्तीएकुणहयूयं / / प्रथमतः। सेतस्यालोचनाहस्य परिवारंवैयावृत्त्यादिकमकुर्वतं चोदयति शिक्षयति / तथा ग्रहणासेवना शिक्षानिष्णात एष तत एतस्य विनयवैयावृत्त्यादिकं क्रियमाणं महानिर्जराहेतुरिति। एवमपि शिक्षमाणो यदिन करोति। ततस्तस्मिन्नकुर्वाणे स्वय-माहारादीनुत्पादयति। अथ स्वयं शुद्ध प्रायोग्यमाहारादिकं न लभते। ततः श्राद्धान् भणति प्रज्ञापयति प्रज्ञाप्य च तेभ्योऽ-कल्पिकमपि यतनया संपादयति नच वाच्यं तस्यैवं कुर्वतः कथं नदोषो यत आह (अब्बोच्छित्तीत्यादि) अव्यवच्छित्तिकरणस्य पार्श्वस्थादेः श्रुतभक्तया हेतुभूतया अकल्पिकस्याप्याहारादेः श्रुतभक्तया पूजां कुरुत यूयं नच तत्र दोष एवमत्रापि / इयमत्र भावना / / यथा कारणे पार्श्वस्थादीनां समीपे सूत्रमर्थं च गृण्हानोऽकल्पिकमप्याहारादिक यतनया तदर्थं प्रतिसेवमानः शुद्धो ग्रहणशिक्षायाः क्रियमाणत्वादेवमालोचनार्हस्याऽपि निमित्तं प्रतिसे वमानः शुद्ध एव आसेवनाशिक्षायास्ततत्समीपे क्रियमाणत्वादिति / एतदेव स्पष्टतरं भावयति॥ दुविहा सती एतेसिं,आहारादी करेइ सध्वेसिं। पणहाणीय जयंतो, अत्तहाए वि एमेव / / इह परिवाराभावे तस्याऽलोचनार्हस्य कर्तव्यमिति सामाचारी तेषां च पार्श्वस्थादीनां दुविहा असती इति परिवाराभावो द्विविधः / विद्यमानाभावोऽविद्यमानाभावश्च / विद्यमानः सन् अभावाऽसन् वैयावृत्यादेरकरणात् विद्यमानाभावः / अविद्यमानः सन्नभावोऽविद्यमानाभावः / तत्र द्विविधेऽप्यभावे (से) तस्या-लोचनस्याऽहारादिकं सर्वकल्पमकल्पिकं वायतनया करोति उत्पादयति / यतनया कथमकल्पिकमुत्पादयति इति चेदत आह / पंचकहान्या यतमानः / किमुक्तं भवति / अपरिपूर्ण मासिक-प्रायश्चित्तस्थानप्रतिसेवनापत्तौ गुरुलाधवपर्यालोचनया पंचकादिपंचकहीनमासिक प्रायश्चित्तस्थानप्रतिसेवनां करोति / तामपि यतनया पंचकग्रहणमुपलक्षणं तेन देशादिहान्यापि यतमानइति द्रष्टव्य। एवं सर्वत्र न केवलमालोचनार्थिमवं यतेत किंतुकारणे समुत्पन्ने आत्मार्थमप्येवमेवं पंचकहान्या यतते इति / यदुक्तं सम्यक्त्वभावितायाः पुरत आलोचयितव्यमेतदेतद्भावयति //