________________ आलोयणा 449 अभिधानराजेन्द्रः भाग 2 आलोयणा -- उक्तानि यानि दिनानि अष्टम्यादीनि तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते च स कालश्च उक्तदिनशेषकालस्तस्मिन्प्रशस्तेव्यतीपातादिदोषवर्जिते उपलक्षणमेतत्। प्रशस्तेच करणे प्रशस्तेचमुहूर्ते एतत्कालतः प्रशस्तमुक्तं भावतः प्रशस्तमाह। उचं स्थानं येषान्ते उच्चस्थापना ग्रहाः। भावे भावविषयं प्रशस्तं / किमुक्तं भवति / भावत उच्चस्थाने गतेषु तत्र ग्रहाणामुच स्थानमेवं (सूर्यस्य मेष उच्चः स्थानं! सोमस्य वृषः / मंगलस्य मकरः / बुधस्य कन्या वृहस्पतेः कर्कटकः / शुक्रस्य मीनः / शनैश्चरस्य तुला। सर्वेषामपि च ग्रहाणामात्मीयादुचः स्थानात् यत्सप्तमं स्थानं तत् नीचः स्थानं / अथवा भावतः प्रशस्ता ये सोमबहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषु एतैरवलोकितेषु च लग्नेषु आलोचयेत्। तथा तिस्रोदिशः प्रशस्ता ग्राह्याः। तद्यथा पूर्वा उत्तरा वरती च वरंती नाम यस्यां भगवानर्हद्विहरति समान्यतः केवलज्ञानी मनः पर्ययज्ञानी अवधिज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावन्नवपूर्वी यदि वा योयस्मिन् युगे प्रधान आचार्यः स प्रातिहारिकान् यथा विहरति। एतासां तिसृणां दि शामन्यत-मस्या दिशोऽभिमुख आलोचना)ऽवतिष्ठते तस्ये यं सामाचारी // निसज्जासति पडिहारी य, किइकम्मं काउयं जलुक्कडुओ। पहुपडिसेवरिसां, सुय अणुण्णवेउं निसज्जमातो॥ आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति / असति आत्मीय कल्पानामभावे अन्यस्य सक्तान् वा कल्पान् गृहीत्वा करोति। कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति तत आलोचकोदक्षिणत उत्तराभिमुखोऽवतिष्ठते / अथाचार्य उत्तराभिमुखो निषण्णः / तत आलोचको वामपार्श्वे पूर्वा-भिमुखस्तिष्ठति। वरंती च दिशं प्रत्यभिमुखो भवति / ततः कृति कर्मद्वादशावर्तवंदनकं कृत्वा प्रवृद्धोंऽजलिर्येन स प्रांजलिः। उत्सर्गत उत्कटुकस्थितः सन् आलोचयेत्। यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचनापरिसमाप्तिमुपयास्यति तायंतं च कालमुत्कुटुकः स्थातुं न शक्नोति। यदि वा आर्शोरोगवत उत्कुटुकस्य सतोऽशासि क्षोभमुपयांति ततो बहुप्रतिसेवी। अर्शः सुबहुसु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिक् पादपोंछने वा अन्यस्मिवा यथार्हे आसने स्थितः आलोचयंति किंपुनस्त दालोचनीयं उच्यते / चतुर्विध द्रव्यादि / तथा चाह॥ चेयणमचित्तदवं,जणवयसहाणे होइखेत्तंमि। दिणनिसिसुभिक्ख, दुरिभक्खकाले भावमिहेट्ठियरे॥ द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् / मिश्रं वा अचित्तमचेतनं चा अकल्पिकं यत्किंचित्सेवितं क्षेत्रतो जनपदे वा अध्वनि वा कालतो दिने निशि वा यदि वा सुभिक्षे वा भावे हेट्ठियरे सप्तमी तृतीयार्थे हृष्टने इतरेण या म्लानेन सता यतनया वा दर्पणः कल्पतो वा तत् आलोचयति।। (11) यथाभूतेषु-द्रव्यादिष्वालोचना-तादृशानां प्रतिपादनम्॥ सम्प्रति यथाभूतेषु द्रव्यादिष्वालोचना तथाभूतद्रव्यादि प्रतिपादनार्थमाह ।।१व्य०१ उ०॥ आलोयणा विहाणं,तं चेव जं दिव्वखित्तकाले य। भावे सुद्धमसुद्धो, ससणिद्धे सातिरेगाई॥१॥ आलोचनाविधानं तदेवात्राऽपि सविस्तरमभिधातव्यं यदुक्तं प्रथमसूत्रे (दव्वादिच उरभिग्गहे) त्यादिना ग्रंथेन ततः प्रागुक्तदोषवर्जिताआलोचना प्रशस्ते द्रव्ये क्षेत्रे काले भावे च प्रागुक्तस्वरूपे दातव्या नाऽप्रशस्ते। इह प्रतिसेवितं द्विधा भवति / शुद्धमशुद्धच। तत्र यत्शुद्धेन भावेन प्रतिसेवितं यतनया च तत् शुद्ध / तचा शुद्धत्वादेते न प्रायश्चित्तविषयाः। यत्वशुद्धन भावेन प्रतिसेवितमयतलनया च तदशुद्धातच प्रायश्चित्तविषयेऽशुद्धत्वात् तस्मि श्वाशुद्धे प्रायश्चित्तानि केवलानि मासिकादीनि सातिरेकाणि (ससिणिद्धे) इति सस्निग्धे हस्ते मात्रके वा सति तेन भिक्षाग्रहणत उपलक्षणमेतत् तेन बीजकासंघट्टनादिनाऽपि सातिरेकाणि द्रव्याणि तत्र सातिरेकाणि द्रष्टव्यानि॥ व्य, पंचाoll (12) आलोचनासमयवर्णनम्॥ कालो पुण एताए, पक्खादी वण्णितो जिणिदेहिं। पायं विसिहिगाए, पुव्वायरिया तहा चाहु / / 9 / / व्या.। कालोऽवसरः पुनः शब्देष्वेवं योज्यं / आलोचनाया विधिस्तावदयं। कालः पुनरेतस्या आलोचनायाः पक्षादिरर्द्धमासप्रभृतिरादिशब्दाच्चतुर्मासादिग्रहः वर्णित उक्तोजिनें ट्रैरर्हद्भिः प्रायो बाहुल्येन / प्रायोग्रहणं यदैव विशिष्ट मपराधमाप न्नस्त-दैवालोचना कदाचित्करोति ग्लानत्वोत्थितोदीर्घाध्वगतादिर्वा न पक्षादिकमपेक्षत इत्येतदर्थसूचनार्थ किं सर्व स्यालोचनायाः पक्षादिकाल इत्यत्राही विशिष्टकाया विशेषवत्याः सामान्या पुनरावश्यकद्वये प्रतिदिनं विधीयत एवेति पक्षादिकमालोचनाकालं पूज्यवचनेन दर्शयितुमाह। पूर्वाचार्या भद्रबाहुस्वा-मिमिश्रास्तथा च तेनैव प्रकारेण पक्षादिप्रतिपादनपरतया आहुर्बुवत इति गाथार्थः यदाहुस्ते। तदेवाह॥ पक्खियचाउम्मासे, आलोयणणियमसो उदायव्वा / / गहणं अभिग्गहाण य, पुव्वगाहिए णिवेएउं / / 10 / / व्याा पक्षेऽर्द्धमासे भवं पाक्षिकं पर्व चतुर्दशी पंचदशी वा। चतुषु मासेषु भवं चातुर्मासं पर्व च ततो द्वंद्वैकत्वात्पाक्षिकचातुर्मासे किमित्याह / / आलोचना उक्तार्था हस्वत्वं प्राकृतत्वात् (नियमसाउत्ति) सकारस्य प्राकृतत्वान्नियमेन वावश्यत-यैवान्यनियमा दातव्या देया। तथा ग्रहणं चोपादानं विधेयमभिग्रहाणां नियमानां चः समुच्चयार्थो योजितश्च पूर्वगृहीतान् प्रागुपात्ता निवेध गुरोराख्यायेति गाथार्थः।। किंपुनः पक्षादावभिमतेयमित्याह !! जीयमिणं आणाओ,जयमाणस्सविया दोससब्भावा।। पम्हसणपमायाओ,जलकुंभमलादिणाएण।। व्या० / / जितमाचरितं पूर्वमुनीनामिदं पक्षादावनतिचारणा-मप्योधत आलोचनादानं तथा आज्ञातः आप्तोपदेशात्पक्षादा-वालोचनेति प्रकृतं तथा यतमानस्याऽपि च संयमे घटमानस्याऽपि चास्तामितरस्य दोषसद्धावादतिचारसभवादालोचनेति प्रकृतमथकथं यतमानस्यातिचार इत्याह / (पम्हसणंति) विस्मरणं प्रमादश्च प्रमत्तता ताभ्यामत्रोदाहरणमाह / जलकुंभमलादि ज्ञातेन नीराधारघटमालिन्यहेतुप्रभृत्युदाहरणेन यथाहि जलकुंभे नित्यं प्रक्षाल्यमानेऽपि मलसंचयो भवतीत्येवं यतमानस्याऽप्यतिचारभाव आदिशब्दात् ग्रहकचवरादिग्रहः। आह / जहगेहं पतिदियहंपि, सोहियं तहय पक्खसंधीसु।