________________ आलोयणा 446 अमिधानराजेन्द्रः भाग२ आलोयणा दिक इ प्रत्ययः प्रल्हति स्तस्याजननमुत्पत्ति ल्हादिजननं-प्रमोदोत्पाद इति यावत् तथा ह्यतीचार धर्मतप्तस्य चित्तस्य मलयगिरि पवनसपर्केणेव आलोचना प्रदानेनाती चार धर्मा पगमतो भवति संविनानां परम मुनीनां महान्प्रमोद इति / तथा (अप्पपर नियत्तित्ति) आलोचना प्रदानतः स्वयमात्मनो दोषेभ्योनिवृत्तिःकृतातांचदृष्ट्वाऽप्यन्ये आलोचना भिमुखा भवंतीत्यन्येषामपि दोषेभ्यो निवर्तनमिति। तथा यदतीचारजातं प्रति सेवितं तत्परस्मै प्रकटनामात्मन आर्जवं सम्यग्विभावितं भवति। आर्जवं नाम अमायाविता तथा अतीचार-पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेन अतीचार पंकप्रक्षालनतो निर्मलता शोधिः / तथा दुष्करकरणंदुष्कर-कारिता तथाहि यत्प्रतिसेवनंतन्नदुष्करं अनादिभवा भ्यस्तत्वात् यत्पुनरालोचयति तत् दुष्करं प्रबलमोक्षा नुयायि वीर्योल्लास विशेषेणैव तस्य कर्तुमक्यत्वात् / तथा (विणउत्ति) आलोचयता चारित्रविनयः सम्यगुपपादितो भवति (नेस्सल्लत्त) मिति सशल्य आत्मा निः शल्यः कृतो भवतीति निःशल्यता एते शोधिगुणा आलोचनागुणाः आलोचनाशोधिरित्यनांतरत्वात्। व्य००१ / आलोचनायांदत्तायां ये गुणा भवन्ति ते भक्तप्रत्याख्यान शब्दे वक्ष्यन्ते। (8) कालोचना ग्रहीतय्या तानि स्थानानि।। आलोचना येषु कार्येषु कर्तव्या तानि व्यवहारकल्पे यथा (आलोयणत्ति का पुणकस्स सगासे व होइ कायव्वा। केसुव कज्जेसुभवे गमणा गमणादि एसुंतु) का किस्वरूपालोचनेति प्रथमतः प्रतिपाद्यं ततस्तदनंतरं कस्य सकाशे समीपे भवति कर्तव्यालोचनेति वाच्यं तथा केषु कार्येषु भवत्यालोचना तत्र प्रतिपत्ति लाघवाय संक्षेपतोऽत्रैव निर्वचनमाह / गमनागमनादिकेषु गमने आगमने आदिशब्दात् शय्यासंस्तारकवस्त्र पात्रपाद-पोंछनकग्रहणादिपरिग्रहः। तुशब्दो विशेषणे। सचैतद्विशिनष्टि गमनागमनादिष्ववश्यकर्तव्येषु सम्यगुपयुक्तस्याऽदुष्ट भावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य यते रालोचना भवतीति आह यानि नामावश्यकर्तव्यानि गमनादीनि तेषु सम्यगुपयुक्तस्या- दुष्टभावतया निरतिचारस्याऽप्रमत्तस्य किमालोचनया तामन्त-रेणाऽपि तस्य शुद्धत्वात् यथासूत्रं प्रवृत्तेः सत्यमेतत्के वलं याचेष्टा-निमित्ता सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचना मात्रेण शुद्भयंतीति तच्छुद्धिनिमित्तमालोचना उक्तं च / / जया उवउत्तो नेरइयारो ये करेइ ये करणिज्जायत्ते जोगा तत्थ को विसोही आलोइए आणालोइए वा गुरु भणइ तत्थ जाविठ्ठ निमित्ता सुहुमां आसवकिरिया ता उसुइंझति आलोयणामेत्तणंति॥ तत्र का नामालोचनेति यत्प्रथमं द्वारं तत्सुप्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिषुव्याख्यातं तथापि स्थानाशून्यार्थं किंचिदुच्यते / आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्व कार्यसमासे रूर्द्ध वा यदि वा पूर्व मपि पश्चादपि गुरोः पुरतो वचसा प्रकटीकरणं सालोचना उपरितनेषु प्रायश्चित्तेषु केषु चित्संभवति केषुचिन्न संभवति / तत्र येषु संभवति तत्प्रतिसिद्ध्यर्थमिदमाह॥ विइए नत्थि वियडणावा उ विवेगे तहा वि उस्सग्गो आलोयणाउ य नियमा गीयसगीए व केसिं वि॥ द्वितीये सूत्रक्रमः प्रामाएयानुसरणात् प्रतिक्रमणं तस्मिन् द्वितीये प्रतिक्रमणलक्षणे प्रायश्चित्ते नास्ति विकटना आलोचना तथाहि सहसाऽनाभोगतो वा यदा किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विद्रिय गोचरमागतेषु एव मनोज्ञेषु द्वेषगमनं तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूते तच तेनैव शुद्धिं यातीति नालोचयति (वा उविवेगत्ति) वा शब्दो विभाषायां विवेके विवेकाहे प्रायश्चित्ते आलोचनाया विभाषा कदाचित् भवति कदाचिन्नभवतीतिभावः। तथाहि तत् विवेकाह नाम प्रायश्चित्तं यत्परिस्थापनया शुध्यति यत्र यदकल्पिकमाधाकर्मिकादिपूर्वमविदितत्वेन गृहीतं पश्चाच्चकथमपि ज्ञातं तत्यदा परिस्थापयतः शुभभावनाध्यारोहे केवलज्ञानमुत्पद्यते / तदाऽसौ कृतकृत्यो जात इति नालोचयति अनुत्पन्नेतुज्ञानातिशये नियमादागत्य गुरुसमीपलोचयतीति / (तदाविउस्सग्गेइति) यथा विवेके आलोचना विभाषा तथा व्युत्सर्गेऽपि किमुक्तं भवति। व्युत्सर्गेऽपि कदाचिदालोचना भवति / कदाचिन्नभवति। यथा स्वप्रे हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतस्तदनन्तरं च शुभभावनाप्रकर्षितः केवलज्ञानमुत्पादि / मरणं वा तस्याऽकस्मिकमुपजामिति नास्त्या-लोचना अनुत्पन्ने तुज्ञाने जीवितं यावत् नियमादवश्यंविकटना यत् आलोचयति // तथा।। स्वप्ने मयाहिंसादिकमासेवितं कार्योत्सर्गेण च विशोधितमिति / / तचालोचनाहम्प्रायश्चित्तमेतेषु स्थानेषु भवति। व्य उ०१ करणि सु उजोगेसु, छउमत्थस्स भिक्खुणो॥ आलोयणपच्छितं,गुरूणं अंतिएसिया।। करणीया नाम अवश्य कर्तव्या योगाः श्रुतोपदिष्टाः संयमहेतवः क्रिया अथवा योगामनोकायव्यापाराः (जोगो विरियंथामो उच्छाहपरक्कमो तहा चेठ्ठा सत्ती सामत्थं चिय जोगस्स हवंति पझाया) इति वचनात्तेचाऽवश्यं कर्तव्य इमे कूर्म इव वसतौ संलीनगात्रः सुप्रणिहितपाणिपादाऽवतिष्ठते वचनमपि सत्यमसत्या मृषां वा ब्रूते न मृषां वेति मनसोऽप्यकुशलस्य निरोधनं कुशल-स्योदीरणमेवं रूपेषु करणीयेषुसम्यगुपयुक्तस्य निरतिचारस्येति वाक्यशेषः सातिचारस्योपरितनप्रायश्चित संभवात् छद्मस्थस्य परोक्षज्ञानिनो नतु केवलज्ञानिन स्तस्य कृतकृत्यत्वेनालोचनाया अयोगात् उक्तंच (छउमत्थस्स हवइ आलोयणा न केवलिणो) इति तच्छा तत्रोक्तेन प्रकारेण भिक्षत इत्येवं शीलो भिक्षुस्तस्य यतेरालोचनाप्रायश्चितं स्यात्तदपि च गुरूणामंतिके समीपे नान्येषामिति // प्रवद्वा०९८ धर्म० अ०३ / / इह करणीया योगा इति सामान्येनोक्तम् / / अधुनानामग्राहं करणीययोगप्रतिपादनार्थमाह व्य. उ.१ / भिक्खवियार विहारे, अण्णसुय एवमाइकजेसु। अविगडियंमि अविण तो, होजअसुद्धे व परिमोगो / भिक्षाया विचारे विहारे अन्येष्वपि चेवमादिकेषु कार्येषु आलोचना प्रायश्चित्तं भवतीति वर्तते इयमत्र भावना गुरुमापृच्छ्य गुरुणाऽनुज्ञातः सन् श्रुतोपदेशेनोपयुक्तः स्वयोग्य भिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोछनादियदिवा आचार्योपाध्याय स्थविरबालग्नानशैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादि गृहीत्वा समागतो विचार उच्चार भूमि