________________ आलोयणा 444 अमिधानराजेन्द्रः भाग 2 आलोयणा - र्यस्य तथा (आणत्ति) आज्ञापदैकदेशेपदसमुदायोपचारात् आज्ञाभंगानवस्थामिथ्याविराधनादोषाः प्रादुःष्युः। तस्य वा संस्तरणे अप्रीतिरप्रीत्या च परितापननिमित्तमपि प्रायश्चित्तं तथा शिष्याः प्रतीच्छाकाश्चैवं चितयें युरस्माकं द्वयोः क्षपकयोः वैयावृत्यकरणव्याप्रतानां सूत्रे हानि रूपलक्षणमेतत् अर्थे च तस्मादन्यत्र व्रजामः। संप्रति (गिलाणो धामअडतेयत्ति) व्याख्यानयति (गेलण्ण तुल्ल गुरुगा अडते परितावणा य संयकरणे / णेसणगहणागहणेदुगट्टहिं डतमुच्छाय) साधुषु वास्तव्यक्षपक वैयावृत्यकरणतः प्रयोजनान्तर व्यापृततया वा वैयावृत्यमकुर्वत्सु यद्यागंतुकः क्षपको ग्लानतुल्यो ग्लानोपमो जायते / तदा सूरेः प्रायश्चित्त चतुर्गुरुकाः / तथा भक्तं पानं च अददत्सु स्वयं (दुगढहिंडंतत्ति) द्विकार्थ च हिंडमाने स्वयं बा उपकरणस्य प्रत्युपेक्षणादेः करणे या परितापना अनागाढा वा (मूर्छायति) मूर्छा च तन्निमित्त प्रायश्चित्तमाचार्यस्य तत्रा-गाढपरि तापनानिमित्तं चतुर्लघु। आगाढपरि तापनानिमित्तं चतुर्गुरु मूर्छानिमित्तं षटलघु / णेसणगहणागहणे / इति स स्वयं हिंडमानः क्षुधापिपासया वा शीतेन उष्णनेवा परितापितः सन् यदि नेषणीयमपि गृण्हाति तन्निमित्तं प्रायश्चित्तमग्रहणेऽनेषणीयस्य प्रभूतं हिंडमानो यदवाप्नोति / आगाढपरि तापनादिकं तन्निमित्त मपि यत एवमादयो दोषाः / तस्माद्गच्छतमापृच्छय तदनुमत्या प्रतीच्छेत् / प्रतीच्छितस्य च सर्वप्रयत्नेन निर्जरार्थतथा कर्तव्य-मिति / इह आगतः सन्प्रथमदिवसेऽपि प्रच्छनीयो यथा केन कारणेन त्वमिहागतो ऽसीति अन्यथा यदि तमपृष्ट्वैव आलोचना मदापयित्वा च संवासयति / तदा प्रयश्चित्तं तदेवाह॥ पढमदिणंमिन पुच्छे, लहुओ मासो उ वाइगुरुओ य। तइयंमि हुँति लहुगा तिण्हं तु अतिक्कमे गुरुगा। यदि प्रथमे दिने न पृच्छेत् तर्हि तस्या ऽचार्य स्य प्रायश्चित्तं लघुमासः द्वितीये दिने पृच्छतो मासगुरु तृतीये भवंति चत्वारो लघुमासाः। त्रयाण तु दिनानामतिक्रमे चतुर्था दिषु दिवसेष प्रायश्चित्त चतुर्गुरुकश्चित्वारो गुरुमासाः / अधुना अपबादो भण्यते यदि कार्यादिप्रयोजन वशात्तमेकं द्वे त्रीणि दिनानि षण्मासानपि यावन्न पृच्ति तथापि न प्रायश्चित्त भाक् तथाचाह / / कजे भत्तपरिणा, गिलाणराया य धम्मकहवादी। छम्मासा उक्कोसा, तेसिं तु वइक्कमे गुरुगा। कार्ये कुलगणसंघविषये व्यावृतो भवेदाचार्यः / तथाकेनाऽपि साधुना भक्तपरिज्ञा कृता तस्य समीपे लोकोभूयानागच्छति / तत्राचार्यों धम्मकथने व्यापृतः। ग्लानप्रयोजने वाव्यापृतः॥ (रायाएधम्मकहीति) राजाचधार्थी प्रतिदिवसमेति ततस्तस्य धर्मः कथयि तव्य इति धर्मकथिक त्वेन व्यापृतः / वादीवा कश्च न प्रबलः समुत्थितः स निग्रही तव्य स्तत एतैः कारणैाप्तः सन् आचार्यों जधन्यत एकं द्वे त्रीणि वा दिनादि उत्कर्षतो यावत् षण्मासास्ता वदाग तुकं प्रष्टुमालोचनां वा प्रदापयितुं न प्रपारयेत् / इत्थमप्रपारणे च दोषाभावः तेषां षण्णां मासानां पुनर्व्यतिक्रमे किमुक्तं भवति / षण्मासेभ्यः परतोऽपि यदि न पृच्छति नाऽपि दाययत्वालोचनां ततः प्रायश्चित्तमायार्चस्य गुरुकाश्चत्वारो गुरुमासाः। अन्येतु ब्रुवते / षण्मासाना परतो यदि न पृतीच्छत्यालोचनां ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः। अन्ये तुब्रुवतेषण्मासानां परतो यदि न प्रतीच्छत्यालोचनां तदा लघुमासः। द्वितीयदिनेऽप्यप्रतीच्छने मासगुरु / तृतीयदिन चतुर्लघु / दिनेत्रयातिक्र मे चतुर्थादिषुदिनेष्वप्रतीच्छने चतुर्गुरुका इति कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां कुर्यात् // अनेण पडिच्छावे, तस्सासति सयं पडिच्छए रत्तिं। उत्तरवीमंसाए, खिन्नो य निसिंपि न पडिच्छे / / यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालोचनार्हस्तर्हि स संदेशनीयो यथा ऽयमापृच्छता / मालोचनाचास्य प्रतीष्यता-मिति / अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्या ऽसति भावप्रधानोऽयं निर्देशोऽभावे स्वयमेव रात्रौप्रतीच्छित्यालोचनां अथ यथा श्रीगुप्तेन षडुलूकः षण्मासान् यावत् वादं दत्वा निर्जित एवं दीर्घकालावलंविनिविवादे रात्रावप्युत्त रविमर्शेन प्रत्यु-त्तरचिंतया खिन्नपरिश्रांतो निशायामपि न प्रतीच्छत्यालोचनां दत्तामिति अथवा अत्राप्यपवादस्य मेवाह // दोहिंतिर्हि वा दिणेहिं, जइच्छिज्जइ तेनहोइ पच्छित्तं / तेणपरमणुण्णवणा, कुलादिरश्नो व दीवंति॥ यदि षण्णां मासानां परतो द्वाभ्यां दिनाभ्यां त्रिभिर्वा दिनैः परप्रवादी नियमात् पराजेष्यते कुलादिकार्य वा समाप्ति-मुपयास्यतीत्येवं निश्चीयते / ततस्तेष्वपि दिनेष्वप्रच्छने आलोचनाया अप्रतीच्छने वा न प्रायश्चित्तं भवति / अथ ज्ञायते तेष्वष्येकद्विवादिषु दिवसेषु न कुलादिकार्यसमाप्ति भविष्यति / न च परवादीजेष्यते तदा षण्मासाऽसमाप्ता चेव राज्ञः समीपे गत्वा ज्ञापनीयम् / यथाहं दिनमेकमक्षणिको भविष्यामि नान्यथा ग्राहीथा इति कुलादिकार्येष्वपि कुलादी न्यनुज्ञापयति तथाचाह (तेण परमित्यादि) तेनेत्यव्ययं तत इत्यर्थे ततः षण्मासेभ्यः परं कार्यापरिच्छितौ संभाव्यमानाथामनुज्ञापना कुलादेर्दिनमे-कयावत्कर्तव्या राज्ञश्च वादिविषये कारण दीपयंत्याचार्याः यथाऽहं कारणवशेन दिनमेकमक्षणिकोभविष्यामीति / एवं चेन्न कुर्वति तदा प्रायश्चित्तं चतुर्गुरुकाः। तदेवमुक्तः क्षपणोपसंपद्विधिरिदानी ज्ञानार्थ दर्शनार्थं प्रतीच्छितो नियमादालोचनां दापयितव्यस्सच दाष्यमानः कथमालोचनां ददाति उच्यते॥ आलोयणा तह चेव य, मूलुत्तरे न वरि विगडिपइमं तु / इत्थं सारणवायण, निवेयणं तेवि ए मेव॥ यथा सांभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं। तथात्राऽपि भणितव्यं। किमुक्तं भवति / उपसंपद्यमानोऽप्यालोचनांददानः पूर्वमूल गुणाति-चारात्प्रागुक्तक्रमेणालोचयति पश्चादुत्तरगुणानिति / नवरमयं विशेषः / विकटिते आलोचिते एकत्र स्थितान् भिन्नस्थितान्वा प्रत्येकं वन्दित्वा इदं भणति / / आलोयणामे दिण्णा, इच्छामि सारणवारणवोयणं / तेऽप्येवमेव प्रतिभणन्तो निवेदनकुर्वन्ति (अजो अम्हे विसारेज्जा वारेएज्जा) इति गता उपसंपदालोचना साम्प्रतम-पराधालोयनयाऽत्र प्रकृतं // कहाति)