________________ आलोयणा 439 अभिधानराजेन्द्रः भाग२ आलोयणा तवात्मीयानतथा भुंजानान् शिक्षयतने तु परीक्ष्यमाणमित्यादि पूर्ववत् भाषाद्वारे या अगारस्थिते भाषागृहस्थभाषा चढङ्कभाषा स्थूरस्वरभाषा तां भाषते / तत्रात्मीयान् तथारूपया भाषया भाषमाणान् शिक्षयते न पुनः परीक्ष्यमाणमित्यादि विभाषा पूर्ववत्॥ शेषाणि त्रीणि द्वाराण्येकगाथया प्रतिपादयति। थंडिलसामायारेहि, हवेइ अतरंतगं न पडिजये। अभीणतो भिक्खं, न हिंडइ अणेसणाइ च पेल्लेइ॥ स्थंडिले सामाचारी पादप्रमार्जनडगलकग्रहणं निदनालोक नादिरूपां हापयति परिभवति विलुपतीत्यर्थः / तत्र तथा सामाचारी विलुंपत आत्मीयान् साधून शिक्षयते न परीक्ष्य माणमित्यादि प्राग्वत् / गतं विचारद्वारम्॥ ग्लानद्वारमाह।अतरंतगं असमर्थ ग्लानमित्यर्थः। न प्रतिजागत्ति नापि तस्य ग्लानस्य खेलमल्लकादि कंसमर्पयति / अत्रापि ग्लानमप्रतिजाग्रत आत्मीयान् साधून् शिक्षयते। नतु परिक्ष्य-माणमित्यादि भाषा पूर्ववत्। गतं ग्लानद्वारं। भिक्षाग्रहणद्वारमाह / अभणितः सन् भिक्षां न हिंडते भणि तोऽपि च इषहिडने सति प्रतिनिवर्तते अनेषणीयां भिक्षां गृह्णाति / आदिशब्दात् कौटिल्ये न चोत्पादयति इत्यादि परिगृहः / तं तथा भिक्षागृहणे प्रवर्तमानमपि न शिक्षयति / किं त्वात्मीयान् साधून् इत्यादि प्राग्वत्। तस्य चागमो द्वाभ्यां स्थानाभ्यां भवति / ततस्ते एव द्वे स्थाने प्रतिपादयति॥ जयमाणपरिहवंते, आगमणं तस्स दोहिं ठमेहिं। पंजरभग्ग अभिमुहे, आवस्सगमादि आयरिए।। तस्योपसंपद्यमानस्यागमनं द्वाभ्यां स्थानाभ्यां भवेत् / तद्यथा। यतमानेभ्यः परिभवद्भ्यश्च यतमाना नाम संविग्नाः परिभवंतः पार्श्वस्थादयः / उक्तं च। सो पुण जयमाणगाण, वा साहूण मूलातो / आगतोहुजा परिभवंताण मूला उ, आगतो हुज्जा परिभवंता नाम पासत्थ। इति / तत्र यो यतमानसाधूनां मूलादागतः संज्ञानदर्शनार्थ पजरभग्नो वा समागतो भवेत् / यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्यतुकामः समागतो भवेत् / अनुषंतु कामो वा ज्ञानदर्शनार्थमिति। अथ वा यो यतमानेभ्यः समागतः स पजरभग्नः यः पुनः परिभवतां मूलादागतः स चारित्रार्थमुद्युतुकामः समागतो भवेत्। अनुद्यंतु कामो वा ज्ञानदर्शनार्थमिति। अथवायो यतमानेभ्यः समागतः स पंजरभग्नः यः पुनः परिभवद्भ्य उद्यंतुकामश्चारित्रार्थं समागतः / सोऽभिमुखः पंजराभिमुखः एतयोर्द्वयोरपि समागतयोरावश्यकादिभिः पदैराचार्येण परीक्ष्यमाणानपि सीदतः पश्यतितत आचार्येभ्यः कथयति। तेन कथिते सति यद्याचार्याः सम्यक् प्रतिपद्य तान्प्रमादिनः प्रति नोदयंति / प्रायश्चित्त त प्रयच्छति। ततस्तत्रोपसंपत्तव्यं / अथ कथितेऽपि ते आचार्यास्तूष्णीं तिष्ठति। भणंति वा किं तव यद्येतेन सम्यग्वर्त्तते।तर्हि अन्यत्र गच्छांतरे उपसंपत्तव्यं / न तत्रेति अय यतमानेभ्यः समागतः पंजरभग्न इत्युक्तं तत्र पंजरे इति किमुच्यते। तत आह / / पणगाइसंगहो होइ, पंजरो जायसारणाणोण्णं / पच्छित्तं चढमणाहिं, तिवारणं,सउणिदिवंतो।। पंचकं नाम आचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकरूपं आदिशब्दात् भिक्षवो वृषभाः क्षुल्लकवृद्धाश्च परिगृह्यते / तेषां संग्रहः पंचकादिसंग्रहो भवति। पंजरः अथवा आचार्यादी-नामन्योन्यं परस्पर यत्। मृदुमधुरभाषया सोपालं भंवा शिक्षयति एष वा पंजरः। यदि वा यत् प्रायश्चित्तं चमढनाभिरसमाचार्यों निवारणपूर्व रवरपुरुष स्तर्जयित्वा पश्चात्प्रायश्चित्तप्रदानेन यदा सामाचारीतो निवर्त्तनं तत् पंजरः अत्रार्थे शकुनिदृष्टांतः। यथा पंजरेशकुनेःशलाकादिभिः स्वच्छंदगमनं निवार्यते। तथा आचार्यादिपुरुषगच्छपंजरे सारणाशलाकया सामाचारीरूपोन्मार्गगमनं निवार्यते इति / अत्र ये यतमानानां मूलात् ज्ञानर्दनार्थमागता ये च परिभवतां मूलात् चारित्रार्थमागच्छन् ते संग्रहीतव्याः। ये पुनः पंजरभग्ना ज्ञानदर्शनार्थमागता ये च परिभवतां मूलात् ज्ञानदर्शनार्थमागमन्ते न संग्रहीतव्याः। तत्र ये संग्रहीतव्यास्ते एको वास्मादनेको वा यत आह!| ते पुण एगमणेगाणं, गाणं सारणा जहा पुव्वं / / उवसंपयआउटे, अणाउटे अन्नहिं गच्छे ॥शा ते पुनरुपसंपद्यमानाः कदाचिदेको वा स्यादनेको वा तत्रानेकेषां या सारणा सा यथापूर्व कल्पाध्ययने "उवएसो सारण चेव तइया पडिसारणा" इत्यादिना ग्रंथेन भणिता तथाऽत्रापि द्रष्टव्या यः पुनरेकोऽसमीचीनं कुर्वन् शिक्ष्यमाणश्च यद् व्यावृत्तः शिक्षा प्रत्यभिमुखोभवति / ततस्तस्मिन् आवृत्ते षष्ठीसप्तम्योरर्थ प्रत्यभेदात्तस्यावृत्तस्य उपसंपद्भवति यदिपुनविर्तते / तदा तस्मिन् अनावृत्ते इदं भण्यते। अन्यत्र गच्छमात्र स्था इति। अथवा इदमुत्तरार्द्धम् (आवस्सगमाइआयरिए) इति यदुक्तं तस्य व्याख्यानं आवश्यकादिषु गच्छवासिनः प्रमादिनो दृष्ट्वा आचार्याय कथयेत्। कथितेच सति यदि आचार्यः सम्यगावर्तते निजसाधून् सम्यक् शिक्षयते प्रायश्चित्तं च तेभ्यः प्रयच्छति ततस्तस्मिन्नावृत्तेतस्य तत्रोपसंपद्भवति। अथ कथितेनावर्तते तूष्णीं करोति न भणति किं तवैतैः स्वयं सम्यग्वत्तेथा इति। तदाऽन्यत्र गच्छेदिति। यदुक्तं प्राक्॥ दाऊणं पच्छित्तवज्झंतंपी पडिच्छेजा। इति // तत् व्याख्यानयति / (निम्गमणे अपरिसुद्धे, इमाए जयणाए वारेंति) तृतीये भंगे निर्गमने परिशुद्ध प्रागुक्तदोषवर्जिते आगमने अशुद्ध व्रजिकादिषु प्रतिबंधकरणादिषु प्रतिबंधकरणात् द्वितीये पदे अल्पदोषतयाप्रतीच्छाबुद्धौ सत्यां प्रायश्चित्तं प्रतिबंध-मात्रनिष्पन्नं ददाति / दत्वा च प्रतीच्छंति निर्गमने पुनः प्रथमभंगे द्वितीयभंगे वा अधिकरणमेव अधिकरणादिभिः 1 एगेऽपरिणए वा इत्यादिभिर्वा दोषैरपरिशुद्धे न प्रतीच्छनीयः किंतु वारणीयः / तं वाऽनया वक्षमाणयाऽथतनया वारयति / तामेवाह॥ नत्थिसंकियसंयाड, मंडली विक्खवाहिराणयणं। पच्छित्तविउस्सग्ग, निगमसुत्तस्स छण्णेण / / यः पंजरभग्रो ज्ञानदर्शनार्थमागतः तं प्रतीय वाग्यतना यत्त्वं श्रुतमभिलषसि / तन्मम पार्क नास्ति अथ स ब्रूयात् मया श्रुतं यथाऽमुकोग्रंथोऽमुकस्यापार्श्वे युष्माभिः श्रुत इति तत् इदं वक्तव्यं श्रुतः स ग्रंथः केवलमिदनी बहुषुस्थानेषु शंकितं जातं नचशंकितं श्रुतमन्यस्मै दीयते प्रवचने निषेधात् तस्मादन्यत्र निःशंकितश्रुतात् गवेषयस्वा यस्तु स्वच्छंदमतिः संघाटकोद्विग्रःसंज्ञाभूमिमप्येकाकिना गंतुं न लभ्यमिति