________________ आलोयणा 438 अभिधानराजेन्द्रः भाग 2 आलोयणा गमनं शुद्ध क्वचिदपि वजिकादौ प्रतिबंधकरणात् तृतीयचतुर्थभंगावनुक्रमेणाऽह / / एतद्दोसाविमुकं, वइयादी अपडिबद्धमायातं / / दाऊणं पच्छित्तं, पडिबद्धं पडिच्छेला || एतैरनंतरोदितैरधिकरणकारित्वविकृतिलांपठ्यादिदोषैर्वि-मुक्तमेतेन निर्गमनं शुद्धमुक्ता तथा वजिकादौ अप्रतिबद्धं क्वचिदपि प्रतिबंधमकुंर्वत. मायातमनेनाऽगमनं शुद्धमपि दर्शितं एष चतुर्थो-भंगः / एष एवोत्सर्गतः श्रेयानिति ज्ञापनार्थ तृतीयभंगात्पूर्वमुक्तः / एवं भूतं प्रतीच्छेत् / तृतीयभंगमाह (उणे) त्यादि यस्त्वधिकरणकारित्वादिदोषैर्विनिर्मुक्तो निर्गतः केवलंवजिकादिषु प्रतिबद्धमप्यपवादपदेन वजिकादिषु प्रतिबंधकारणमभूत्तन्निमित्तं प्रायश्चित्तं दत्वा प्रतीच्छेत् / / (7) आलोचनायां शिष्याऽचार्यपरीक्षणे आवश्यकादिद्वाराणि॥ सुद्धं पडिच्छिऊणं, अपरिच्छणा लहुय तिग्निदिवसाणं। सिस्से आयरिए वा, पारिच्छा तत्थिमा होइ। शुद्ध निर्गमनागमनादिदोषरहितं प्रतीच्छ्य प्रतिगृह्य त्रीन दिवसान्यावत् परीक्षेत / किमेष धर्मश्रद्धावान् किं वा नेति यदि पुनर्न परीक्षते। ततोऽपरीक्षणे परीक्षणाकरणे (लहुयत्ति) मासलघु प्रायश्चित्तं आचार्यान्तराभिप्रायेण चर्तुमासलघु। सा च परीक्षा उभययाऽपि शिष्य आचार्य परीक्षते आचार्याः शिष्यं उभययापि च परीक्षा आवश्यकादिपदैस्तयाचाह / (सिस्सिइत्यादि) तत्र तस्मिन् उपसंपद्यमाने प्रतीच्छिते सति शिष्ये आचार्य च परस्परमियमावश्यकादिपदैर्वक्ष्यमाणा परीक्षा भवति॥ तामेवाह / / आवस्सयपडिलेहण, सज्झाण भुजणाय भासाय। वीयारे गेलन्ने, भिक्खग्गहणे पडिच्छंति // आवश्यके, प्रतिलेखने, स्वाध्याये, भोजने, भाषायां, विचारे, यहि मौ, ग्लाने, भिक्षाग्रहणे, च परस्परमाचार्यशिष्यौ परीक्ष्येते / / तत्राऽवश्यकादिपदान्यधिकृत्य यथाचार्यः शिष्यं परीक्षतेतथोपदर्शयति॥ केई पुथ्वनिसिद्धा केई सारेइ तन्न सारे। संविग्गोसिक्खमग्गइ, सुत्तावलिमो अणाहो हं॥ केचित्साधवोवृषभादयः तस्योपसंपत्कालात्पूर्वमेव आवश्यकादिपदेषु ये दोषास्तेभ्यो निषिद्धा यथा आचार्या इदमिदंच माकाषुरिति। तेतच्छव वर्तमानास्तिष्ठति / ये पुनः केचित् अभिनवदीक्षितत्वादिना कारणेन प्रमाद्यंति तान् गुरुः सारयति। सम्यग् यथोक्तानुष्ठाने वर्तयति / तं पुनरुपसंपन्नं प्रमादस्थाने वर्तमानमपि न सारयति / तत्र यदि स उपसंपद्यमानः संविनो भवति। ततः सोऽप्रतिनेद्यमानः सन्नेवं चिंतयति। येषु स्थाने-वन्यानप्रमाद्यत आचार्याः सारयति अहो अहमनाथः परित्यक्त एतैरिति चिंतयित्वा संविग्नहविहारमिच्छन् आचार्यपादमूले गत्वा (सुत्तावलिमो) इति निपातः पादपूरणाच्छिन्नमुक्तावलीप्रकाशान्यभूणि विमुंचन पादयोः पतित्वां शिक्षामार्गयते याचते यथा मामप्यत्यादरेण भगवंतः शिक्षयन्तां मां शरणमुपागतं परित्यजत एवं परीक्षानिर्वर्तितः परिग्राह्यः। इतरस्तु परित्याज्यः।। तत्राऽवश्यके यथा परीक्षा कर्तव्या तथोपदर्शयति॥ हीणाहियविवरिए, सतिविवले पुटवलुते चोएइ / / अप्पणवो देती नममंति इहं सुहं वसिउं॥ हीनं नाम यत्कायोत्सर्गसूत्राणि मंदमंदमुच्चार्य शेषेषु साधुषु चिरकालं कायोत्सर्गे स्थितेषुपश्चात्स कायोत्सर्गे तिष्ठति। इत्या-दि। अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितमुचाचार्नुत्प्रेक्षा-करणार्थं पूर्वमेव कायोत्सर्गे तिष्ठति रत्नाधिके वोत्सारिते-कायोत्सर्गेपश्चाचिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि। विपरीतं नाम प्रादोषिकान्कायोत्सर्गान प्राभातिकानिव करोति / प्राभातिकान् प्रादोषिकानिव इत्यादि / हीनाधिकं च विपरीतं समाहारद्वंद्वस्तस्मिन्प्रमादतोवर्तमानात् अथवा सूर्ये किल अस्तमितमात्रे एव निर्व्याघाते सर्वैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं / यदि पुनराचार्यस्य श्राद्धादिधर्मकथादि भिाघातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त वाशेषैः सूत्रार्थस्मरणार्थ कायोत्सर्गेण स्थातव्यं / ये सत्यपि वले पूर्व कायोत्सर्गे न तिष्ठति तान्पूर्वमतिष्ठतश्चोदयंति यः पुनः परीक्ष्यते तंप्रमाद्यंतमपि न शिक्षयंति / ततो यदि स एवं व्यवस्यति / यथा आत्मीयान् प्रमाद्यतश्चोदयति / न मामिति सुखमिह वसितु-मिति। स इत्थं भूतः पंजरभनो ज्ञातव्यो न प्रतीच्छनीयः।। जो पुण चोइजंते, दट्ठुण नियत्तए ततो ठाणा। भणह अहं भवत्तो, चोएह ममंपि सीयंतं // यः पुनश्चोद्यमाना न् शिक्ष्यमाणान् शेषसाधून् दृष्ट्वा ततः स्थानात् निवर्तितैर्भणति / गुरुपादमूले गत्वा मन्युभराक्रांतो गद्दस्वरेण अहं युष्मच्छरणमागतोऽपि भगवन् युष्माभिः शिक्षाया अप्रदानतस्त्यक्तः। न चैतत् भगवतां परमकरुणापरीत-चेतसामुचितं / तस्मात्प्रमादमाध्याम मामपि सीदंतं शिक्षय-ध्वमिति एष इत्थंभूतः प्रतिग्राह्यः कृता आवश्यकमधिकृत्य परीक्षा // संप्रतिप्रतिलेखनस्वाध्याय भोजनभाषाद्वाराणि अधिकृत्य तामाह / / पडिलेहणसज्झाए, एमेव य हीणअहियविवरीयं / दोसेहि वा वि मुंजइ, गारत्थियढएमासा॥ एवमेवावश्यकोक्तेनैव प्रकारेण प्रतिलेखने, स्वाध्याये, च हीनमधिक विपरीतं च कुर्वत आत्मीयान् शिक्षयतेनतुतंपरीक्ष्यमाणमित्यादि पूर्ववत् तत्र प्रतिलेखनाया हीनाधिकता नाम यत् कालतो हीनामधिकां वा / विपरीतता नाम प्रभाते यत् मुखपोतिकादिक्रमेण न प्रत्युपेक्षते। किंतु स्वेच्छया यदि वा पूर्वाह्नरणं निःपश्चिमं प्रत्युपेक्षते। अपराण्हे तु सर्व प्रथममित्यादि / स्वाध्याये हीनता नाम यदिप्राप्तायामपिकाल वेलायां काल-प्रतिक्रमणं करोति अधिकता यदतिक्रांतायामपिकालवेलायां कालं प्रतिक्रामति। वंदनादिक्रियायांवा तदनुगतां हीनाधिकां करोति विपरीतता पौरुषीपाठमतिक्रांतायां पौरुष्यां पठति / उक्तालिकं पौरुष्यामिति तथा भोजनद्वारे आलोकादिवि-धानसूत्रोक्ते न न भुक्ते दोषैर्वाऽपि (असुरसुरं अचवचवं अट्टय-मवलंवियमि) त्यादि विपरीतरूपैर्भुक्ते।