SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आलोयणा 437 अभिधानराजेन्द्रः भाग 2 आलोयणा जइ भंडणपडिणीए, लुद्धे अणुबद्धरोस चउगुरुगा / / सेसाण हुंति लहुगा, एमेव पडिच्छमाणस्स। यो यतिभिः सह भंडनं कृत्वा समागतः। यश्च तत्र मे प्रत्यनीकः साधुरिति कृत्वा समागच्छेत् / यश्च लुब्धो यश्चानुबद्धरोषः / एतेषामुपसंपदं प्रतिपद्यमानानां प्रायश्चित्तं चतुर्गुरुकाः चत्वारो गुरुमासाः / शेषाणां भंडनकारिविकृतिलंपटयोगभीरुस्तब्ध-निर्द्धर्मस्वच्छंदमतीनां लघुका इतिचत्वारो लघुकाः। यः पुनराचार्यस्तदाचार्याननुज्ञया प्रायश्चित्तदानमतरेण च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव / तद्यथा / यतिभंडनकारिप्रत्यनी-कलुब्धानुबद्धवैरान्प्रतीच्छतश्चत्वारोमासाः शेषान्षट्प्रती-च्छतश्चत्वारोलघुमासाः। अथवा ये एते दोषा उक्तास्तेषां मध्ये एकेनापि दोषेण नागतो भवेत् किंत्वे भिर्वक्ष्यमाणैस्तानेवाह। एगे अपरिणए वा, अप्पाधारे य थेरए। गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे / / यदि एक एकाकी पश्चादाचार्यः। यदिवा अपरिणए वा, अप्पाधारे य थेरए। गिलाणे बहुरोगीय मंदधम्मे य पाहुडे || यदि एकतः। अकल्पिकवस्त्रादिसहितः सच कल्पिक-वस्त्राधुत्पादने लब्धिमानथवा तदाचार्योऽल्पाधारः सूत्रार्थ-नैषणविकलः सच पृष्टः सन् सूत्रार्थकथने निपुणः शक्तिमान् यदि वा तदाचार्यः परिवारो वा स्थविरो जरसा वृद्धशरीरः / स च तेषां प्रतिजागरूकः अथवा पश्चादेकोग्लानः।स च तस्य चिंताकारी यदि वा पश्चत्तत्रैको बहुरोगी नाम बहुभिः साधारणैरागैर्जाप्यशरीरः स च तस्य वर्त्तापकः / यदि वा पश्चात्तनाचार्यपरिवारः सर्वोऽपि निर्द्धनिगुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति। तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति। प्राभूतं नाम अधिकरणं। सचगुरोः क्रमेण अपनतःसाहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति।तदातस्य निर्गमनमशुद्धत्वाच्च परित्याज्यमिति / / एनामेव गाथां व्याख्यातुकाम प्रथमत एका परिणताऽल्पा-धारद्वाराणि | व्याख्यानयति // एगाणियं पमोत्तुं, वत्थादि अकप्पएहिं वा सहियं / अप्पाधारावायणं, तं चेव य पुच्छिओ देइ। एक मेकाकिनं पश्चादाचार्य मुक्त्वा यदि सभागतः / अथवा | वस्त्राचकल्पिकैः प्रथममपि ग्रहीतैरकल्पिकैर्वस्त्रादिभिः सहितं मुक्त्या एतेनापरिणत इति व्याख्यातां। यदिवा अल्प सूत्रस्या-ऽर्थस्य वा आधार इति स आचार्यस्तमेवपृष्ट्वा शेषसाधुभ्यो वाचनां ददाति तादृशं मुक्तवा एतेनाऽल्पाधार इति विवृतं॥ थेरं अतिमहल्लं, अजंगम मोत्तु आगतो गुरुं तु॥ सो व परिसाव थेरा, अहं तु अट्टावगोतेसिं ॥शा स्थविरमेव व्याचष्टे अतीव महान्तमजंगमं गमनशक्ति विकलं गुरुं उपलक्षणमेतत् परिवारं वा स्थविरमुक्तरूपमुक्त्वा यदि समागतः स च प्रतिजागरुक स्तथा च तस्य पृष्टस्य सतोऽमुमेवोक्तिविशेषं दर्शयति।स च आचार्यः स्थविरः पर्षद्वा परिवारो वा आसीत् अहं तु तेषां गुर्वादीनां वर्तापकः प्रति जागरूक एतेन स्थविर इति पदं व्याख्यातं / / ग्लानबहुरोगनिर्द्धर्मपदानि व्याख्यानयति / तत्थ गिलाणोएगो, जप्पसरीरो य होइ बहुरोगी॥ निद्धम्मा गुरुआणं, न करेंति समं पमोत्तूणं ||1|| तत्र गच्छे ग्लान एकोऽस्ति यदि वा बहुरोगीयो जाप्यशरीरो भवति। स बहुरोगी तंग्लानं बहुरोगिणं वा विमुच्य यदि स समागतस्तथा निर्द्धर्मपरिषद्विषये तस्य पृष्टस्य सत उक्तिविशेषं दर्शयति / निर्द्धमधिर्मवासनारहितस्तस्यममाचार्यस्य शिष्याः सर्वथा गुर्वाज्ञान कुर्वति। मां प्रमुच्य मम पुनराज्ञां न कुर्वति। तादृशं वा निर्द्धर्म परिवारं मुक्त्वा यदि समागतस्तर्हि स न प्रतिग्राह्यः / केवलमयमुपदेशस्तस्मेदातव्यः॥ तमेवाह। एयारिसं विओसज्ज, विप्पवासोन कप्पई। सीसायरियपडिच्छे, पायच्छित्तं विहिज्जइशा एतादृशमेकाक्यादिस्वरूपं गुरुमन्यं वा ग्लानादिकं व्युत्स्टज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रवासो भद्रं तव न कल्पते / बहुगुणाधारो भवान् कयमीदृशं कृतवान् / तस्मात् अद्याऽपि प्रायश्चित्तं प्रतिपद्य पश्चात् गच्छ। स च समागतस्तस्य प्राक्तनाचार्यस्य शिष्यो वा स्यात् प्रतीच्छको वा एवमाग-तमुपसंपद्यमानं योऽप्याचार्यः प्रतीच्छति सोऽपि प्रायश्चित्तभाक् / ततः शिष्यप्रतीच्छकाचार्याणां प्रायश्चित्तं विवक्षुरिदमाह / / (सीसायरिएत्यादि) शिष्ये आचार्य प्रतीच्छके च प्रायश्चित्तं विधीयते। प्रायश्चित्तदानविधिरुच्यते इति भावः / / प्रतिज्ञातमेव निर्वाहयति॥ एगे गिलाणगे वा, तिण्हवि गुरुगा उसीसमादीणं / / सेसे सिस्से गुरुगा, पडिच्छलहुगा गुरुसरिसं॥ एकस्मिन् एकाकिनि गुरौ ग्लाने वा तत्र गच्छे तिष्ठति यदि समागतः। शिष्यः प्रतीच्छको वा आचार्येण वा तथा समागतः सन् यदि प्रतीच्छितस्तदा शिष्यादीनां शिष्यप्रतीच्छकाचार्याणांत्रयाणामपि प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः। यः पुनरन्यः शेषोऽपरिणताऽल्पाधारस्यविरबहुरोगमंदधर्मपरिचारलक्षण-स्तस्मिन शेषे यदि समागतः शिष्यः ततस्तस्य प्रायश्चित्तं गुरुका-श्चत्वारो गुरुमासाः। अथ प्रतीच्छकः समागतस्तर्हि तस्य लघुकाश्चत्वारोलघुमासाः (गुरुसरिसमिति) गुरोरपि प्रतीच्छ-कसदृशं प्रायश्चित्तं / किमुक्तं भवति यदिशिष्यं प्रतीच्छति ततः प्रायश्चित्तं चत्वारो गुरुमासाः अथ प्रतीच्छकंतर्हिचत्वारोलघुका इति / / सीसपडिच्छे पाहुड,च्छेदो राइंदियाणि पंचेव। आयरियस्स उगुरुगा, दोवेएपडिच्छमाणस्स॥ यदि प्राभृते गुरोः केनापि सहाधिकरणावर्त्तमानः शिष्यः प्रतीच्छको वा समागतः / तदा तस्य प्रतीच्छकस्य वा प्रायश्चित्तं पंचरात्रिंदिवानि पर्यायस्य छेदः / आचार्यस्य पुनर्धावप्येतौ प्रतीच्छतः प्रतिगृह्णतः प्रायश्चित्तं / गुरुकाश्चत्वारो गुरुमासाः / तदेवं प्रथमभंगे निर्गमनदोषा उक्ताः आगमनमशुद्धं तदा भवति यदा वजिकादिषु प्रतिबध्यमानः समागततस्तत्रापि प्रतिबंधनिमित्तं प्रायश्चित्तं सूत्रानुसारतो वक्तव्यं / गतः प्रथमो भंगः द्वितीयभंगोऽप्येतादृश एव न वरं / तत्रा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy