________________ आलोयणा 436 अभिधानराजेन्द्रः भाग 2 आलोयणा शुद्ध तत्र प्रथमभंगेनिर्गमन (इमेहिंतुति) एभिर्वक्ष्यमाणैद्वारै-चिंतितान्येव द्वाराणि दर्शयति॥ अहिगरणविगतिजोगे, पडिणीए थद्धलुद्धनिद्धम्मे। अलसअणुबद्धवरे, सच्छंदमतीपयहियव्वो॥ यदि स उपसंपद्यमानोऽधिकरणतः स्वस्थानान्निर्गतः (विग-तित्ति) विकृतेलापठ्यात् (योगत्ति) योगोद्वहनभीरुतया (पडिणीएत्ति) प्रत्यनीकोऽत्र मे साधुरिति बुद्ध्या तथा थद्धलुद्ध" इत्यादिस्तब्ध इति वा लुब्ध इति वा निर्द्धर्म इति वा अलस इति वा स्वच्छंदमतिरिति वा विनिर्गतस्तत स्तस्य निर्गम-नमशुद्धमिति कृत्वा (पयहियव्वोत्ति) परिहर्त्तव्यः। तदपरिहणे प्रायश्चित्तं तत्राधिकरणाविषये प्रायश्चित्तमाह। गिहिसंजय अहिगरणे, लहु गुरुगा तस्स अप्पणोच्छेदो। विगई न देइ घेत्तुं, उत्तुरयं व गहिये वि॥ गृहिभिः संयतेश्च सहाधिकरणे विनिर्गतं यद्याचार्यः स्वीकरोति ततो यथाक्रमं प्रायश्चित्तं लधुगुरुकं / इयमत्र भावना / यदि गृहस्थेन सहाधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यःसंगृहाति ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो लघुमासाः अथ संयतेन सममधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यः संगृहाति ततस्तस्याचार्यस्य परिहारस्यानं चत्वारो लघुमासाः अथ संयतेन सममधिकरणं कृत्वा समागतं संगृह्णाति ततश्चत्वारो गुरुकाः / तस्य पुनरागंतुकस्य (पणत्ति) रात्रिंदिवपंचकप्रमाणाः पर्यायस्यच्छेदः / इहाऽधिकरणादिदोषतो विनिर्गतास्ते प्रश्ने वा सति तदुक्तिवशादवसीयंते / तत्र विकृतिदोषविनिर्गतपृष्ठस्य वा उक्तिविशेषस्तं दर्शयति (विगइमित्यादि) आचार्यो विकृति घृतादि कांग्रहणां य नददाति तथा योगवाहिभिर्यो गोत्तीर्णः कायोत्सर्गकरणतोगृहीतोऽपि परिपूर्ण विकृति जातेऽन्यैर्भुक्ते या उद्वरिता विकृतिस्तामपि नानुजानाति किंच। नववजिया विदेहो, पगईए दुव्वलोअहं भंते !! तब्भावियस्स इण्डिं, नयगहणं धारणं कत्तो॥ वजिवावोनाम देशीवचनत्वादिक्षुः / उक्तं च "वजियावगोउच्चू" इति नववजियाववत् देहो यस्यसतथा इयमत्र भावना। सब्रूते अहं भवगन् ! नवेक्षुतुल्यो मम देहो यथा स इक्षुः पानीयेन विना शुष्यति तथा ममापि देहो विकृति विना सीदति / अन्यच्चाऽहं स्वभावेन दुर्बलोन विकृतिमंतरेण बलिको भवामि। तथासर्वदैव विकृत्याचितदेहस्ततस्तद्भावितस्य सतो ममेदानीं तस्याऽभावेन बलं न च सूत्राऽर्थस्य वा ग्रहणमशक्तत्वात्। पूर्व गृहीतस्य सूत्रस्यावधारणं कुतः तत् अशक्त्या सर्व दूरत एव विस्मृतं। ततोऽहं विनिर्गतः॥ संप्रति योगविषये प्रत्यनीकविषये चोक्तिविशेषं दर्शयति!। एगंतरनिव्वगत्ती, जोगोपव्वत्थिगोवमे अत्थि। दुक्कूखलिएसु गेण्हइ, छिवाणि कहेइय गुरूणं / / तस्मिन् गच्छयोग एकांतरनिर्विकृतिकः / किमुक्तं भवति / सपृष्टोवा ब्रूते। तस्याऽचार्यस्य गच्छे योग एकांतरोपवासेनोह्यते। एकांतराचाम्लेन वा तथा योगवाहिनो योगोत्तीर्णस्याऽपि ते आचार्या विकृतिन विसृजति / ततः कर्कशा सुत्र योगा इति विनिर्गतः / न तथा तत्र गच्छे मे मम प्रत्यर्थिकः / प्रत्यनीकोऽस्ति स कथं विसामाचारीयो गेषु "तुझखलिएसुत्ति'' वुक्के विस्मृते सामाचारीविशेषे स्खलिते दुःप्रत्युपेक्षणादिके मांगृह्णाति अत्यर्थ खरंटयति। अथवा बुक्कस्खलितेषु जातेषु तानि बुक्कस्खलितानि अपराधपदे छिद्राणीवछिद्राणि गृह्णाति गृहीत्वा गुरूणां कथयति / पश्चात् गुरुवो मां खरंटयंति ततो विनिर्गतः।। संप्रति लुब्धस्य स्तब्धस्य चोक्तिविशेष दर्शयति॥ चंकमणादिउठाणे, कडिगहणं काउ नत्थि वहि एवं / / भुंजइ सयमुक्कोसं, तयदेति नेमिलुद्धेवं ॥शा स्तब्ध एवं भाषते चंक्रमणादावुत्थाने कटिग्रहणं स्वाध्यायश्च नास्ति। एतदुक्तं भवति / यद्याचार्याश्चंक्रमणं कुर्वति / आदि शब्दात् यदि वा कायिक्यादिभूमि गच्छंत्यागच्छति वा तथा तथा-ऽप्यभ्युत्थातव्याः। तेषां नायकत्वात्। ततः एवं चंक्रमणादाव-भ्युत्तिष्ठतामस्माकं कटी वा तेन गृह्यते भूयोभूय उत्थाने पलि-मंथभावात् सूत्ररूपस्याऽर्थरूपस्य वा स्वाध्यायस्य हानिः। अथ नाभ्युत्थीयतेऽतः आचार्यः प्रायश्चित्तं ददाति खरंटयति च। ततोऽहं विर्निगतः लुब्धः पुनरेवं ब्रूते यत्किमप्युत्कृष्ट शिखरिणीमोदकादि तदाचार्यः स्वयं भुक्ते न त्वस्मादृशेभ्यो ददाति / अन्येभ्यो वा बालदुर्बलप्राधुर्णकेभ्यो ददाति ततः एवमसहमानोऽहं निर्गतः॥ अथवा निर्द्धलिसयोरुक्तिविशेष प्रकटयति॥ आवासियापमन्त्रण, अकरणे उज्जदंडनिद्धम्मो॥ बालावद्धादीहा, भिक्खायरिया य उभामाशा योनिद्धा स पृष्टः सन्नेवं वक्ति आवश्यक प्रमार्जनीकरणे उदग्रदंडा आचार्याः / इयमत्र भावना / यदि कथमपि निर्गच्छन् प्रविशन् वा आवश्यकीं नैषधिकी च न करोति दंडादिकं वा गृह्णन् निक्षिपन्वा न प्रमार्जयति / तत आचार्या निरनुकंपाः संतः उग्रं प्रायश्चित्तरूपं दंड प्रयच्छति ततोऽहं दंडभयाद्विनिर्गतः / यः पुनरलसः स एवं ब्रूते। बालाद्यर्थाय बालवृद्धादीनामर्याय।तस्मिन् गच्छे दीर्घभिक्षाचार्या अथवा क्षुल्लकं कर्कशं वा तत् क्षेत्रं ततो दिने दिने उद्घामा भिक्षाचर्या प्रतिदिवसमन्यत्र ग्रामान्तरे गत्वा भिक्षा नीयते इति भावस्तथा यदिकथमप्यपर्याप्तने समागम्यते ततो गुरुः खरटयति किं वसतौ न महानसमस्ति येनापर्याप्तः समागतः। तस्मा भूयोऽपि व्रज भिक्षार्थ यतः कालोऽद्यापि बहू प्राप्य इति ततोऽहं निर्गतः। सांप्रतमनुबद्धवरस्वच्छंदमत्योरुक्तिविशेष दर्शयति॥ पाणसुणगा व मुंजंति, एगत्तो भंडिउंपि अणुबद्धो॥ एगागिस्सनलब्भा, बलिउं घेवंपि सच्छंदो॥ अनुबद्धोऽनुबद्धवैरो भवति भंडित्वाऽपि भंडनं कलहस्तमपि कृत्वा पाणशुनका इव एकत्र भुंजते / इयमत्र भावना // यथा पाणाश्चंडालाः शुनकाः कुर्कुराः परस्परं भंडित्या तत्क्षणादेवैकत्र भुंजते। एवं तत्र संयता अपि नवरं मिथ्यादुष्कृतं परस्परं दाप्यं इति विशेषः / अहं पुनर्न शक्रोमि हृदयस्थेनशल्येन तैः सह एकत्रसमुद्देष्टमिति विनिर्गतः। स्वच्छंदमतिः पुनरेवंभाषेत एकाकिनः सतः स्तोकमपिनलभ्यंचलितुं। किमुक्तं भवति। संज्ञा-भूमावप्येकाकिनः सतो न गंतुं प्रयच्छंति कित्वेवं ब्रुवते नियमात्संघाटक रूपतया के नापि सहितेन गंतव्यं / ततस्तमसहमानोऽहमत्रागतः एतान्यधिकरणादीनि पदान्याचार्यः श्रुत्वा तं परित्यजति / एतैश्चाधिकरणादिपदैरागतस्य तस्योपसंपद्यमानस्य चाप्रतीच्छतश्चाचार्यस्येद प्रायश्चित्तं /